छात्रान् पठनसंस्कृतिं नयति चेत् सा एव शिक्षा- शिक्षामन्त्री।

पार्श्वीकरणरहितस्य समाजस्य निर्मितिरेव सार्वजनीनशिक्षायाः लक्ष्यम्। तादृशं समाजं विकासयितुं पार्श्वीकरणरहितः कक्ष्याप्रकोष्ठ एव प्रभवति। सार्वजनीन-शिक्षासंरक्षणयज्ञः जनकीयशिक्षायाः आदर्शभूतो भवति। समामेलितसभा अस्माकं शिक्षामण्डलं नियन्त्रयति चेत् तेषामाशयमेव प्रावर्तिकं कर्तुं शक्यते। परन्तु सार्वजनीनशिक्षा समाजस्य आवासव्यवस्थया साकं स्थित्वा अतिजीवनस्य पाठान् प्रददाति। केरलेषु तादृशजनता एव शिक्षामण्डलं नयति।

जनानां तात्पर्यं मानयन् शिक्षासम्प्रदाय एव सार्वजनीनशिक्षा। केरलीयशिक्षा विश्वस्यादर्शभूता स्यात्। तदर्थं त्रीणि तत्वानि श्रद्धेयानि भवन्ति। जनकीयता, आधुनिकता मानविकता च। आधुनिकशिक्षा छात्रकेन्द्रिता भवति। तस्याः क्रियान्वयने मानविकतायाः संरक्षणमप्यनिवार्यम्। कस्यचन ग्रामस्य हृदयं भवति तद्देशस्थः विद्यालयः। विद्यालयस्य हृदयं ग्रन्थालयश्च। कक्ष्याप्रकोष्ठे विज्ञानस्य वातायनम् उद्घाटयितुम् अध्यापकः प्रभवेत्। तादृशप्रवर्तनमेव सीमाट्ट संस्थायाः लक्ष्यम्।

सीमाट् केरल इति संस्थाया‌ः पद्धतीनाम् अवलोकनम्, आसूत्रणं विचारसभां च अभिमुखीकृत्य भाषमाण एव शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः एवम् अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *