Category Archives: News Updates

शिक्षा उपनिदेशककार्यालयस्य पुरतः संस्कृताध्यापकसंघस्य धर्णाप्रक्षोभः।

तृशूर्-राज्यसर्वकारं प्रति प्रतिषेधरूपेण  केरल-संस्कृताध्यापक-फेडरेशन् इति संघस्य आभिमुख्ये आराज्यं शिक्षा उपनिदेशककार्यालयाणां पुरतः धर्णाप्रक्षोभः अनुष्ठितः। तृशूर् मण्डले आयोजिते धर्णाप्रक्षोभे तृशूर् महानगरपरिषदंगं तथा क्षेमकार्य-स्थिरं समितेॆः अध्यक्षः विपक्ष-उपनेता च जोण् डानियेल् वर्यः उद्घाटकः आसीत्। अधिवेशने डो. एस्.एन्. महेष्बाबू वर्यः मुख्यभाषणमकरोत्।

प्राथमिकस्तरे संस्कृताध्यापकनियुक्तिः, पार्ट् टैं शिक्षकेभ्ये भविष्यनिधिः, शिक्षक-छात्रानुपातस्य न्यूनीकरणम्, प्राथमिक-उच्चतरस्चरयोः संस्कृतोत्सवे भागभाक्त्वम् इत्येतान् अवकाशान् उन्नीय आसीत् धर्णा।

राज्यस्ततरीयः उपाध्यक्षः रामन् वर्यः मण्डलाध्यक्षः अशोकन् वर्यः, षंलावर्या, मण्डलकार्यदर्शी जयदेवन् प्रभृतयः भाषणमकुर्वन्।

सैनिकविद्यालयेषु बालिकालामपि प्रवेशदानाय अनुमतिः।

नवदिल्ली- सैनिकविद्यालयेषु बालिकाः अपि पाठनीया  इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन अनुमतः। 2020-21 अध्ययनसत्रादारभ्य विवधया वेलया अयं प्राबल्ये भविष्यति।

     वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण बालिकाः प्रवेशिताः आसन्। अस्य पद्धतेः विजयः सञ्जात इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति आधिकारिकवृत्तानि उद्धृत्य एन्.डा.टि.वि. आवेदयति।

     पद्धतेः सौगम्यक्रियान्वयनाय आवश्यकाः पश्चात्तलसुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च आयोजयितुम् अधिकारिणः आज्ञप्ताः। केन्द्रसर्वकारस्य बेठी पठाओ वेठी बचाओ आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्यैव एष निर्णयः।

     आराष्ट्रं 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे केन्द्रपरियोजनायामेव प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रवेशिताः।

उत्तरप्रदेशे विश्वविद्यालयेशु कलाशालासु च जङ्गमदूरवाणी निरुद्धा।

लख्नौ- उत्तरप्रदेशस्थेशु विश्वविद्यालयेशु कलाशालासु च जङ्गमदूरवाणी निरुद्धा। उत्तरप्रदेश-उन्नतशिक्षा-निदेशालयस्यैव एषः आदेशः। अध्ययनसमये छात्राणाम् अवधानता स्खलिता मा भूत् इत्यत एव अयमादेशः इति निदेशालयः विशदीकरोति। सर्वकलाशाला पठनविभागेषु कलाशालासु च  एतादृशः आदेशः प्रापितः।

     शिक्षा संस्थासु न केवलं छात्राणाम् अपि तु शिक्षकाणामपि दूरवाणीनिरोधः बाधकः। शालासु पठनान्तरिक्षं श्रेष्ठं कर्तुमेवायमादेशः इति संस्था विशदीकरोति।

चन्द्रे कुजे च मानवानाम् अधिवासाय साध्यता इति नासा।

चन्द्रे कुजे च मानवानाम् अधिवासाय साध्यता दृष्टा इति अमेरिक्कायाः बहिराकाश संस्था नासा। नासायाः परीक्षणशालायां चन्द्रस्था कुजस्था च मृत् संसृज्य तासु नेतर्लान्ट्स् गवेषकाः दशपरिच्छिन्नानि सस्यानि रोपयामासुः। एषु नव सस्यानि सम्यक् परिपुष्टानि, तेभ्यः फलान्यपि स्वीकृतवन्तः।

नेतर्लेन्ट्स्थे वाहनिङे विश्वविद्यालयस्थः गवेषकाः रक्तफलं शाकं प्रभृतीनि सस्यानि रोपयामासुः। एषु शाकात् ऋते अन्यानि सम्यक् पुष्टानि जातानि।

गान्धिजी कथम् आत्मानं जघान? गुजरात् राज्ये विद्यालयीयपरीक्षायां विवादास्पदं चोद्यम्।

अहम्मदाबाद्- गुजरात् राज्यस्थेषु विद्यालयेषु परीक्षायां गान्धीमहात्मानमभिलक्ष्य इतिहासविरुद्धं तथा मृषापवादयुक्तं च चोद्यम्। गान्धी कथम् आत्महत्यामकरोत् इत्येव विवादास्पदं चोद्यम्।

नवमकक्ष्याछात्राणां कृते आयोजिते प्रश्नपत्रे एवेदं चोद्यमभवत्। सुफला शालाविकास संकुल् इति संस्थायाः आभिमुख्ये प्रवर्तमानेषु विद्यालयेष्वेवेदं चोद्यं प्रत्यक्षीभूतमभवत्। सर्वकारस्य आर्थिकसाहाय्येन प्रवर्तमानाः भवन्त्येते विद्यालयाः।

सर्वकारसाहाय्यं स्वीकृत्य प्रवर्तितेषु शालासु एतादृशं वस्तुताविरुद्धं चोद्यं दृष्टमिति गान्धीनगर् जिल्ला शिक्षाधिकारी अवदत्।

शान्त्यर्थं विहितः नोबल् पुरस्कारः एत्योप्या प्रधानमन्त्रिणे आबि अहमेमद् अलि वर्याय।

स्टोक्होम्- शान्त्यै विहित‌ाय नोबल् पुरस्काराय २०१९ तमे वर्षे एत्योप्यायाः प्रधानमन्त्री आबि अहम्मद् अलि वर्यः अर्हो अभवत्। एरित्रिया राष्ट्रेण सह सीमाबन्धविषये आबि अहम्मद् अलि वर्यस्य निर्णय एव तं पुरस्काराय अर्हमकरोत्।

शान्तिं विश्वसहकारितां च आप्तुं तेन कृतः परिश्रमः, तत्रापि एरित्रिया इति प्रातिवेशिकराष्ट्रेण सह सीमासम्बन्धिनि विषये स्वीकृतः निर्णयश्च पुरस्कारपरिगणनाविषयौ जातौ।

विख्यातः साक्सोफोण् वादकः कद्रि गोपालनाथः दिवंगतः।

मङ्गलूरु- साक्सफोण् इति सङ्गीतोपकरणे निष्णातः कद्रि गोपाल नाथवर्यः दिवंगतः। मंगलूरुस्थे निजीयचिकित्सालये एवास्य वियोगः अभवत्। कानिचन दिनानि यावत् चिकित्सायामासीत्। अस्य पुत्रः मणिकण्ठ कद्रि संगीत निदेशको भवति।

     नागस्वरविद्वान् तानियप्पा  गङ्गाम्मा चास्य पितरौ। १९५० तमे वर्षे मंगलूरु समीपस्थे मित्तिकेरे ग्रामे आसीदस्य जन्म। बाल्ये एव सङ्गीताभ्यासे निरतः अयं मैसूरु प्रासादस्थं पटहसंघं दृष्ट्वा एव साक्सफोण् इति संगीतोपकरणे आकृष्टो जातः। एन् गोपालकृष्ण ऐय्यर् वर्यादेव अनेन साक्सफोण् वादनमभ्यसितम्।

     पाश्चात्य संगीतोपकरणं साक्सोफोण् कर्णाटकसंगीताय योग्यं कर्तुं दशकत्रयं यावद् अयमयतत। पद्मश्री पुरस्कारेण आदृत  आसीदयम्।

साहित्यमण्डले नोबल् पुरस्काराः घोषिताः।

स्टोक् होम्- २०१८, २०१९ वर्षयोः साहित्य नोबल् पुरस्काराः घोषिताः। २०१८ वर्षस्य पुरस्काराय पोलिष् लेखिका ओल्गा टोगार् चुक् तथा २०१९ वर्षस्य कृते ओष्ट्रियन् लेखकः पीट्टर् हान्ड्के च अर्हावभूताम्।

आर्थिक अत्याचारेण लैङ्किकारोपणेन च २०१८ वर्षस्य साहित्यपुरस्कारः न घोषितः आसीत्। अत एव वर्षद्वयस्य पुरस्कारौ अधुना घोषितौ।

२०१८ वर्षस्य मान् बुक्कर् पुरस्कारजेत्री भवति ओगा टोगार् चुक्। अस्याः कृतयः बहुषु भाषासु विवर्तिताः वर्तन्ते। पठनकाले एव साहित्यमण्डले अपि विराजितः पीट्टर् हान्ड्के वर्यः बहूनां चलचित्राणां कृते पटकथाः अपि अलिखत्।

एयर् इन्ड्या निगममपि विक्रेतुं यतते। अचिरेण निर्णयः भविष्यति।

दिल्ली- राष्ट्रिय विमाननिगमः एयर् इन्ड्या नामकः अचिरेण निजीयः भविष्यति। निजीयरंगे एनं निगमं विक्रेतुं केेन्द्रसर्वकारः सन्नह्यते। निगमस्य सम्पूर्णाः प्रत्यंशाः एवं विक्रीयन्ते। एतदर्थं निर्णयपत्रम् अचिरेण बहिरानीयते। मन्त्रिसमितेः अनुमतिं प्रतीक्षते इति वित्तमन्त्रालयस्य कर्मकराः अवदन्।

     एयर् इन्ड्या निगमस्य सम्पूर्णं प्रत्यंशं विक्रीणाति चेत् १.०५ लक्षं कोटिरूप्यकाणि सर्वकारसमक्षम् आयान्ति। मार्च ३१ दिनाङ्कात् पूर्वं गतिविगतयः समाप्यते। प्रौद्योगिकसंघानां करन्यूनीकरणेन सर्वकारस्य १.४५ लक्षं कोटि रूप्यकाणां नष्टं समजायत। अस्य समीकरणार्थमेव अधुना एयर् इन्ड्याविक्रयणम् उद्दिष्टं सर्वकारेण।

     एवं विक्रयणार्थं रूपीकृतायाः समित्याः अध्यक्षः केन्द्रीय गृहमन्त्री अमित् षा वर्यः भवति। सेप्तम्बर् १९ दिनाङके आयोजिते समित्याः अधिवेशने एतत् सम्बन्धिनी चर्चा समजायत। धनमन्त्री निर्मला सीतारामन्, आभ्यन्तर विमानयातायातमन्त्री हर्दीप् सिंह् पुरी रेल्वे मन्त्री पीयूष् गोयल् इत्येते अपि समित्याम् अङ्कानि भवन्ति।

पी.टी. कुर्याक्कोस् वर्यस्य 130 तमः जन्मदिनसमारोहः कुजवासरे पावरट्ट्याम्।

पावरट्टी – आजीवं देवभाषामुपासितवान्संस्कृतपण्डितवर्यः तथा राष्ट्रिय-संस्कृत-संस्थानमिति मानितविश्वविद्यालयस्य गुरुवायूर् परिसरस्य स्थापकश्च आसीत् पी.टी. कुर्याक्कोस् मास्टर् वर्यः। तेषां महात्मनां 130 तमं जन्मदिनं मानितविश्वव्द्यालयस्य आभिमुख्ये कुजवासरे पावरट्टी देशे आचर्यते।

     केन्द्रसर्वकारस्याधीनतायां प्रवर्तमानेषु 12 संस्कृतविद्यापीठेषु प्राचीनतायां द्वितीयस्थानमस्ति पावरट्टी संस्कृतविद्यापीठस्य। 110 वर्षात् पूर्वमेव कुर्याक्कोस् वर्यः विद्यापीठमिदं स्थापयामास। पुरनाट्टुकरायां पावरट्ट्यां च प्रवर्तमानम् इदं विद्यापीठं विविधधर्मावलम्बिनां छात्राणां सरस्वतीक्षेत्रं भवति।

     हैन्दवानां वेदभाषारुपं संस्कृतमधीत्य पुनः संस्कृतपाठनार्थं विद्यालयं संस्थाप्य संस्कृतमहाकलालयरूपेणास्य परिवर्तनमपि कृत्वा अनन्तरंस केन्द्रसर्वकाराय अमुं विद्यालयं दानं कृतवानयं महात्मा। महात्मनामेषां हृदयविशालतायै आधुनिकपरम्परा श्रद्धाञ्जलिमर्पयेत्।

     कुजवासरे प्रातः अष्ट्ववादने पावरट्टी तीर्थकेन्द्रस्थे कुर्याक्कोस् समाधिस्थले पुष्पार्चना ततः नववादने पावरट्टी कुर्याक्कोस् स्मृतिभवने अधिवेशनं च आयोजितम् इति विद्यापीठसंरक्षणसमितेः अध्यक्षः तोमस् पावरट्टीवर्यः अवदत्।