Category Archives: News Updates
शबरिमला नारीप्रवेशनविषयः सर्वोच्चन्यायालयेन सप्ताङ्ग-संविधान-संवेशनाय प्रेषितः।
नवदिल्ली- शबरिमला विषये पुनःपरिशोधना आवेदनं सर्वोच्चन्यायालयेन सप्ताङ्गसंवेशनाय कल्पितः। विशाल संवेशनस्य निर्णयानन्तरमेव नारीप्रवेशविषये भूतपूर्वः निर्णयः पुनःपरीक्षणीयो वा न वेति निर्णयः भविता। मुख्यन्यायाधीशस्य आध्यक्ष्ये पञ्चाङ्गसंवेशनस्य अभिप्रायः भवत्ययम्।
२०१८ सेप्तम्बर् २८ तमे दिनाङ्के तदानीन्तनस्य मुख्यन्यायाधीशस्य दीपक् मिश्रा वर्यस्य आध्यक्ष्ये पञ्चाङ्ग-संविधानसंवेशनमेव नारीप्रवेशविषये निर्णयम् अनयत्। एष निर्णयः अधुना एव पुनः शोधनार्थं विशालसंवेशनस्य पुरतः आगतः।
५६ पुनः शोधना आवेदनानि अस्मिन् विषये न्यायालयस्य पुरतः आगतानि। मुख्यन्यायाधिपः एव नूतनं विशालसंवेशनं रूपवत्करोति। तत्र त्रीणि अङ्गानि अधुना संस्थितात् संवेशनादेव स्युः।
धर्मस्य आधिकं प्राधान्यमस्तीति विधिप्रस्तावे न्यायालयः असूचयत्। मुस्लीं पार्सी धर्मावलम्बिनां मध्येपि आराधनालये नारीणां प्रवेशविषये विवादाः सन्ति। एते शबरिमलाविषयेन सह सम्बद्धा अपि भवन्ति इत्यपि न्यायालयेन सूचितम्।
उदूढा गार्ह्योत्पादकपुष्टिः ४.२ शतमितत्वेन न्यूनीभविष्यति- एस्.बी.ऐ.।
कोच्ची- सतत-आर्थिकवर्षे जूलै-सेप्तम्बर् पादे भारतस्य आर्थिकपुष्टिः ४.२ शतमितत्वेन न्यूनीभविष्यति इति भारतीय-राज्य-वित्तकोशस्य( एस्.बी.ऐ.) आवेदनम्। एप्रिल्-जूण् पादे पञ्चशतमिता पुष्टिरेव राष्ट्रे सूचिता। षड्वर्षाभ्यन्तरे न्यूनतमा पुष्टिरेवैषा। सतत-आर्थिकवर्षे पञ्चशतम्ता भविता इति वित्तकोशस्य अनुमानम्। प्रतीक्षमाणा पुष्टिः ६.१शतमितमेव।
वाहनविपण्यां विक्रयमान्द्यं, व्योमयानरंगे प्रतिसन्धिः,उद्योगरंगे उत्पादनन्यूनता इत्यादीनि एव आर्थिकपुष्टिन्यूनीभावस्य कारणानि इति वित्तकोशस्य अभिप्रायः।
भूतपूर्वः मुख्यनिर्वाचनायुक्तः टी.एन्. शेषन् वर्यः दिवङ्गतः।
चेन्नै- भारते भूतपूर्वः मुख्यनिर्वाचनायुक्तः टी.एन्. शेषन् महाभागः कालकबलितः अभवत्। स सप्ताशीति वयस्कः आसीत्। वार्धक्यसहजेन आमयेन रविवासरे रात्रौ उपदशवादने आसीदस्य मृत्युः। १९९०-१९९६ कालपरिधौ भारते मुख्यनिर्वाचनायुक्तः आसीत्। निर्वाचनरङ्गे समग्रपरिवर्तनाय अयं महाशयः कारणभूतो/भवत्।
पालक्काट् तिरुनेल्लायि स्थले एकस्मिन् तमिल् ब्राह्मणपरिवारे १९३२ दिसम्बर् १५ दिनाङ्के अयं भूजातः। मद्रपुरी क्रिस्तीयकलालयात् स्नातकाभिषिक्तः अयं १९५३ तमे वर्षे भारतीय-आरक्षिदल-सेवां(ऐ.पी.एस् ) तथा १९५४ तमे वर्षे भारतीय-प्रशासन-सेवां(ऐ.ए.एस् ) च स्वायत्तीकृतवान्। राजीव् गान्धी प्रशासनकाले अयं प्रतिरोधसचिवः आसीत्।
१९९६ तमे वर्षे अयं मग्सासे पुरस्कारेण बहुमानितः। १९९७ तमे वर्षे राष्ट्रपतिनिर्वाचने अयं प्रत्याशी आसीत्। परं तदात्वे के.आर्. नारायणन् वर्यः एव विजेता अभवत्।
संस्कृतभारत्याः विश्वसम्मेलनम् ।
नवदिल्ली – संस्कृतभारत्याः विश्वसम्मेलनम् नवदिल्ल्यां छतरपुरे नवम्बर् मासस्य ८,९,१०,११ तिथिषु प्रचलदस्ति। द्वितीयदिने रविवासरे विश्वसम्मेलनस्योद्घाटनं केन्द्रीयगृहमन्त्री श्री अमित् षावर्यः निर्वक्ष्यति। सम्मेलनेन साकं भारतीय विज्ञानपरम्परामधिकृत्य प्रज्ञानं नामकं प्रदर्शनं आयोजयिष्यति। प्रदर्शिन्याः समुद्घाटनं केन्द्रीयविदेशसहमन्त्री श्री वि.मुरलीधरन् महोदयः निर्वक्ष्यति। सम्मेलने∫स्मिन् डो. हर्षवर्धनः, संस्कृतभारत्याः अखिलभारतीयाध्यक्षः श्री भक्तवत्सला, केरलीयाः बहवः संस्कृतप्रचारकाः च भागभाजाः भवन्ति।
अयोध्याव्यवहारे सर्वोच्चन्यायालयस्य न्यायविधिनिर्णयः अद्य।
नवदिल्ली- अयोध्याव्यवहारे राष्ट्रम् आकाङ्क्षया वीक्ष्यमाणा न्यायविधिनिर्णयः सर्वोच्चन्यायालयेन शनिवासरे प्रस्तोष्यते। प्रातः 10.30 वादने मुख्यन्यायाधीशस्य रञ्जन् गोगोय्वर्यस्य आध्यक्ष्ये न्यायालयसंवेशनमेव विधिं प्रस्तुवति।
मुख्यन्यायाधीशः रञ्जन् गोगोय्, एस्, ए. बोब्डे, डी.वै चन्द्रचूड्, अशोक् भूषण्, अब्दुल् नासर् इत्येये न्यायाधीशाश्च सम्भूय एव विधिप्रस्तावं कुर्वते। विधिप्रस्तावात् प्राक् उत्तरप्रदेशस्य मुख्यसचिवम् आरक्षिदलनेतारं च आहूय मुख्यन्यायाधीशः स्थितिगतीः अधिकृत्य विचारयामास।
शनिवासरे विरामः अस्ति चेदपि मुख्यन्यायाधीशस्य संवेशनं पृथक् अधिवेशनं विधाय विधिप्रस्तावं करिष्यति। सर्वोच्चन्यायालये दिल्लीमहानगरम् आसमन्ताच्च भद्रा सुरक्षा आयोजिता वर्तते। अङ्गीकारयुक्ताः माध्यमप्रवर्तकाः विधिप्रस्तावावेदनार्थं प्रातः नववादनात् प्राक् न्यायालयम् आगच्छेयुरिति निर्दिष्टाः। 1885 वर्षात् प्रभृति नियमव्यवहारे एव अद्य विधिः प्रस्तूयते।
महान् हिमपातः, काश्मीरे मृतानां संख्या नव जाता।
श्रीनगरम्- काश्मीरे महान् हिमपातः अनुवर्तते। द्वयोः घटनयोः एतावता नव जनाः मृताः इत्यावेदयति। सैन्याय सामग्रीं प्रापयन्तौ प्रदेशवासिनौ द्वावपि मृतेषु अन्तर्भवतः। महान् हिमसंघातः स्खलतः सन् एषाम् उपरि फतन् आसीत्। कुप्वुवारा पोस्ट् समीपं गुरुवासरे प्रातः आसीत् एषा घटना।
वैद्युतिसम्बन्धिषु वृत्तिषु व्यापृतः ऊर्जविकासविभागस्य परीक्षकः तथा वृक्षपातेन एकः यात्रिकश्च मृतः। द्वौ सैनिकौ यानापघाते मृतौ। मृतानां परिवारेभ्यः समाश्वास धनादेशः सर्वकारेण घोषितः
इन्फोसिस् संस्था अपि दशसहस्रं कर्मकरान् उत्सारयति।
दिल्ली- राष्ट्रे द्वितीयं बृहत् सूचनातान्त्रिकविद्याप्रतिष्ठानम् इन्फोसिस् आख्यं स्वकीयान् कर्मकरान् उत्सारयितुमुद्यते। वरिष्ठ उपवरिष्ठतलयोः स्थितान् दशसहस्रपरिमितं कर्मकरानेव एवं उत्सारयति इति प्रतिष्ठानस्यास्य वृत्तान्तमुद्धृत्य राष्ट्रीयमाध्यमानाम् आवेदनमस्ति।
वरिष्ठकर्मकरेभ्यः आरभ्य उपवरिष्ठपर्यन्तं दशप्रतिशतं कर्मकराः, तथा सहकारि उपसहकारितलयोः पञ्चप्रतिशतं कर्मकराः अपि एवं उत्सार्यन्ते। अपि च स्वयं वृत्तिं समाप्य गन्तुमपि अन्यान् बहून् कर्मकरान् उपादिशत्।
राष्ट्रं बृहत्तमं आर्थिकमान्द्यं प्रति गच्छति इति आर्थिकविदग्दानां निरीक्षणानि याथार्थ्यं भवतीति इन्फोसिस् संस्थायाः अयं निर्णयः स्पष्टीकरोति।
राष्ट्रे सर्वेषु विद्यालयेषु विद्यालयपरिसरेषु च तुच्छद्रव्यभोज्यानि(जङ्क् फुड्) निरुद्धानि।
दिल्ली- तुच्छद्रव्यभोज्यानि स्वास्थ्यसमस्यानां कारणभूतानि इत्यवगमस्य पश्चात्तले राष्ट्रे विद्यालयेषु तत्परिसरेषु च एतेषां भोज्यानां निरोधः आयोजितः। इतः परं राष्ट्रे कस्मिन्नपि विद्यालये विद्यालयीयभोजनशालायां वा तुच्चद्रव्यभोज्यं नोपलभ्यते।
विद्यालयानां 50 मीट्टर् परितः अपि एतेषां विक्रयः निरुद्धः। तुच्छद्रव्यभोज्यानां सूचनाफलकानि अपि विद्यालयानां परिधौ न प्रदर्शनीयीनि। केन्द्रीय-भक्ष्यसुरक्षा-मानक-अधिकृतस्थानम् इति संस्थायाः एवायमादेशः। एतदतिरिच्य गुलाब्, जमून्, चोले बट्टूरे, न्यूडिल्स्, मधुरोपदंशानि अपि न विक्रेतुं शक्नुवन्ति।
कायिकोत्सवे तुच्छद्रव्यानां स्वतन्त्रविनिमयः तथा एतेषां सूचनाप्रदर्शनं च नानुमन्यते इति आदेशे सूचयति। एतादृशानां भोज्यानाम् उत्पादकसंघस्य सूचनाः विद्यालयाः न स्वीकुर्युः। आगामिनि मासे आदेशानुसारं निरोधस्य प्राबल्यं भविता।
शिक्षकाणां योग्यताविषये निर्णयः।
नवदिल्ली- 2030 वर्षाभ्यन्तरे विद्यालयीयशिक्षकाणां योग्यता अवरतः चतुर्वर्षीयः संयोजितशिक्षास्नातकः भवेत्। सर्वेष्वपि शिक्षकप्रशिक्षणकलालयेषु बहुवैज्ञानिकशिक्षायाः आधाररूपा चतुर्वर्षीया संयोजित बी.ए़ड्. पाठ्यचर्या अपि भवेत्। तत्तद्विषये शिक्षासिद्धान्ते च द्विमुखबीरुददानरीतिरेव पाठ्यचर्यायां आविष्करणीया। नवीनशिक्षानाये एवेदं प्रतिपादितं वर्तते।
समर्थानां छात्राणाम् आकर्षणाय धिषणावृत्तिः आविष्करणीया। त्रिवर्षीयबिरुदरीतेः स्थाने चतुर्वर्षीया बाच्चिलर् आफ् लिबरल् आर्ट्स् (बी.एल्.ए) पठनरीतेरपि आविष्करणाय अपि नायः सूचनां ददाति।
बी.एल्.ए तथा स्नातकोत्तरपरीक्षायां च उत्तीर्णानां कृते एकवर्षीया बी.ए़ड्. पद्धतिरपि आविष्करणीया।
दिल्लीनगरं वातकपूरितमभवत्। एषा अवस्था नूनं श्वासकोशं बाधते। दील्ल्यां स्वास्थ्यापातस्थितिः घोषिता।
नवदिल्ली- सर्वोच्चन्यायालयस्य निर्देशानुसारं रूपीकृतस्य परिस्थिति-मलिनीकरण-नियन्त्रण-प्राधिकरणस्य अनुदेशो/यं यत् सुरक्षापरिधिमतिक्रान्तं मलिनवायुसान्निध्यं जनानां श्वासकोशं प्रत्यक्षतया बाधते इति। अतः दिल्लीनगरे राजधानीप्रदेशेषु च स्वास्थ्यापातस्थितिः घोषिता। कासादयः रोगाः जनाने बाधेरन् इति स्वास्थ्याधिकारिणः असूचयन्।
राजधान्यां ३७ वायुनिरीक्षणकेन्द्राणि सन्ति। सर्वेष्वपि अन्तरिक्षावस्था भीतिदा अस्ति।
दिल्ली वायुप्रकोष्ठा जाता इति दिल्ली मुख्यमन्त्री अरविन्द् केजरिवाल् वर्यः अवदत्।













