Category Archives: News Updates

पी. परमेश्वरन् वर्यः दिवमगात्।

ओट्टप्पालम्- केरलेषु संघपरिवारप्रस्थानानाम् पूर्वकालसंघाटकः तात्त्विकाचार्यश्च श्रीमान् पी.परमेश्वरवर्यः दिवंगतः। स ९३ वयस्कः आसीत्।रविवासरे प्रातः ओट्टप्पालसमीपे मायन्नूर् देशे निजीयायुर्वेदचिकित्सालये आसीदस्यान्त्यम्। १९८२ आरभ्य भारतीयविचारकेन्द्रस्य निदेशकः अस्ति। तथा कन्याकुमारी विवेकानन्दकेन्द्रस्य अध्यक्ष भवत्ययम्। हैन्दवतत्त्वचिन्तायाः सात्विकतेजः अयं संघप्रवर्तकानां मध्यो परमेश्वर्जी इति विख्यातो भवति।

२००४ तमे वर्षो पद्मश्री तथा २०१८ तमे वर्षे पद्मविभूषण् इति पुरस्काराभ्यां राष्ट्रमेनम् आदद्रे। अपि च जन्माष्टमिप्रभृतयः नैके पुरस्काराः तेन अवाप्ताः।

आध्यात्मिकतायाम् अधिष्ठितेन जीवनेनैव समाजस्य उन्नतिः स्यात् इति तत्त्वमेव अयमुद्धधार। अध्ययनाय गवेषणाय च स स्वकीये जीवने प्राधान्यं पर्यकल्पयत्। श्रीनारायणगुरुदेवन् नवोत्थानत्तिन्टे सारथिः, दिशाबोधत्तिन्टे दर्शनम्, मार्क्सुं स्वामिविवेकानन्दनुम् इत्यादयः विंशतिपरिमिताः ग्रन्थाः तेन विरचिताः।

१९२७ तमे वर्षे आलप्पुषमण्डले चेर्तलदेशे अयं भूजातः अभवत्। अस्य भौतिकसंस्कारः रविवासरे सायं मुहम्मा देशे भविष्यति।

प्रमुखः संस्कृतपण्डितः विवर्तकश्च चन्द्रशेखरवारियर् वर्यः दिवंगतः।

अष्टमिच्चिर- प्रसिद्धः संस्कृतविद्वान् तथा अनुवादकश्च श्रीमान् चन्द्रशेखरवारियर् वर्यः कालकबलीभूतः। स १०१ वयस्कः आसीत्। वार्धक्यसहजया अवशतया स अष्टमिच्चिरस्थे गृहे विश्रामजीवने आसीत्। अद्य प्रातः षड्वादनावधौ आसीदस्य अन्त्यम्।

बह्यः संस्कृतकृतयः तेन मलयालभाषायाम् अनूदिताः। अपि च कलोत्सववेदिकायाम् अस्य़ सान्निध्यं स्थिरमासीत्। बहवः पुरस्काराः अपि अनेन आप्ताः। अस्य भौतिकदेहसंस्कारः श्वः भविष्यति।

अक्षरोत्सवस्य शुभसमाप्तिः।

तिरुवनन्तपुरम्- साहित्यस्य संवादस्य सर्गात्मकतायाश्च नूतनम् आकाशम् अनन्तपुुर्यै समर्पयन् मातृभूमि-अन्ताराष्ट्रपुस्तकोत्सवस्य तृतीयसोपानं समाप्नोत्। कनकक्कुन्न् प्रासादे आयोजितं समापनसमारोहं राज्यपालः आरिफ् मुहम्मद्खान् वर्यः उदघाटयत्।

स्वकीयान् आशयान् विचारान् च प्रकटयितुम् अधिकारः अस्तीति विश्वासम् आतन्वानः बहवो जनाः अभिप्रायस्वातन्त्र्यं नाङ्गीकुर्वन्ति। एतत् कापट्यं द्वैमुख्यं चास्ति इति राज्यपालः अवदत्।

अस्माकं दिनानि अन्धकारे न पतिष्यतीति सन्देशमेव अक्षरोत्सवद्वारा लभते इति समारोहे आध्यक्ष्यं निर्वहन् मन्त्री कटकंपल्लि सुरेन्द्रन् वर्यः अवदत्। अपि च प्रतिरोधं शक्तीकर्तुम् अक्षरोत्सवः प्रभवति , वर्गीयवादिनां प्रक्युत्तरमेव एतादृश उत्सव इत्यपि सोवदत्।

अक्षरोत्सवस्य तृतीयसोपानम् अधिकम् आत्मविश्वासं प्रददाति इति समापोहे भाषमाणः मातृभूमि प्रबन्धकनिदेशकः एं.वी. श्रेयांस् कुमार् वर्यः न्यगादीत्।

केरलेषु लव् जिहाद् इति समस्या नावेदिता इति केन्द्रिय-गृहमन्त्रालयः।

नवदेहली- राष्ट्रतले राष्ट्रिय-नागरिकता-पञ्जिकाम् विधातुं न निरणयत् इति केन्द्रिय गृहमन्त्रालयः। लोक्सभायां केन्द्र गृहमन्त्रालयस्य सहमन्त्री नित्यानन्द् राय् वर्यः कार्यमिदम् आवेदितवान्। अपि च केरलेषु लव् जिहाद् इत्याख्यः धर्मसमस्या नावेदिता। एतत्सम्बन्धिनौ द्वौ व्यवहारौ एन्.ऐ.ए दलेन अन्विष्येते इत्यपि बेन्नी बहन्नान् इति सदस्यम् स अबोधयत्।

     नागरिक संशोधनाधिनियमं, नागरिकत्व पञ्जिकां च विरुध्य आराष्ट्रं प्रतिषेधाः प्रचलन्ति। तदानीमेव एतदर्थं सर्वकारनिर्णयो नास्तीति  केन्द्रसर्वकारः आधिकारिकं प्रतिवचनं लोक्सभायाम् अदात्।

     सममेव केरलेषु लव् जिहाद् एतावत्पर्यन्तं नावेदितमित्यपि मन्त्री आधिकारिकतया सभायां प्रास्तौत्। जिहाद् इत्यस्य नियमे निर्वचनानि नास्तीत्यपि स सभायामवोचत्।

एकोपि कोरोणा विषाणुना बाधितः, इतोप्यधिकं द्रष्टुं साध्यता इति स्वास्थ्यमन्त्री।

तिरुवनन्तपुरम्- वुहानात् प्रतिनिवृत्तस्य एकस्य छात्रस्यापि कोरोणा विषाणुबाधा। कासरगोड् मण्डलीयस्य छात्रस्य कोरोणबाधा स्थिरीकृतेति स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। काञ्ञङ्ङाट् जिल्ला चिकित्सालये प्रवेशितस्य तस्य स्वास्थ्यव्यवस्था तृप्तिकरेति आवेदयति। अधुना चिकित्सालयं प्रविष्टेषु कस्यचिदपि स्वास्थ्यविषये आश्ङ्का नास्तीति मन्त्री अवदत्। विधानसभायां स्वास्थ्यमन्त्री पृथक् प्रस्तावनायां न्यगादीत्।

रविवासरपर्यन्तं १०४ रक्तमातृकां परीक्षितेषु तृशूर् आलप्पुषा मण्डलस्थयोः द्वयोः एव विषाणुबाधा स्थिरीकृता। एतावत्पर्यन्तं केरलराज्ये त्रयाणामेव विषाणुबाधा स्थिरीकृता।

रेगबाधितानां संख्या इतोप्यधिकतरं भवितुं साध्यता अस्ति। विमानपत्तनेषु नौनिस्थानेषु च सूक्ष्मता परिशोधना च शक्ततया विहिता। सर्वैः एतद्विषये जागरूकैः भाव्यम् इति स्वास्थ्यमन्त्री अवदत्।

प्रथमं मातृभूमि-बुक्क् आफ् द इयर् पुरस्कारं विनोद् कुमार् शुक्लाय समार्पयत्।

तिरुवनन्तपुरम्- भारते प्रादेशिकभाषालेखकाय मातृभूमेः प्रथमं बुक्क् आफ् द इयर् पुरस्कारं ददाति इत्येतेन मातृभूमिरिति संस्थायाः प्रकाशकत्वम् अङ्गीकृतमिति मातृभूमेः सहकारिप्रबन्धननिदेशकः एं वी श्रेयांस् कुमार् वर्यः अवोचत्। मातृभूमेः पुरस्कारदानवेदिकायाम् आध्यक्ष्यं निर्वहन् भाषमाण आसीदयम्।

भारतीये साहित्ये उत्कृष्टरचनायाः आदरणस्य भागत्वेनैव मातृभूमि अक्षरपुरस्कारस्य अस्मात् तृतीयसत्रादारभ्य अयं पुरस्कारः आयोजितः। भारतीयसाहित्यमण्डलस्थानाम् आगोलप्रकाशकानाम् आकर्षणमपि अनेन पुरस्कारेण उद्दिश्यते। अक्षरोत्सवे जनानां सान्निध्यम् अतीव सन्तोषास्पदं भवति।

बुक्कर् पुरस्कारस्य निर्णायकसमित्यध्यक्षा मारगरट् बस्बी वर्या पुरस्कारं समार्पयत्। विनोद् कुमार् शक्लावर्यस्य ब्लू ईस् ब्लू इति ह्रस्वकथासमाहारस्य आङ्गलपरिभाषा एव पुरस्काराय अर्हा अभवत्। पञ्च लक्षं रूप्यकाणि शिल्पं च पुरस्कारे अन्तर्भवति।

विरोधे सत्यपि राज्यपालः सर्वकारस्य नयरेखां पूर्णतया विधानसभायां प्रास्तौत्।

तिरुवनन्तपुरम्- वियोजनं संसूच्यैव नागरिकत्व-संशोधन-अधिनियमसम्बन्धी परामर्शः राज्यपालः आरिफ् मुहम्मद् खान् वर्यः विधानसभायामपठत्। पूर्वं विरोधं प्रकटयन् नयरेखायाः संशोधनं राज्यपालेन अनुदिष्टम्। परन्तु मुख्यमन्त्रिणः अभ्यर्थनां परिगणय्य नयरेखां पूर्णतया अपठत्।

नागरिक-संशोधनाधिनियमः यूरोपीय सभा अद्य चर्चते। श्वः मतदानम्।

लण्टन्- भारतस्य नागरिकत्व संशोधनाधिनियमसम्बन्धिनी चर्चा यूरोप संविधानसभायां अद्य श्वश्च भविष्यति। संयुक्ततया एव तत्र प्रमेयचर्चा प्रचलिष्यति। तत्रत्येषु ७५१ सदस्येषु ५६० सदस्याः चर्चायै आगताः। अयमधिनियमः विवेचनपरः भिन्नतादनकश्चेति प्रमेयेन सूच्यते। गुरुवासरे मध्याह्रावधि प्रमेयविषये मतदानं भविष्यति।

यूरोपीय सभायां पञ्च विभागाः गते सप्ताहे एव प्रमेयः आनीतवन्तः। नागरिकत्वाधिनियमः आन्ताराष्ट्रियां समयां लङ्घयति इति तेषामभिप्रायः। अतः अस्य अधिनियमस्य सन्त्यागार्थं प्रधानमन्त्रिणं मोदीवर्यं अनेन प्रमेयेन प्रार्थयन्ति।

अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवते फलव्यापारिणे पद्मश्री पुरस्कारः।

नारङ्गकविक्रयणात् लभ्यमानेन धनेन अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवान् हरकेल हज्जब्बा महाशयः २०२० तमं पद्मश्री पुरस्कारमवाप। कर्णाटकराज्यस्थः अयं विंशतिवर्षान् यावत् अकिञ्चनानां बालकानां मनस्सु शिक्षायाः प्रकाशं प्रापयति। ६४ वयस्कस्य हजब्बावर्यस्य अक्षरसान्टो इति नामान्तरमप्यस्ति। दक्षिणकन्नटे मंगलूरुसपीपस्थः न्यूपडुप्प ग्राम एवास्य देशः। गृहे नदीजलैराप्लाविते एव स मंगलूरु नगरे नारङ्गकं विक्रेतुमारभत।

शिक्षाराहित्यस्य दोशान् बहु अनुभूतवानसौ इतः परं तामवस्थां कस्यचिदपि मा भूत् इति विचिन्त्यैव ग्रामेषु विद्यालयं संस्थापितवान्।

स्वकीयेन अश्रान्तपरिश्रमेण २००४ नवम्बर् १४ दिनाङ्के न्यूपडुपा ग्रामे दक्षिणकन्नट जिलापञ्चायत्त् हयर् प्रैमरि विद्यालयं स्थापितवान्। तदानीं १२५ छात्राः चत्वारः अध्यापकश्चासीत्। अद्य तु स विद्यालयः बहूनां छात्राणां पठनपरिसरः अभवत्। अधुना इमं विद्यालयं प्री यूणिवेसिट्टी विद्यालयरूपेण परिवर्तयितुं हजबा परिश्रममारभत।

विद्यालयेषु अनुमतिं विना धर्मशिक्षणं मा भूत् -उच्चन्यायालयः।

कोच्ची- अङ्गीकृतनिजीयविद्यालयेषु सर्वकारीणानुमतिं विना धर्मशिक्षणवर्गः नायोजनीयः इति निर्देशः सार्वजनीनशिक्षासचिवेन दातव्यः इति केरलस्य उच्चन्यायालयः निदेशमदात्। शिक्षासचिवस्य आदेशः यदि लङ्घ्यते तर्हि तादृशः विद्यालयः पिधातव्यः। शिक्षाधिकारनियमानुसारम् अङ्गीकारयुक्तः विद्यालयः यत्कमपि धर्ममाधारीकृत्य शिक्षावर्गम् आयोजयितुं न पारयति इति न्यायाधीशः ए मुहम्मद् मुष्ताख् अवदत्। स्वकीयं विद्यालयं पिधातुं दत्तम् आदेशं विरुध्य तिरुवनन्तपुरं मणक्काट् हिदाय शिक्षा तथाआतिथ्यनिधिः इति संस्थया दत्तस्य आवेदनस्य निर्णये एवायमादेशः।

     सर्वकारस्य सी.बी.एस्.ई. संस्थायाश्च अनुमतिं विना 200 परिमितान् इस्लामीयमात्रान् छात्रान् प्रावेश्य  धर्मशिक्षणम् अदात् इति कारणेन तिरुवनन्तपुरं विद्याभ्यास उपनिदेशकः विद्यालयं पिधातुम् आदिष्टवान् आसीत्।

     2017 मेय् 31 दिनाङ्के  दत्तम् एनमादेशं विरुध्यैव  आवेदनं दत्तम्। एतादृशी प्रवृत्तिः शिक्षाधिकारनियमस्य अन्तस्सत्तां विरुध्यति इति न्यायालयेन निर्णीतम्। प्राथमिकशिक्षार्थं सर्वकारस्य प्रतिबद्धता  एव निजीयविद्यालया अपि निर्वहन्ति। अत्ः तत्रस्थं शिक्षणं संविधानानुसारि भवितव्यम्। न्युनपक्षाधिकारानुसारं प्रवर्तमानेषु विद्यालयेषु विभागीयपरं प्रवर्तनं मा भूत्। पाठ्यक्रमः मूल्यनिर्णयश्च सर्वकारीणनयानुसारमेव स्यात् इत्येव शिक्षाधिकारनियमः अस्मान बोधयतीति न्यायालयः अस्मारयत्।