Category Archives: News Updates

विद्याभ्यासः विमर्शनात्मकविज्ञाननिर्मितये भवेत्।

तृशूर्- विमर्शनात्मकविज्ञाननिर्मितिरेव शिक्षाद्वारा साधनीया इति प्रभाषकः साहित्यविमर्शकश्च सुनिल् पी. इलयिटं वर्यः अवदत्।

केवलात् विज्ञानात् व्याख्यानाच्च ऋते विमर्शनात्मिका विज्ञाननिर्मितिरेव प्रचालनीया। अद्य तु तान्त्रिकवैभवनिर्मितिरेव केवलं प्रचलति इत्यपि स अवदत्।

तृशूर् जानपद-शिक्षा-प्रशिक्षणालये(डयट्) केरलीयशिक्षा- इतिहासः वर्तमानश्च इति विषये विचारसत्रम् उद्घाटयन् भाषमाणः आसीत् सः। केन्द्रीयविश्वविद्यालये सहप्राचार्यः डो. बिजू केरलीयशिक्षा- साघ्यताः सङ्केताश्च इति विषयं प्रास्तौत्। उच्चतरशिक्षाविभागस्य भूतपूर्वनिदेशिका सी.पी. चित्रा माध्यस्था आसीत्। समारोहे अस्मिन् चित्रकलाध्यापकाः समादृताः।

प्रांशुपालः डो. टी.के. अब्बासलिः स्वागतं तथा डो. प्रमोद् के. नारात् कृतज्ञतां च व्याहरत्।

कोविड्-१९ प्रकरणे राज्ये अतीव जाग्रता। सप्तमकक्ष्यापर्यन्तं परीक्षा त्यक्ता

तिरुवनन्तपुरम्- कोरोणा विषाणुबाधायाः पश्चात्तले राज्ये अतीव जाग्रतानिर्देशः दत्तः। सप्तमकक्ष्यापर्यन्तं छात्राणां परीक्षा त्यक्ता। तेषां कक्ष्याः मार्च् ३१ पर्यन्तं पिहिताः भवेयुः। अन्याः परीक्षाः अतीव जाग्रतया प्रचलिष्यन्ति। अद्यतने मन्त्रिमण्डलाधिवेशने एवायं निर्णयः स्वीकृतः। अङ्गण्वीटीतः सप्तमकक्ष्यापर्यन्तं विरामः सी.बी.एस्.सी. प्रभृतीनां विद्यालयानामपि बाधकः भवति।

कलालयेषु परीक्षा यथाक्रमं भविष्यति, तत्र कक्ष्या न प्रचलिष्यति। उत्सवाः आघोषाश्च त्याज्या।

केरलेषु षट् जनानामेव कोविड्-१९ बाधा स्थिरीकृता। अस्मिन् साहचर्ये एवायं निर्णयः।

एस्.एस्.एल्.सी.परीक्षायाः श्वः आरम्भः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. टी.एच्.एस्.एल्.सी, ए.एच्.एस्.एल्.सी. परीक्षाः कुजवासरे आरभते। २९४५ परीक्षाकेन्द्राणि एव एतदर्थं सज्जीकृतानि। सर्वकारीणविद्यालयस्थाः १३८४५७ छात्राः धनादत्तविद्यालयस्थाः २५३५३९ छात्राः निजीयविद्यालयस्थाः ३०४५४ छात्राः च परीक्षार्थिनः सन्ति।

मलप्पुरं शिक्षामण्डले एव अधिकाः छात्राः परीक्षां लिखन्ति। तत्र २६८६९ छात्राः परीक्षां लिखन्ति। आलप्पुषा कुट्टनाट् विद्याभ्यासमण्डले एव न्यूनतमाः छात्राः पञ्जीकृताः सन्ति। तत्र केवलं २१०७ छात्राः एव परीक्षार्थिनः सन्ति।
परीक्षार्थिभ्यो नववाण्याः शुभकामनाः।

कोरोणा विषाणुबाधा, व्याजवार्ताप्रसारितान् त्रीन् विरुध्य व्यवहारः।

तिरुवनन्तपुरम्- कोविड् इति कोरोणा विषाणुबाधायाः पश्चात्तले सामाजिकमाध्यमद्वारा व्याजवार्तां प्रसारितान् राज्ये त्रीन् जनान् विरुध्य व्यवहारः पञ्जीकृतः। एरणाकुलं सेन्ट्रल् आरक्षिकेन्द्रे द्वौ तृशूर् कुन्नंकुलं आरक्षिकेन्द्रे एकः च व्यवहाराः एवं पञ्जीकृताः।

कोरोणा इति विषाणुः नास्ति, सर्वकारः वृथा प्रश्नान् सृजति इति व्याजवार्ताप्रसारितवान् जेकब् वटक्कञ्चेरि इति कश्चन जनः अपराधी इति निर्णीय व्यवहारः स्वीकृतः।

स्त्रीणां पूजनाय उद्घोषयति, सममेव ताः निन्दति।- मुख्यमन्त्री।

तिरुवनन्तपुरम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति वारं वारम् उद्घोषयन्नपि स्त्रीणां प्रति निन्दावचनं ताः अधः कृताः कर्तुं यत्नः च अनुदिनं प्रवर्धते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। अन्ताराष्ट्रवनितादिवसस्य राज्यस्तरीयम् कार्यक्रमम् उद्घाटयन् भाषमाण आसीत् मुख्यमन्त्री। वनितारत्नपुरस्कारानपि अस्मिन् अधिवेशने स समार्पयत्।

बालिकानां प्रति अतिक्रमं निरोद्धुं विद्यालयेषु उपदेशसभा आयोजनीया। छात्राणां दुरनुभवान् अध्यापकाना् पुरतः आवेदयितुं सौविध्यं भवेत्। अध्यापकाः स्वयमेव मार्गदर्शकाः भवेयुः इत्यपि स अवदत्।

अस्मिन्नधिवेशने आध्यक्ष्यं विधास्यन् स्वास्थ्य-वनिताक्षेममन्त्री के.के. शैलजा न्यगादीत् यत् मानवविरुद्धान् दुराचारान् तथा अन्धविश्वासान् च त्यक्त्वा स्त्रियः शास्त्रावबोधं प्रवर्धेरन् इति।

मातृभूमिः सीड् विशिष्ट-हरितविद्यालय-पुरस्कारः करुनागप्पल्ली सर्वकारीण-उच्चतरविद्यालयाय।

कोषिक्कोट्- २०१९-२० विद्यालयवर्षस्य मातृभूमिः सीड् पुरस्काराः घोषिताः। कोल्लं जिल्लायां करुनागप्पल्ली सर्वकारीण-उच्चतरविद्यालयाय विशिष्टहरितविद्यालय पुरस्कारः। कण्णूर् जिल्लायां एट्टुकुटुक्क धनादत्त-माध्यमिकविद्यालयः द्वितीयस्थानमाप्तः। तृशूर् जिल्लायां तृत्तल्लूर् माध्यमिकविद्यालयः तृतीयस्थानमाप्तः।

प्रथमस्थानाय एकलक्षं रूप्यकाणि द्वितीयस्थानाय ७५००० रूप्यकाणि तथा तृतीयस्थानाय ५०००० रूप्यकाणि चषकं प्रमाणपत्रं च पुरस्कारे अन्तर्भवति।

कोरोणा विषाणुबाधा- ऐक्य अरब् राष्ट्रे विद्यालयानाम् एकमासावधिकः विरामः घोषितः।

दुबाय्- कोरोणाप्रतिरोधार्थं मार्च् मासस्य अष्टमदिनादारभ्य एकमासपर्यन्तम् ऐक्य अरब् राष्ट्रे विद्यालयानां विरामः घोषितः। सर्वकारीय निजीय रङ्गस्थानां विद्यालयानाम् उन्नतविद्यालयानां च विरामः बाधकः भवति।

छात्राणां सुरक्षादृढीकरणार्थं प्रतिरोध-निवारणप्रवर्तनानां भागत्वेनैव अयमुद्यमः। विरामे विदूरपठनसौविद्यार्थम् उद्यते मन्त्रालयः।

राष्ट्रियतले कोरोणा विषाणुव्यापनं न्यूनीकर्तुमेव विरामः। अस्य भागत्वेन कक्ष्याप्रकोष्ठाः विद्यालययानानि विद्यालयवातावरणम् इत्यादीनि अणुविमुक्तं कर्तुं निर्दिष्टः। राष्ट्रेस्मिन् षट् जनाः विषाणुबाधिताः इत्यावेदनमस्ति।

राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् रजतजयन्तीसमारोहः मार्च् पञ्चमे दिनाङ्के आरभ्स्यते।

तिरुवनन्तपुरम्- केरलेषु विद्यालयीयशिक्षायाः सारथिभुता राज्य-शैक्षिकानुसन्धान-प्रशिक्षण-परिषद् इति संस्था रजतजयन्तीसमारेहाय सन्नह्यति। एकवर्षपरिमितः समारोहः मार्च् मासस्य पञ्चमे दिनाङ्के समारभ्स्यते इति संस्थायाः निदेशकः डो. जे. प्रसाद् वर्यः वार्ताहरसम्मेलने व्याहरत्।

पाठ्यपद्धतिः पाठ्यपुस्तकानि, पठनोपकरणानि, अध्यापकसाहाय्यसामग्र्यश्च अनया संस्थया समायोज्य शिक्षामण्डलस्य प्रबलीकरणाय अनवरतं यतमाना विद्यते। अपि च अध्यापकप्रशिक्षणं, अनुस्यूतशिक्षणं, अनौपचारिकशिक्षणं च स्वकीयं दायित्वमेवेति बुद्ध्या प्रवर्तमाना संस्था राष्ट्रे सविशेषश्रद्धामावहति। केरलीयशिक्षामण्डलस्य अक्कादमिककेन्द्रमपि वर्तके एस्.सी.इ.आर्.टी. संस्था।

रजतजयन्तीमभिलक्ष्य अस्याः संस्थायाः इतिहासं प्रवर्तनानि च विवृण्वन् कश्चन प्रलेखः सज्जीक्रियते। विद्यालयेषु आयोजितानां नूतनमातृकाप्रवर्तनानां प्रदर्शनमपि समायोक्ष्यते।

रजतजयन्तीसमारोहस्य उद्घाटनं गुरुवासरे सायं ३.३० वादने केरलीय शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः निर्वक्ष्यते। तदानीं शिक्षकपरिवर्तनवर्गस्य उद्घाटनं मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः निर्वक्ष्यति। पुस्तकानां प्रकाशनं नगरपालः के. श्रीकुमार् वर्यश्च निर्वक्ष्यति इति निदेशकः असूचयत्।

केरलीयशिक्षामण्डले बृहत् परिवर्तनमेव सञ्जायते- मुख्यमन्त्री।

तिरुवनन्तपुरम्- राज्ये शिक्षामण्डले बृहत् परिवर्तनमेव सम्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। सङ्गणकशाला कक्ष्याग्रन्थशाला इत्यादिभिः कक्ष्याप्रकोष्ठाः अान्ताराष्ट्रश्रेष्ठतामावहन्ति। तिरुवनन्तपुरं जिलापञ्चायत्तेन आयोजितायां सर्गवायन सम्पूर्णवायन इति पद्धत्यां सम्पूर्ण कक्ष्याग्रन्थशालाप्रख्यापनं निर्वहन् भाषमाणः आसीत् मुख्यमन्त्री।

पठनार्थं प्रोत्साहनमेव सर्वकारस्य उद्धेश्यम्। सम्पूर्णकक्ष्याग्रन्थशालायाः भागत्वेन लब्धानि पुस्तकानि अधिकृत्य ज्ञातुं छात्राः प्रभवेयुः। अध्यापकैः पाठपुस्तकैश्च प्रदीयमानं ज्ञानमेव प्रधानम्।

मुद्रितग्रन्थानां पठनेन सहैव अङ्कीयपठनमपि अधुना प्रवर्तते। एतेषां सुविधायै कक्ष्याप्रकोष्ठाः एव अधुना अलम्। सम्पूर्णपठनपद्धत्यर्थं पञ्चलक्षं पुस्तकानि सञ्चेतु निर्णीतं परं अष्टलक्षं पुस्तकानि लब्धानि। शिक्षाक्षेत्रे गुणपराणि कार्याणि आयोजयितुं जानपदानां साहाय्यं कियदस्तीति अनेन ज्ञायते इत्यपि मुख्यमन्त्री अवदत्।

संस्कृतभाषा भृशं जनकीया कर्तव्या- शिक्षामन्त्री रवीन्द्रनाथः।

आलुव – संस्कृतभाषा इतोऽ पि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।
‘केरल संस्कृताध्यापक फेडरेषन्’ इति संघस्य राज्यस्तरीये अधिवेशने शैक्षिकसङ्गोष्ठेः उद्‌घाटनं विधाय भाषमाणः आसीत् सः।
कार्यक्रमे छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः। एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च।
विधानसभा सामाजिकः अन्वर् सादत्त् वर्यः अध्यक्षः आसीत्। श्री शङ्कराचार्यविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान् I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि. रतिः, सि. पि. सनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणम् अकुर्वन्।