सैनिकविद्यालयेषु बालिकालामपि प्रवेशदानाय अनुमतिः।

नवदिल्ली- सैनिकविद्यालयेषु बालिकाः अपि पाठनीया  इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन अनुमतः। 2020-21 अध्ययनसत्रादारभ्य विवधया वेलया अयं प्राबल्ये भविष्यति।

     वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण बालिकाः प्रवेशिताः आसन्। अस्य पद्धतेः विजयः सञ्जात इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति आधिकारिकवृत्तानि उद्धृत्य एन्.डा.टि.वि. आवेदयति।

     पद्धतेः सौगम्यक्रियान्वयनाय आवश्यकाः पश्चात्तलसुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च आयोजयितुम् अधिकारिणः आज्ञप्ताः। केन्द्रसर्वकारस्य बेठी पठाओ वेठी बचाओ आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्यैव एष निर्णयः।

     आराष्ट्रं 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे केन्द्रपरियोजनायामेव प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रवेशिताः।

Leave a Reply

Your email address will not be published. Required fields are marked *