Category Archives: News Updates

केरलोत्पत्तिदिने मलयालभाषायां प्रधानमन्त्रिणः आशंसा।

नवदिल्ली- नवम्बर् मासस्य प्रथमदिवसः केरलस्य जन्मदिनं भवति। दिनेस्मिन् मलयाले आङ्गले च प्रधानमन्त्री केरलान् आशशंस। एवं हरियाणा, मध्यप्रदेशः, छत्तास्गढ् कर्णाटकम् इत्येतेषु राज्येषु अधिवसतः जनानपि प्रधानमन्त्री स्वकीयाम् आशंसां न्यवेदयत्।

केरलान् कर्णाटकान् च आङ्गले प्रान्तीयभाषायामपि आशशंस। इतरान् तत्तत् प्रान्तीयभाषायमेव तोषितवान् मोदीवर्यः।

षार्जा राष्ट्रे अक्षरवसन्तम्, इतःपरं दशदिनानि वाचनदिनानि।

षार्जा- अन्ताराष्ट्र पुस्तकोत्सवस्य प्रारम्भः षार्जाराष्ट्रे सुसम्पन्नः। नूतनानां पुस्तकानां सञ्चयः तत्र वर्तते। विदेशराष्ट्रेभ्यः अपि अक्षररूपिमा पुस्तकोत्सवे सन्ति।

३८ तमः षार्जा अन्ताराष्ट्र पुस्तकोत्सव एवात्र चलति। अस्य उद्घाटनार्थं षार्जा प्रदर्शननगर्यां षार्जा भरणाधिकारी तथा ऐक्य-अरब् संघस्य परमोन्नतसमित्यङ्गं च शैख् डो. सुल्तान् बीन् मुहम्मद् अल् खासिमि वर्यः आगतः। तुर्कीराष्ट्रस्थः लेखकः तथा नोबल् पुरस्कापविजेता च ओर्हान् पामुक्, अमेरिका नटः लेखकश्च स्लीव् हार्वे प्रभृतयः पुस्तरोत्सवे मुख्यातिथयः आसन्। प्रदर्शननगरीस्थायां वेदिकायां सम्पन्ने उद्घाटनसमारोहे विश्वे विविधेभ्यः राष्ट्रेभ्यः आगताः लेखकाः साहित्यनायकाश्च साक्षिणः आभवन्। पुस्तकोत्सवे २०१९ वर्षस्य सांस्कृतिकव्यक्तिरूपेण लबनन् लेखिका तथा निरूपिका च डो युम्न अल् ईद् वर्या चिता।

जम्मू-काश्मीरे नियन्त्रणानि पूर्णतया अपाकर्तव्यानि-ऐक्यराष्ट्र-मानवाधिकारायुक्तः।

दिल्ली- जम्मू-काश्मीरस्थानि नियन्त्रणानि पूर्णतया अपाकर्तव्यानि इति ऐक्यराष्ट्रसभा-मानवाधिकारायुक्तः मिषेल् वचलेट्ट् वर्या अवदत्। यूरोपीय-संसत्सदस्यानां काश्मीर् सन्दर्शनावसरे एव तया एवं निगदितम्। तत्रत्येषु नियन्त्रणेषु सा आशङ्कामसूचयत्। अतः मानवाधिकारः तत्र संरक्षणीयः, नियन्त्रणानि पूर्णतया अपाकर्तव्यानि इति सा असन्दिग्दतया न्यगादीत्।

     काश्मीर् पुनःसंघटनानन्तरं प्रथमतया एव वैदेशिक- प्रतिनिधिसंघाय काश्मीर् सन्दर्शनानुमतिः दत्ता। यूरोपीय संसद् सदसि अङ्गभूतेषु २७ जनेषु भूरिपक्षाङ्गानि तीव्रदक्षिणपक्षाशयं वितन्वन्ति। गतदिने यानचालकान् प्रति ग्रनेट् आक्रमणं तत्र सञ्जातमासीत्। अतः बृहती सुरक्षा आसीत् तेषां सन्दर्शनसमये। तत्रत्यैः प्रतिनिधिभिः साकं ते चर्चामकुर्वन्।

     भारतीयसंसद् सदस्येभ्यो नियन्त्रणे संस्थिते वैदेशिकेभ्यो सन्दर्शनानुमतिः दत्ता इत्यतः विपक्षिदलसंघः प्रक्षोभं वितनोति। एतत् संसदं प्रति अनादर एवेति ते आक्षिपन्ति स्म।

पालक्काट् वनान्तर्भागे मावोवादि-सुरक्षासेनयोः मिथः सङ्घर्षः, त्रयः मृताः।

पालक्काट्- पालक्काट् मण्डले अट्टप्पाटी समीपस्थे वनान्तर्भागे मावोवादिनां सुरक्षादलानां च मिथः सङ्घर्षे त्रयः मावोवादिनः हताः। मावोवादिनां आक्रमणं परिहर्तुं नियुक्ता तण्डर् बोल्ट् इति विशेषशेषीयुक्ता सेना तत्र वनभागे पर्यटन्नासीत्। तदा मावोवादिभिः तान् लक्ष्यीकृत्य गोलिकाप्रहारः कृत‌ः। तत्परिहर्तुं तण्टर् बोल्ट् सैन्येन मावोवादीन् प्रत्यपि गेलिकाप्रहारः कृतः। एवं त्रयाणां मृत्युरपि अभवत् इति रक्षिदलः वदति। तण्टर् बोल्ट् उपनिर्देशकस्य सैमण् वर्यस्य नेतृत्वे आसीत् प्रत्याक्रमणम्।

गतवर्षे अपि एवं मावोवादिनः सङ्घर्षे हताः आसन्।

अद्य दीपावलीपर्व, आराष्ट्रं पर्वसमाचरणम्।

नवदिल्ली-  अद्य आश्विनिमासीयकृष्णचतुर्दशीपर्व। दिनमेतत् दीपावलीपर्वत्वेन आचर्यन्ते भारतीयैः। दीपानां वर्णविस्मयः तथा स्फोटकानां शब्दश्च दीपावलीपर्वणः विशेषता। मधुराणामपि उत्सवः भवति दीपावलीपर्व।

दीपावलीसम्बन्धीनि ऐतिह्यानि बहूनि सन्ति। तेषु नरकासुरवधसम्बन्धि तथा श्रीरामपट्टाभिषेकसम्बन्धि च प्रमुखे भवतः। प्राग्ज्योतिषाधिपः असुरराजा आसीत् नरकासुरः। तस्य विद्रोहप्रवृत्तीः असहमानाः जनाः श्रीकृष्णं शरणं प्रापुः। श्रीकृष्णः प्राग्ज्योतिषं प्राप्य प्रथमं नरकासुरमन्त्रिणं ततः नरकासुरं च हत्वा नरकासुरस्य अन्तःपुरे बन्धनस्थाः 16001 कन्यकाः मोचयामास। भगवति मुग्धाः ताः भगवान् श्रीकृष्णः पत्नीरूपेण गृहीतवान्। एतदेव भादवतकथांशः।  एतत्स्मरणामर्थं दीपावलीपर्व आचर्यते इति प्रसिद्धिः।

सर्वेषां नववाणीसुहृदां कृते दीपावली आशंसाः।

पी.एस्. श्रीधरन् पिल्ला मिजोरां राज्यपालपदव्यां नियुक्तः।

तिरुवनन्तपुरम्- भारतीय जनता पार्टी िति दलस्य केरलराज्याध्यक्षः पी.एस्. श्रीधरन्पिल्लावर्यः मिजोरां राज्यपालत्वेन नियुक्तः। राष्ट्रपतिः रामनाथकोविन्द् वर्यः एतत्सम्बन्धी आदेशः दत्तवान्। राज्यस्तरीयाध्यक्षस्य दायित्वम् आगामिनि मासे अवसीयते। तदन्तरे एव पिल्लावर्यं राज्यपालत्वेन न्ययोजयत्।

     पूर्वं कुम्मनं राजशेखरवर्यः मिजोरां राज्यपालः आसीत्। लोकसभानिर्वाचनसमये तिरुवनन्तपुरं निर्वाचनक्षेत्रे प्रत्याशी भवितुं कुम्मनं वर्यः राज्यपालपदव्याः त्यागपत्रं दत्तवान् आसीत्। मिजोरां राज्यस्य राज्यपालपदवीं प्राप्तः तृतीयः केरलीयः भवति श्रीधरन् पिल्ला। कोण्ग्रेस् नेता वक्कं पुरुषोत्तमः पूर्वमत्र राज्यपालपदवीमलंचकार।

केरले पञ्चसु विधानसभाक्षेत्रेषु निर्वाचवफलं घोषितम्।

तिरुवनन्तपुरम्- केरले पञ्चसु विधानसभाक्षेत्रेषु अस्य मासस्य २१ तमे दिनाङ्के  निर्वाचनं प्रवृत्तमासीत्। अस्य मतगणना अद्य सञ्जाता। एषु ऐक्य०लोकतान्त्रिक सख्यं (यु.डी.एफ्) त्रिषु मण्डलेषु तथा वामपक्षीय लोकतान्त्रिकसख्यं (एल्.डी.एफ्) द्वयोः मण्डलयोः च विजयिनौ जातौ।

     मञ्चेश्वरम्, एरणाकुलम्, अरूर् मण्डलानि ऐक्यलोकतान्त्रिकसख्येन विजितानि। एषु मञ्जेश्वरे मुस्लीं लीग् दलम् तथा एरणाकुलम् अरूर् मण्डलयोः कोण्ग्रेस् दलं च विजयमवाप।

     कोन्नी वट्टियूर्क्काव् मण्डलयोः वामपक्षीय-लोकतान्त्रिक सख्यस्थौ मार्क्सवादी साम्यवादी दलस्य प्रत्याशिनौ विजयिनौ अभवताम्।

रष्यया सह चर्चायां समवायः, सिरियासीमातः सैन्यं प्रतिनिवर्तिष्यते इति तुर्की।

सोच्ची- सिरियायाः सीमातः सैन्यं प्रतिनिवर्तिष्यते इति तुर्की राष्ट्रम्। रष्या राष्ट्रनेत्रा व्लादिमिर् पुचिनेन सह सोची स्थले आयोजितायाः चर्चायाः अन्ते एव तुर्कीराष्ट्रस्य प्रत्यावर्तनम्। 150 होराभ्यन्तरे सेनाप्रतिनिवर्तनं पूर्णं भविता इति तुर्की राष्ट्राध्यक्षः तय्यिप् एर्दोगान् वर्यः व्यक्तमकरोत्।

     सेनाप्रतिनिवर्तनानन्तरं रष्यया सह अस्मिन् प्रान्ते  संयुक्तनिरीक्षणं करिष्यतीत्यपि एर्दोगान् वर्यः अवदत्। सिरियस्थान् कुर्द् वंशजान् लक्ष्यीकृत्य क्रियमाणं आक्रमणम् अवलितव्यम् इति लोकराष्ट्राणाम् सूचना तुर्कीराष्ट्रेण निरस्ता आसीत्। यावत् कुर्दिष् नेतृत्वस्थं सिरियन् प्रजातन्त्रसैन्यं आयुधं त्यजन्ति तावत् सैनिकप्रक्रिया नावसीयते इत्यासीत् तुर्कीराष्ट्राध्यक्षस्य तय्यिप् एर्दोगान् वर्यस्य निश्चयः। कुर्द् सैन्येन साकं रष्यासैन्यमपि अयुङ्क्त। अनेन स्थितिः सङ्कीर्णा अभवत्। एतदनन्तरं ब्रिट्टन्, स्पेयिन्, स्वीडन् प्रभृतीनि राष्ट्राणि अपि तुर्किं प्रति आयुधदानं समापयितुम् उद्यतानि। अन्ते रष्यया सह चर्चायां सैन्यप्रतिनिवर्तनं तुर्की अङ्गीकरोति स्म।

चतुर्षु मण्डलेषु कुजवासरे विद्यालयानां विरामः।

तिरुवनन्तपुरम्- उत्तरपूर्वप्रावृट् वर्षे शक्ते जाते राज्यस्थेषु चतुर्षु मण्डलेषु जिल्लाधिकारिभिः विद्यालयानां विरामः घोषितः। तिरुवनन्तपुरम्, एरणाकुलम्, तृशूर्, आलप्पुषा इत्येतेषु मण्डलेष्वेव एवं विरामः।

वृष्टेः आधिक्यात् एषु मण्डलेषु रक्तजागरणं घोषितमासीत्। वृत्तिविषयककलाशालानां केन्द्रिय विद्यालयानां च विरामः बाधकः।

विश्वविद्यालयीयपरीक्षा क्रमानुसारं प्रचलिष्यति।

पाकिस्थानधीनकाश्मीरे चत्वारि भीकरशिबिराणि भारतसैन्येन विशीर्णानि।

कुप्वारा- पाकिस्तानभुशुण्डिप्रयोगेन द्वयोः भारतसैनिकयोः मृत्योरनन्तरं भारतेन प्रतीकारः कृतः। पाकधीनकाश्मीरस्थानि चत्वारि भीकरशिबिराणि भारतसैन्यं व्यदारयत्। भारतं प्रति निलीय प्रवेष्टुं भीकराः प्रायततन्त। तदानीमेव भारतसैन्यस्य प्रत्याक्रमणम्। एवं चत्वारि केन्द्राणि व्यदारयत्।

     तङ्हर् क्षेत्रविपरीतदिशि संस्थितानि भीकरशिबिराणि प्रत्येव भारतसैन्यस्याक्रमणं संजातम्। अनेन पाकिस्ताने महान् नष्टः संजातः इति सैनिकवक्ता अवदत्।भारतस्याक्रमणम् अनुवर्तते इत्यपि सूचनास्ति।