Category Archives: News Updates
पिधाननियमाननुसृत्य अध्ययनवर्षस्य आरम्भाय शिक्षाविभागस्य सन्नाहः।
तिरुवनन्तपुरम्- पिधाननियमान् परिपाल्य अध्ययनवर्षस्य प्रारम्भाय शिक्षाविभागः सन्नद्धो भवति। एतदर्थम् अध्यापकान् सज्जान् कर्तुम् अधिजालप्रशिक्षणपद्धतिः गुरुवासरे आरप्स्यते इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अब्रवीत्। विक्टेर्स् इति नालिकाद्वारा तथा अधिजालद्वारा च प्रशिक्षणं भविता।
कोविड् रोगः तदनुबन्ध्य पिधानं च शिक्षामण्डलं शिथिलमकरोत्। नूतनाध्ययनवर्षस्य आरम्भविषये व्यक्तता नास्ति। तथापि आधुनिकतान्त्रिकविद्यामुपयुज्य अध्ययनं विघ्नरहितं कर्तुमेव उद्यम इति शिक्षामन्त्री अवदत्।
शिक्षकप्रशिक्षणाय रूपरेखा सज्जा भवति। सप्तमकक्ष्यापर्यन्तं शिक्षकाणामेव अधुना प्रशिक्षणम्। सर्वे शिक्षकाः प्रशिक्षणकार्यक्रमे भागभाजः भवेयुः। जूण् प्रथमे दिने विद्यालयेषु अध्ययनप्रारम्भः चिन्तयति। परन्तु साहचर्यम् अनुकूलं नास्ति चेत् अधिजालिकाध्ययनम् आरब्धुं यतिष्यते इत्यपि मन्त्री अवदत्।
मालद्वीपात् प्रवासिभारतीयैः सह जलयानं कोच्चिं प्रति प्रस्थितम्।
कोच्ची- भारतीयनौसेनायाः पोतः प्रवासिभारतीयैः सह कोच्चीं प्रस्थितः। शुक्रवासरे रात्रौ प्रस्थिते ऐ.एन्.एस्. जलाश्व नामके पोते ६९८ यात्रिकाः सन्ति। महानौकेयं रविवासरे कोच्चीं प्राप्स्यति।
समुद्रमार्गेण प्रवासिनः आनेतुं भारतीय नौसेनायाः ओप्परेशन् समुद्रसेतुः इत्यभियानस्य भागत्वेनैव अयमुद्यमः। यात्रिकेषु १०३ स्त्रियः सन्ति। तासु च १९ अन्तर्वत्न्यः अपि सन्ति। ऊनदशवयसः १४ बालाश्च संघे अन्तर्भवन्ति। परिशोधनां विधायैव ते यानमारूढाः।
मालद्वीपस्थे भारतीयस्थानपतिकार्यालये जालद्वारा पञ्जीकृत्य आजिगमिषूणाम् अनुसूची सम्पादिता। ऐ.एन्.एस्. मगर् नामिका महानौकापि प्रवासिनः प्रत्यानेतुं मालद्वीपं प्राप्ता।
वातकपरिश्रवः-मृतानां परिवारेभ्यः एककोटिरूप्यकाणां साहाय्यम् आन्ध्रासर्वकारेण विहितम्।
हैदराबाद्- विशाखपट्टणस्थे रासयन्त्रागारे सञ्जातेन विषवातकपरिश्रवेण ११ जनाः मृताः, बहवः चिकित्सालयं च नीताः। मृतानां परिवारेभ्यः आन्ध्रा मुख्यमन्त्री जगन्मोहन् रेड्डी वर्यः एककोटिपरिमितम् आर्थिकसाहाय्यम् उदघोषयत्।
गुरुतरेण अस्वास्थ्येन तीव्रपरिचरणविभागे चिकित्सायां स्थितेभ्यः १० लक्षं रूप्यकाणि,द्वित्रदिनपर्यन्तं चिकित्सामनुवर्तमानेभ्यः एकलक्षरूप्यकाणि, प्राथमिकचिकित्सां समाप्य गृहं गतेभ्यः २५००० रूप्यकाणि च प्राख्यापयत्।
वातकपरिश्रवं संजातं यन्त्रागारं परितःस्थितेभ्यः परिवारेभ्यः १०००० रूप्यकाणि गोविनष्टेभ्यः २०००० रूप्यकाणि च समाश्वासरूपेण दास्यति। वातकपरिश्रवम् अन्वेष्टुं विशेष मुख्यसचिवस्य नेतृत्वे समितिः रूपवत्कृता इत्यपि मुख्यमन्त्री अवदत्। यन्त्रागारस्य समीपेभ्यः ग्रामेभ्य जनान् निष्कास्य अन्यत्र वासयामास।
अद्य प्रभृति प्रवासिनां प्रत्यागमनम्।
दुबाय्/नवदिल्ली- सार्धैकमासपर्यन्तं स्थितायाः आशङ्कायाः अनिश्चितत्वस्य च अन्ते समाश्वासः सञ्जातः। मध्यपूर्व राष्ट्राणि अन्तर्भूय विदेशराष्ट्रस्थान् प्रवासिभारतीयान् प्रत्यानेतुं वन्दे भारत् दौत्यस्य गुरुवासरे शुभारम्भः भवति। गुरुवासरे रात्रौ ९.४० वादने अबुदाबीतः कोच्चिविमानपत्तने एयर् इन्ड्या एक्स्प्रेस् विमानस्य आहमनेन चरित्रदौत्यस्यापि प्रारम्भः स्यात्। दुबाय् तः कोषिक्कोट् विमानं रात्रौ १०.३० वादने आगमिष्यति। आहत्य अष्ट विमानानि प्रथमे दिने विदेशेभ्यो भारतस्य विविधानि नगराणि समागमिष्यति।
दुबाय्-कोषिक्कोट् विमाने १७० यात्रिकाः, अबुदाबी-कोच्ची विमाने १७७ यात्रिकाश्च भविष्यन्ति। एकस्मिन् विमाने २०० यात्रिकाः इति पूर्वं निश्चिकमासीत्। परं सामाजिकान्तरं पालयितुं यात्रिकाणां संख्या न्यूनीकृता।
प्रवासिनां प्रत्यागमने अतीव सुरक्षा पालिता। यात्रायाः प्रारम्भात् पञ्चहोराः प्राक् विमानपत्तनं समायातुं तान् निरदिशत्। कोरोणा विषाणुबाधा नास्तीति निर्णेतुं शीध्रपरिशोधनार्थमेव अयं प्रक्रमः।
अघ्ययनवर्षः अष्टमासपरिमितः भविष्यति।
तिरुवनन्तपुरम्- पूर्णपिधानस्य भूमिकायां विद्यालयेषु अध्ययनवर्षम् अष्टमासकालत्वेन न्यूनीकर्तुं पर्यालोचना। जूण् मासे अध्ययनवर्षस्य आरम्भः न साध्यः इति निश्चितप्रायः। अस्यामेवावस्थायां वर्षेस्मिन् अध्ययनकालस्य मासद्वयपर्यन्तं न्यूनीकरणं तदनुसृत्य पाठभागस्यापि न्यूनीकरणं चिन्त्यते।
राज्यशिक्षामन्त्रिभिः साकं केन्द्र मानवविभवमन्त्रालयस्य प्रतिनिधीनां चर्चायामेव अयं निर्णयः। कोविड् विमुक्तेषु राज्येषु विद्यालयानां प्रवर्तनाय केन्द्रस्यानुमतिरस्ति। परं साहचर्यस्य सुरक्षितत्वम् अवश्यम्भावि।
अध्ययनदिनानां न्यूनीकरणेन समं पाठभागानां परीक्षाणां च क्रमे व्यत्ययः भवेत्।
गजवीरान् आघोषांश्च परित्यज्य निश्शब्दरूपेण अद्य पूरोत्सवः।
तृशूर्- आघोषं विना केवलम् उपचाररूपेण अद्य पूरोत्सवः सम्पत्स्यते। नववादने तान्त्रिकविघिमनुष्ठीय पापमेक्काव् तिरुवम्पाटि मन्दिरे पिधास्यतः। पूरोत्सवस्य समारम्भात् प्रभृति प्रतिवर्षम् अयमुत्सवः सम्पन्नः आसीत्। परं प्रप्रथममेव अधुना पूरोत्सवः परित्यज्यते। पूररहितं कालं न श्रुतपूर्वम्। एवं स्थिते एव कोविड्-१९ इति महामारी तदनुबन्ध्य पिधानं च समागतम्।
गतवर्षे आरवैः मुखरितः वटक्कुन्नाथपरिसरः अद्य निर्मक्षिकः अभवत्। पूरात् पूरपर्यन्तमिति जनानां कालगणनापि अनेन नियन्त्रणेन निरर्थका जाता। तथापि जनाः याथार्थ्यमङ्गीकृत्य स्वस्थानेष्वेव अवतिष्ठन्ते।
बोलीवुड् चलचित्रनटः पगद्मश्री इर्फान् खान् मृतिवशगतो/भवत्।
उत्कृष्टाभिनेता, यः नैकदशाब्दपर्यन्तम् अस्माकं मनोरञ्जनम् अकरोत्, राष्ट्रिय-नाट्य-विद्यालयस्य विद्यार्थी, सर्वेषाञ्च निदेशकानाम् अभीष्टः कलाकारः इरफ़ान् खान् वर्यः मृतिमुपगतः। जठरार्बुदबाधितः स चिकित्सायामासीत्। मुम्बै कोकिल बेन् धीरुभाय् अम्बानि चिकित्सालये अद्य प्रातः आसीत् मृत्युः। स ५३ वयस्कः आसीत्।
२०११ तमे वर्षे पद्मश्री पुरस्कारः, २०१२ तमे वर्षे पान्सिङ् तोमर् इति चलचित्रे अभिनयाय राष्ट्रियपुरस्कारश्च अनेन प्राप्तः। चलचित्राभिनयं विना नाटकेषु धारावाहिनीषु च स स्वकीयां प्रतिभां प्राकटयत्।
वेतनछेदनादेशः उच्चन्यायालयेन अवालम्बितः।
कोच्ची- सर्वकारीयकर्मकराणां वेतनं पञ्चमासावधिकं कणशः छित्वा स्वीकर्तुं दत्तः आदेशः उच्चन्यायालयेन स्थगितः। मासद्वयपर्यन्तमेव स्थगनादेशः। वेतनं कर्मकराणाम् अधिकार एव, तस्य न्यूनीकरणं नियमानुसारं नास्तीति न्यायालयः अवदत्।
वेतनांशं छित्वा दातुं सर्वकारः न पारयति। आर्थिकसमस्यां परिहर्तुं वेतनविलम्बः उपाधिरूपेण नानुमीयते। विपक्षदलीयसंघानाम् आवेदने एव उच्चन्यायालयस्य अयमादेशः।
गुरुतरम् आर्थिकप्रतिसन्धिं तरितुमेव वेतनावग्रहादेशो दत्त इति सर्वकारः न्यायालयम् आवेदयत्। एष वेतननिषेधो नास्ति, ईषद्भागस्य विवम्बनमेवेति सर्वकारस्य वादं निरस्यैव उच्चन्यायालयेन अयमादेशः अवालम्बितः।
प्रतिनिवर्तुमिच्छूनां प्रवासिनां कृते पञ्जीकरणम् आरब्धम्।
तिरुवनन्तपुरम्- कोरोणा विषाणुव्यापनस्य भूमिकायां विदेशेषु संलग्नान् प्रवासीन् तेषामिच्छानुसारं केरलान् प्रापयितुंकेरलीयप्रवासिकार्यसमित्या(नोर्का)पञ्जीकरणमारब्धम्। अन्तर्वत्न्यः कोरोणाभिन्नैः आमयैः पीडिताः अन्ताराष्ट्र-सन्दर्शकावस्थानानुमतेः(विसा) कालपरिधिमतीताः तत्कालीनानुमत्या गत्वा तत्र स्थगिताः इतररीत्या क्लेशमनुभूयमानाश्च प्रामुख्यमर्हन्ति।
प्रथमं पञ्जीकृतानां प्रामुख्यं नास्तीत्यतः सम्मर्दस्यावश्यकता नास्तीती नोर्का रूट्स् अधिकारिभिः निगदितम्।
सर्वकारः पूर्वमेव प्रमुख्यानुसूचिकां प्राकाशयत्। मार्गरेखां च अदात्। तदनुसृत्य सन्दर्शकविसया गत्वा तत्र स्थगितानां प्रथमं प्रामुख्यमस्ति। ततः स्थविराः अन्तर्वत्न्यः रोगपीडिताः इति क्रमेण प्रामुख्यं दीयते।
प्रतिनिविवृक्षवः प्रथमं नोर्का रूट्स् इत्यस्य जालपुटे पञ्जीकरणं नर्वर्तेरन्। अपि च कोविड् रेगं नास्तीति प्रमाणपत्पमपि दद्युः।
आगामिनि अध्ययनवर्षे विद्यालयेषु छात्राणां शिक्षकाणां च कृते मुखावरणम् अवश्यं कारयति।
तिरुवनन्तपुरम्- आगामिनि वर्षे विद्यालयेषु छात्राः अध्यापकाश्च मुखावरणम् अवश्यम् धरेयुः। तथा अवशिष्टपरीक्षासञ्चालनावसरे परीक्षार्थिनः परीक्षकाश्च एनं नियमम् अनुसरेयुः।
एतदर्थं समग्रशिक्षा केरला इति अभियानेन ५० लक्षं मुखावरणानि निर्मीयन्ते। राज्ये ४५ लक्षं छात्राः सार्वजनीनविद्यालयेषु पठन्ति। प्रक्षाल्य अणुविमुक्तं च कृत्वा पुनरुपयोगाय योग्यानि कार्पासवस्त्रनिर्मितानि मुखावरणानि एवं विद्यालयेषु वितरीतुं यतते।
समाने माने विविधेषु वर्णेषु एव कार्पासमुखावरणानि निर्मीयन्ते। मेय्-१५ दिनाङ्काभ्यन्तरे एतानि विद्यालयेषु प्रापणीयानि। एतदर्थं व्ययः गणवस्तवितरणार्थम् आयोजिते शीर्षके समीकर्तुं शक्यते। सामाजिकानां सेवनमपि अत्र यथायोग्यम् उपयोक्तुं शक्यते।













