Category Archives: News Updates

इराने 180 यात्रिकैः साकं युक्रैन् विमानं भङ्क्त्वा पतितम्।

तेह्रान्- इराने युक्रैन् विमानं भङ्क्त्वा पतितम्। यात्रिकाः कर्मकराश्च आहत्य 180 जनाः यात्रिकाः आसन्। तेह्राने इमां खोमेनि विमानपत्तनस्य समीपमेव अपघातः समापन्नः।

     इमां खोमेनी विमानपत्तनात् उड्डयितं  बोयिंङ् 737 जेट्ट् विमानमेव तेह्रानस्य प्रान्तप्रदेशे परान्ते पतितम्। तेह्रानात् युक्रैन् प्रति प्रस्थितमासीत् विमानम्।

     अपघातस्य कारणं अभियान्त्रिकन्यूनतेति प्राथमिकं निगमनम्।

२०१९ वर्षस्य प्रलयः, केरलराज्यस्य केन्द्रसाहाय्य नास्ति। सप्तभ्यः राज्येभ्यः ५९०८.५६ कोटिरूप्यकाणि विहितानि।

नवदिल्ली – २०१९ वर्षस्य प्रलयमनुबन्ध्य केरलराज्यस्य केन्द्रसाहाय्यं नानुमितम्। केरलादृते सप्तभ्यः राज्येभ्यः राष्ट्रीयदुरन्दनिवारणनिधेः ५९०८.५६ कोटि रूप्यकाणि प्रदातुं गृहमन्त्रिणः अमित् षा वर्यस्य आध्यक्षे आयोजितम् उन्नततलाधिवेशनं निरणयत्। असं, हिमाचलप्रदेशः, कर्णाटका, मध्यप्रदेशः, महाराष्ट्र, त्रिपुर, उत्तरप्रदेशः इत्येतेभ्यः राज्येभ्यः एव केन्द्रसाहाय्यं प्रदत्तम्।

     प्रलयः, मृत्पातः, मेघविस्फोटनम् इत्येते आपतितं दुरितं प्रतिरोद्धुमेव सप्तभ्यः राज्येभ्यः केन्द्रसाहाय्यमदात्। २०१९ प्रलयस्य विशदांशान् सूचयन् २१०१ कोटि रूप्यकाणि आवश्यकानि इति गते सेप्तम्बर् सप्तमेदिनाङ्के केरलराज्यं केन्द्रसर्वकाराय पत्रं प्रैषयदासीत्। ततः आगतः केन्द्रसंघः पत्रमिदं परिगणनाविषयं नाकरोदिति मन्यते।

इरानस्य प्रत्याक्रमणम्, बाग्दादस्थस्य अमेरिकास्थानपतिकार्यालयस्य समीपं क्षेपण्याक्रमणम्।

बाग्दाद्- पश्चिमेष्याप्रान्ते आशङ्कां प्रवर्धयन् इराख् राजधानीभूते बाग्दादे पुनरपि क्षेपण्याक्रमणम्। बाग्दादे अमेरिक्कास्थानपतिकार्यालयस्य समीपमेव शनिवासरे क्षेपण्याक्रमणमभूत्। अस्यां घटनायां मानवमृत्युः नावेदित इति सैन्यं व्यजिज्ञपत्।

बलाद् वायुसेनाशिबिरमपि स्थानपतिकार्यालयस्य समीपमेव। अपि च अतीव सुरक्षितमेखलायामेव क्षेपणी पतिता इति सूचना। अमेरिक्कासैनिकानां शिबिरं वर्तते बलाद् स्थले।

बहवः सर्वकारीणकार्यालयाः अस्मिन् प्रदेशे सन्ति। क्षेपण्याक्रमणानन्तरम् अमेरिकासैन्यम् अस्यां मेखलायां व्योमनिरीक्षणं शक्तमकरोत्।

आस्ट्रेलिय राष्ट्रे अग्निबाधा मासचतुष्टयमतीता। ५० कोटि जीवजालानि भस्मीभूतानि।

सिड्नी- २०१९ सेप्तम्बर् मासे आस्ट्रेलिय राष्ट्रे व्यापृता अग्निबाधा एतावता नियन्त्रणविधेया न जाता। अग्निस्तु सर्वसंहारी भूत्वा पुरो गच्छति।

इतः पर्यन्तं १७ जनाः मृताः। अपि च नैके जनाः तिरोभूताः सन्ति। अत एव मृतानां संख्या इतोप्यधिकतरा जायेत इत्यावेदनम्।

अग्निबाधायां व्यापादितानां मृगाणां संख्या अतिशयास्पदा। इतःपर्यन्तं ५० कोटि परिमिताः जन्तवः मृताः इत्यावेदयति।

एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः।

तिरुवनन्तपुरम्- २०२० जनुवरी प्रथमदिनाङ्कात् प्रभृति केरलेषु एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः। व्यक्तयः, संस्थापनानि, निगमानि उद्योगानि च पलास्तिकवस्तूनां निर्माणे विक्रयणे परिवहणे च सन्नद्धानि न स्युः। अस्ति चेत् तत् दण्डार्हं भवति।

प्रथमघट्टे १०००० रूप्यकाणां दण्डः, पुनरावर्तने २५००० रूप्यकाणां दण्डः, पुनरपि लङ्घने ५०००० रूप्यकाणां दण्डः इत्येव क्रमः। अस्य मासस्य १५ तिथिपर्यन्तं दण्डनकार्यक्रमः न भवेत्। विशेषः मार्गनिर्देशः परिष्ठितिविभागेन दीयते।

कुटुम्बश्री संस्थया पलास्तिकानां स्थाने उपयुज्यमानस्य स्यूतस्य निर्माणे व्यापृता वर्तते।

नागरिक संशोधन नियमं प्रतिकूल्य केरल विधानसभायां प्रमेयः, मुख्यमन्त्रिणं विरुध्य अधिकारलंघनव्यपदेशः।

नवदिल्ली- केरलविधानसभायाम् अद्य प्रस्तुतः नागरिकसंशोधननियमप्रतिकूली प्रमेयः जनसभायाः अधिकारलङ्घनमेवेति भा.ज.पा. सदस्यः नरसिंहरावु वर्यः। स केरलमुख्यमन्त्रिणं विरुध्य अधिकारलङ्घनव्यपदेशः प्रस्तुतवान्। केरलविधानसभायाः अयं श्रमः प्राशासनिकमण्डले अस्थिरतां जनयति इति नरसिंहरावुवर्यः असूचयत्।

अधिकारलङ्घनव्यपदेशः शुक्रवासरे सम्पत्स्यमानायां समित्यामेव परिगणनीयः इति स आवेदयति स्म। केरल विधानसभायां प्रमयस्य प्रतिकूले एकमङ्गमेवासीत्। अन्ये सर्वे प्रमेयं समर्थयन्ति स्म।

उटुप्पि पेजावार् मठाधिपः विश्वेशतीर्थस्वामी समाधिमापन्नः।

उटप्पी-  पेजावारमठाधिपतिः विश्वेशतीर्थस्वामी समाधिमाप्तः एते 88 वयस्काः आसन्।  न्यूमोणिया इति श्वासकोषामयेन आन्तरिकावयवानां प्रवर्तनस्तम्भ  एव मृत्युकारणम्। श्वासभङ्गेन स्वामिनं मणिप्पाल् कस्तूर्बा चिकित्सालं दिसम्बर् 20 दिनाङ्के प्रावेशयत्। तदनि एकसप्ताहं यावत् तीव्रपरिचरणविभागे आसीत्।

उटुप्पा अष्टमठेषु अन्यतमः भवति पेजावारमठः चिकित्सालयात् स्वामिनः इच्छानुसारं तं मठं पुनः प्रावेशयितुं मठाधिकृताः पण्डितवर्याश्च निरणयन्। तदनुसारं रविवासरे पातः चिकित्सालयात् तं मठ् प्रावेशयत्। ततः स्वामी तत्रैव समाधिं प्राप्तवान्।

 

ब्रिट्टीष् विद्याभ्याससम्प्रदायेन भारतीयशास्त्रपुरोगतिः विगणिता – वि मुरलीधरः।

आलूर् -चतुर्दशशतककालीनं ज्योतिशास्त्रज्ञं संगमग्राममाधवम्  अनुस्मरन् बहुमान्यः केन्द्रीयमन्त्री वि मुरलीधरः न्यगादीत् यत् भारतीयगणितपद्धतेः खगोलशास्त्रस्य च परम्परायां संगमग्राममधवस्य मुख्यं स्थानमस्तीति। तृशूर् जिल्लायां इरिङ्गालक्कुटा-आलूर् प्रादेशिको∫यं शास्त्रज्ञः इरिङ्ङाटप्पिल्लि नामके गृहे १३४० तमे वर्षे जन्म प्राप्तवान्। तस्य प्रशस्तज्योतिशास्त्रग्रन्थः भवति गोलवादः।  तस्य अनुस्मरणार्थम् आयोजितं सम्मेलनं समुद्घाटयन्  आलूर् श्रीनारायणमण्डपे भाषमाणः केन्द्रमन्त्री अद्यतनवर्षस्य माधवगणितपुरस्कारान्  समर्पितवान्।  सम्मेलने∫स्मिन् पूर्वतन पि.एस्.सि अध्यक्षः श्री के.एस् राधाकृष्णमहोदयः अध्यक्षपदमलंकृतवान्। कॊच्चिन् मरैन् सर्वकलाशालायाः उपकुलपतिः आलप्पाट् रामचन्द्रः, एन्.सि इन्दुचूडः, सतीशन् अविट्टत्तूर्, ए विनोदः, सुभाष् च भाषणमकुर्वन्।

 

श्रेष्ठप्रशासनव्यवस्था- केरलम् अष्टमे स्थाने, प्रथमस्थाने तमिल्नाटु राज्यम्।

नवदिल्ली- राष्ट्रे श्रेष्ठं प्रशासनम् अनुवर्तमानेषु राज्येषु तमिल् नाटु राज्यं प्रथमस्थाने वर्तते। केन्द्रीय-वैयक्तिकमन्त्रालयस्य अनुसूचिकायामेव तमिल् नाटु राज्यस्य प्रकर्षः सूचितः। अनुसूचिकायां केरलम् अष्टमस्थाने वर्तते। द्वितीयस्थाने महाराष्ट्रराज्यमेव। कर्णाटकस्य तृतीयस्थानं वर्तते।

राज्य-केन्द्रभरणप्रदेशानां प्रशासनस्य श्रेष्ठतामवगन्तुं कृते मूल्याङ्कने त्रितलरीतिरेव अवलम्भिता। बृहन्ति राज्यानि उत्तरपूर्वगिरिसानुराज्यानि, केन्द्रप्रशासनप्रदेशाश्च एषु परिकल्पिताः।

छत्तीस्गढ् राज्यं चतुर्थे स्थाने, पञ्चमे आन्ध्राप्रदेशं, षष्टे गुजरात्, सप्तमे हरियाणा च। मध्यप्रदेशं नवमे स्थाने पश्चिमवंगः दशमे, तेलङ्काना एकादशे राजस्थान् द्वादशे, पञ्चाब् त्रयोदशे ओडीषा चतुर्दशे बिहार् पञ्चदशे गोवा षोडशे उत्तरप्रदेशः सप्तदशे झार्खण्ट् आष्टादशे च स्थाने वर्तते।

उत्तरपूर्व गिरिसानु राज्येषु हिमाचलप्रदेशः प्रथमस्थाने वर्तते।

केन्द्रप्रशासितप्रदेशेषु पोण्टिच्चेरी प्रथमस्थाने एव। प्रशासनव्यवस्था राज्यसर्वकाराणां योगदानं इत्यादीन्यनुसृत्यैव सूचिका सज्जीकृता।

अस्य दशकस्य बृहत्तमं सूर्यग्रहणं दिसम्बर् २६ तमे दिनाङ्के।

तिरुवनन्तपुरम्- सूर्यग्रहणं प्रत्युद्गन्तुं केरलाः सज्जाः भवन्ति। दिसम्बर् २६ तमे दिनाङ्के प्रातः ८.०५ तः ग्रहणं दृश्यं स्यात्। आधुनिकशास्त्रावबोधस्य न्यूनावस्थायाम् बहवः अन्धविश्वासाः ग्रहणमधिकृत्य प्रचलिताः आसन्। ग्रहणसमये जनाः भीताः सन्तः गृहान्तर्भागे तिष्ठन्तः आसन् अनतिविदूरे काले। अद्यापि तादृशाः विश्वासाः जनानां मध्ये सन्ति। साङ्केतिकविद्यायाः अतिद्रुतप्रगतावपि असमाभिः अन्धविश्वासाः न त्यक्ताः इत्येतत् विरोधाभास एव।

शास्त्रीयं विज्ञानम् अधिगन्तुं तत् इतरेभ्यो वितरीतुम् असुलभः अवसर एवाधुना समायातः। विद्यालयेषु इतरेषु विज्ञानकेन्द्रेषु च सूर्यग्रहणं निरीक्षितुम् अवसरः समायोजयन्ति। एतद् विज्ञानं समार्जयितुं सर्वे बद्धश्रद्धाः भवेयुरिति मुख्यमन्त्री अवदत्।