Category Archives: News Updates
कोरोणा विषाणुः विश्वराष्ट्राणि न त्यजति। वाषिङ्टण् नगरे आपातस्थितिः घोषिता। आशङ्कायाः अवकाशो नास्तीति ट्रम्प्।
वाषिङ्टण्- विश्वराष्ट्राणि भीत्यामाप्लाव्य कोरोणा विषाणुः अमेरिकायामपि दृष्टा। तत्र अणुबाधया प्रथमा मृत्युः आवेदिता। तदनन्तरम् अमेरिकाराजधानीनगरे वाषिङ् टणे आपातस्थितिः घोषिता। वाषिङ् टणे किङ् कोण्टीस्थले वसन् ५० वयस्कः पुरुष एव मृत इति अमेरिका स्वास्थ्यमन्त्रालयम् असूचयत्। अमेरिकायां २२ जनेषु विषाणुबाधा दृष्टा इति डोणाल्ट् ट्रम्प् वर्यः अवदत्।
कोविड् ९ विषाणुबाधया एकस्य मृत्योरनन्तरम् अमेरिकायां प्रयाणनिरोधोपि आयोजितः। प्रयाणनिरोधः इरान् ,इट्टली, दक्षिणकोरिया इत्येतानि राष्ट्राणि प्रत्यक्षतया बाधते इति अमेरिकायाः आवेदनम्। कोरोणाबाधा स्थिरीकृतयोः इट्टली दक्षिणकोरियाराष्ट्रयोः अमेरिकानागरिकाः यात्रां न कुर्युः इति सूचना दत्ता। चीनातः आगतेभ्यः अमेरिकायां पूर्वमेव निरोधः आसीत्।
एतस्मिन्नन्तरे व्रिट्टन् राष्ट्रमपि कोरोणाभीत्यामस्ति। निरीक्षणस्थेषु विंशतितमे पुरुषे अणुबाधा स्थिरीकृता। एतावत्पर्यन्तं विश्वे कोरोणाबाधया २९३३ जनाः मृताः ८५७००अधिकाः जनाः विषाणुबाधिताश्च। विषाणोः प्रभवकेन्द्रे चीनाराष्ट्रे विषाणुबाधामृत्युः २८३५ जाता।
दिल्ली संघर्षे मृतानां संख्या २८ जाता। ऐक्यराष्ट्रसभायाः सचिवोत्तमः अन्वशोचत्।
नवदिल्ली- दिल्लीसंघर्षे अद्य एकोपि मृतः अनेन इतःपर्यन्तं २८ जनाः संघर्षे मृताः। गुरु तेज् बहादूर् चिकित्सालये एव मृत्युः आवेदिता। १५० अधिकाः जनाः व्रणिताः सन्ति।
एतस्मिन्नन्तरे दिल्लीसंघर्षविषये ऐक्यराष्ट्रसभायाः सचिवोत्तमः अन्टोणियो गुटेरस् वर्यः अनुशोचनं प्राकटयत्। यावच्छर्यं संयमनं पालयितुं सचिवोत्तमस्य वक्ता अभ्यार्थयत्।
न्यूनपक्षाणां संरक्षणे भारतेन गुरुतराः परिश्रमाः आयोजनीया इति अन्ताराष्ट्र-धर्मस्वतन्त्रता आयोगः अपि असूचयत्। नागरिकाणां संरक्षणं सर्वकाराणाम् उत्तरदायित्वमेवेति आयुक्तः प्रस्तावनायाम् अवदत्।
केरलीय संस्कृताध्यापक सन्धानम् इति संघस्य राज्यस्तरीयम् अधिवेशनम् आलुवा देशे।
आलुवा- केरल संस्कृताध्यापक सन्धानम् इति अध्यापकसङ्घटनायाः राज्यस्तरीयम् अधिवेशनम् आलुवायां फेब्रुवरी २७,२८,२९ दिनाङ्केषु प्रचलिष्यति। आलुवा तोट्टुमुखं वै.एम्.सी.ए. सभागृहे आयोज्यमानं विद्याभ्याससम्मेलनम् २९ दिनाङ्के प्रातः ११ वादने केरलीयशिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः उद्घाटयिष्यति। तदानीं विधानसभासामाजिकः अन्वर् सादत् वर्य आध्यक्ष्यं निर्वक्ष्यति।
२७ दिनाङ्के राज्यस्तरीय कौण्सिल् मेलनं भविता। २८ दिनाङ्के राज्यस्तरीयम् अधिवेशनं जिला पञ्चायत् अध्यक्षः अब्दुल् मुत्तलिख् उद्घाटयिष्यति। प्रतिनिधिसम्मेलनं संघस्य भूतपूर्वाध्यक्षः एन्. राजगोपाल् वर्यः तथा आपृच्छमेलनं लोकसभासदस्यः बन्नी बहनान् च उद्घाटयिष्यति।
राज्यस्तरीयमेलनमनुबन्ध्य आयोजिते सम्भाषण चित्ररचना मत्सरयोः विजयिनां तथा वार्तावतारकाणां छात्राणां च साक्ष्यपत्राणि शिक्षामन्त्री वितरिष्यति। श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कुलपतिः डो. धर्मराज् अटाट् वर्यः मुख्यप्रभाषणं विधास्यति। राष्ट्रपतिपुरस्कारजेतारं जी. गङ्गाधरन् नायर् वर्यं मन्त्री आदरिष्यति।
व्रणितेभ्यः सत्वरचिकित्सा आयोजनीया- अर्धरात्रौ दिल्ली उच्चन्यायालयस्य आदेशः।
नवदिल्ली- दिल्ल्यां प्रवर्तमाने संघर्षे व्रणितानां सुरक्षितपरिवहणाय तथा चिकित्सायै च दिल्ली उच्चन्यायालयस्य आदेशः। एतत्सम्बन्धिनि आपातावेदने कुजवासरे अर्धरात्रौ न्यायवादं श्रुत्वैव दिल्ली आरक्षकदलं एवं निरदिशत्।
संघर्षे व्रणितान् आधुनिकसौविध्ययुक्तं चिकित्सालयं नयेत् इत्यावश्यमुन्नीय प्रदत्तमावेदनं न्यायाधिपस्य एस्. मुरलीधरवर्यस्य वसतौ एव न्यायवादाय समर्पितम्। एस्. मुरळीधर, अनूप्, जे. भानुमती इत्येतेषां न्यायाधिपानां संहतिः वादमशृणोत्।
आवेदने प्रस्तावितं कार्यं परिगणय्य यथाविधि सौविध्यं प्रदाय च न्यायालयमावेदनीयमिति दिल्ली अरक्षकदलं निरदिशत्।
देहल्यां संघर्षः, पञ्च मृताः, गृहमन्त्री अमित् षा उच्चतरसमावेशनाय आह्वयत्।
दिल्ली- नागरिकनियममनुबन्ध्य उत्तरपूर्वदिल्यां सञ्जाते संघर्षे पञ्च जनाः मृताः। मृतेषु एकः दिल्ली आरक्षिदलाङ्गं भवति। संघर्षस्य पश्चात्तले दिल्यां निरोधनाज्ञा अनुवर्तते। विद्यालयानां विरामः घोषितः।
मौज् पुर्यां संघर्षे गृहाणि वाहनानि च संघर्षकारिणः अग्निसादकुर्वन्। बहूनि वाणिज्यस्थापनानि आक्रमितानि। संघर्षे अनुवर्तमाने दिल्ली पर्यावरणविभागमन्त्री गोपाल् राय् वर्यः ह्यः अर्धरात्रौ उपराज्यपालेन सह मिलित्वा अस्मिन् विषये चर्चामकरोत्।
आङ्गलपरिज्ञानस्य परिबृंहणार्थं इ-३ पद्धतिः
तिरुवनन्तपुरम्- सार्वजनीनशिक्षासंरक्षणयज्ञस्य भागत्वेन विद्यालयेषु समायोजिताः अतितान्त्रिकसुविधाः प्रयोजनीकृत्य कैट् संस्थया प्रायोजिता इ३- इ-क्यूब्- इति आङ्गलभाषापद्धतिः सर्वकारेण अनुमिता। सार्वजनीनशिक्षानिदेशकस्य निरीक्षणे राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः अक्कादमिक सहयोगेनैव सर्वेषां छात्राणाम् उपकारिका इ क्यूब् आङ्गलपद्धतिः कैट् संस्थया समायोज्यते।
पद्धतेः अनुबन्धत्वेन समग्रा , इ-ग्रन्थशाला, इ भाषापरीक्षणालयः इ- प्रक्षेपणसामग्र्यश्च विद्यालयेषु समायोज्यन्ते। अनेन विश्वस्तरीयः अङ्कीयग्रन्थालयः सज्जीक्रियते। अधुना प्रथमतः अष्टमकक्ष्यापर्यन्तेषु कक्ष्यासु छात्राणां पठनतलानुसारं वर्णचित्रसहितानि २०० पुस्तकानि समग्रायां लब्धानि भवन्ति। अनेन छात्राः स्वयमेव अथवा अध्यापकानां साहाय्येन एतानि पठितुं प्रभवन्ति। एतेन आङ्गलभाषाप्रावीण्यं परिवर्धयितुं अध्ययनं सरसं कर्तुं च अवकाशः लभन्ते।
डोणाल्ड् ट्रम्पस्य आगमनाय होरापरिमितः कालः, भारतेन सह वाणिज्यसंविदः अमेरिका पश्चादगात्।
नवदिल्ली- अमेरिकाशासनाधिपस्य डोणाल्ड् ट्रम्प् वर्यस्य भारतपर्यटनं श्वः आरभते। एतदर्थं होरापरिमिते काले अवशिष्टे भारतेन सह वाणिज्यसमयतः अमेरिका पश्चाद्गत इति सूचना। कांश्चन उन्नतकर्मकरान् उद्धृत्य इन्ड्या टुडे इति माध्यमेनैव एतदावेदितम्।
भारते ट्रपस्य प्रथमं पर्यटनं भवति इदम्। अस्मिन्नवसरे उभयोः राष्ट्रयोः कृते वाणिज्यसंविद् हस्ताक्षरं करिष्यतः इति प्रतीक्षा आसीत्। परन्तु अन्तिमे निमेषे अमेरिकाराष्ट्रं समयतः प्रत्यपाययत् इति भारतीयवृत्तं सूचयति।
इतोपि समग्रतरं संविद् आयोजयितुमेव अमेरिकायाः परिश्रमः, अत एव अधुना एतत् पश्चाद्गमनम् इति अमेरिकावृत्तानां सूचना।
छात्रान् पठनसंस्कृतिं नयति चेत् सा एव शिक्षा- शिक्षामन्त्री।
पार्श्वीकरणरहितस्य समाजस्य निर्मितिरेव सार्वजनीनशिक्षायाः लक्ष्यम्। तादृशं समाजं विकासयितुं पार्श्वीकरणरहितः कक्ष्याप्रकोष्ठ एव प्रभवति। सार्वजनीन-शिक्षासंरक्षणयज्ञः जनकीयशिक्षायाः आदर्शभूतो भवति। समामेलितसभा अस्माकं शिक्षामण्डलं नियन्त्रयति चेत् तेषामाशयमेव प्रावर्तिकं कर्तुं शक्यते। परन्तु सार्वजनीनशिक्षा समाजस्य आवासव्यवस्थया साकं स्थित्वा अतिजीवनस्य पाठान् प्रददाति। केरलेषु तादृशजनता एव शिक्षामण्डलं नयति।
जनानां तात्पर्यं मानयन् शिक्षासम्प्रदाय एव सार्वजनीनशिक्षा। केरलीयशिक्षा विश्वस्यादर्शभूता स्यात्। तदर्थं त्रीणि तत्वानि श्रद्धेयानि भवन्ति। जनकीयता, आधुनिकता मानविकता च। आधुनिकशिक्षा छात्रकेन्द्रिता भवति। तस्याः क्रियान्वयने मानविकतायाः संरक्षणमप्यनिवार्यम्। कस्यचन ग्रामस्य हृदयं भवति तद्देशस्थः विद्यालयः। विद्यालयस्य हृदयं ग्रन्थालयश्च। कक्ष्याप्रकोष्ठे विज्ञानस्य वातायनम् उद्घाटयितुम् अध्यापकः प्रभवेत्। तादृशप्रवर्तनमेव सीमाट्ट संस्थायाः लक्ष्यम्।
सीमाट् केरल इति संस्थायाः पद्धतीनाम् अवलोकनम्, आसूत्रणं विचारसभां च अभिमुखीकृत्य भाषमाण एव शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः एवम् अवदत्।
कोयम्पत्तूर् निकटे यानापघातः, २० जनाः मृताः, मृतेषु अधिकाः केरलीयाः।
कोयम्पत्तूर्- बंगलूरुतः एरणाकुलं प्रस्थितं केरल-राज्य-परिवहणनिगमस्य अतिविशिष्टबस् यानं अपघाते पतितम्। कोयम्पत्तूर् समीपे अविनाशिस्थले एव अपघातः संवृत्तः। केरलात् तमिल् नाटुं प्रति प्रस्थितं भारवाहियानं बस् यानेन संघट्टितम्। बस्यानस्य चालकः नियन्त्रकश्च अपघाते मृतौ। मृतेषु स्त्रियः अपि सन्ति। २३ जनाः व्रणिताः। व्रणितान् तिरुप्पूरे चिकित्सालयं प्रावेशयत्।
केरलात् मन्त्रिणः उन्नतकर्मचारिणश्च तिरुप्पूरं प्रति प्रस्थिताः। अपघाते मुख्यमन्त्री पिणरायि विजयः अनुशोचनं प्राकटयत्। रक्षाप्रवर्तनाय सर्वा व्यवस्था कल्पिता इति मुख्यमन्त्री अवदत्।
निर्वाचन-अभिज्ञापत्रम् आधारपत्रेण सह योजयितुं सर्वकारः।
नवदिल्ली- आधारपत्रं निर्वाचनाभिज्ञापत्रेण सह योजयितुं सर्वकारः सन्नह्यति। एतदर्थं लोकप्रातिनिथ्यनियमे भेदगतिमायोजयितुं सर्वकारः निरणयत्। मतदायकानुसूच्याः शुद्धीकरणार्थं अभिज्ञापत्रं आधारेण सह योजयितुं पद्धतिः निर्वाचनायुक्तेन २०१५ तमे वर्षे प्रारब्धा आसीत्। ३२ कोटि प्रत्यभिज्ञापत्रम् आधारपत्रेण योजितमपि पुनः सर्वोच्चन्यायालयस्य निर्णयानुसारं पद्धतिः स्थगिता आसीत्। परं नियमस्य भेदगत्यनन्तरम् आधारसूचनानि आयोजयितुं शक्यते इति न्यायालयस्य निर्णयानुसारम् अधुना भेदगत्यर्थं सन्नह्यति सर्वकारः।














