Category Archives: News Updates

महाकविः अक्कित्तम् कालकबलीभूतो अभवत्।

तृशूर् – ज्ञानपीठविजेता वरिष्ठः कैरलीमहाकविश्च पद्मश्री  अक्कित्तम् अच्युतन् नम्पूतिरिवर्यः निर्यातः। स 94 वयस्कः आसीत्। तृशूर् नगरे निजीय चिकित्सालये अद्यः प्रातः 8.10 वादने आसीत् अन्त्यम्। वार्धक्यसहजेन आमयेन चिकित्सायामासीत्। द्विदिवसात् पूर्वं  गुरुतरेण अस्वास्थ्येन स चिकित्सालयं नीतः आसीत्।

     अस्मिन् वर्षे भारतसर्वकारेणः जञानपीठपुरस्कारं दत्वा स समादृतः । आमयपीडितत्वात्@ गते सेप्तम्बर् 24 दिनाङ्के ज्ञानपीठपुरस्कारः  तस्य गृहे आयोजिते अधिवेशने एव दत्तः।

2008 तमे वर्षे केरलसर्वकारस्य एषुत्तच्छन् पुरस्कारः, 2012 तमे वर्षे वयलार् पुरस्कारः, ततः पद्मश्रीपुरस्कारश्च अनेन पाप्ताः। तस्य इरुपतां नूट्टाण्टिन्टे इतिहासं इति कैरलीकविता मलयालभाषायाः आधुनिकतायै निदानरूपेण परिगण्यते। 1956तः 1985 पर्यन्तं स महाकविः आकाशवाण्यां सम्पादकरूपेण कर्म कृतवान्।, कविताः, नाटकानि, कथाश्च आहत्य षट्चत्वारिंशत् साहित्यरचना अनेन कृता।

     1926 तमे वर्षे मार्च् मासस्य 18 दिनाङ्के पालक्काट् मण्डले कुमारनल्लूर् देशे अमेट्टूर् अक्कित्तत्त् मनायां अयं महाकविः भूदातः अभवत्।   अस्य मृत्युना कैरलीकवितायाः इतिहास एव अनतरधात् इति प्रमुखाः वदन्ति।

केरलराज्यस्य 50 तमाः चलनचित्रपुरस्काराः घोषिताः।

तिरुवनन्तपुरम्- 2019 वर्षस्य केरलीयचलनचित्रपुरस्काराः घोषिताः। सांस्कृतिकविभागमन्त्री ए.के. बालन् वर्यः पुरस्कारान् अघोषयत्। मधु अम्बाट्ट् वर्यस्य आध्यक्ष्ये आयोजिता पुरस्कारनिर्णयसमितिरेव विजयिनः अचिनोत्। पुरस्कारार्थं 119 चलनचित्राणि निरीक्षितानि। ओषु पञ्च बालकानां चलनचित्राणि आसन्। प्रतियोगितार्थम् आगतेषु 50 प्रतिषतं चलनचित्राणि नवागतनिदेशकानाम् इत्येतत् अस्मिन् रंगे शुभप्रतीक्षां ददाति इति मन्त्री अवदत्।

पुरस्काराः एवम्-

उत्कृष्टं चलनचित्रम् – वासन्ती। द्वितीयम् उत्कृष्टं चित्रम् – केञ्चिरा।

उत्कृष्टः नटः – सुराज् वेञ्ञारमूट् – चित्रं विकृतिः, आन्ड्रोय्ट् कुञ्ञप्पन्। नटी – कनि कुसृतिः, चित्रं बिरियाणी।

उत्कृष्टः निदेशकः – लिजो जोस् पेल्लिश्शेरि, – चित्रं जेल्लिक्केट्ट्।

संगीतनिदेशकः – शुषिन् श्याम्।, सम्पादकः – किरण् दास्।, गायकः – नजीम् अर्षाद्, गायिका – मधुश्री नारायणन्।

चलनचित्रग्रन्थस्य कृते पुरस्काराय डो. पी.के. राजशेखरः अर्हो अभवत्।

चलद्दूरवाणीपटेषु, धनपत्रेषु स्फटिकेषु च कोरोणाविषाणोः प्रभावः 28 दिनानि यावत् स्थास्यति।

सिड्नी-  नवीनकोरोणावैराणुः धनपत्र-स्फटिक-चलद्दूरवाणी प्रभृतीनां प्रतलेषु दिनानि यावत् स्थास्यतीति अन्ववेक्षणम्। ओस्ट्रेलिया राष्ट्रस्थे प्रशस्ते जैवसंरक्षणपरीक्षणालये एव एतादृशं परीक्षणं समायोजयत्।

     धनपत्रे स्फटिके च 2-3 दिनानि यावत् विषाणुः स्थास्यति इत्यासीत् पूर्वनिर्णयः। परन्तु टलद्दूरवाणी, स्फटिकं, काचनिर्मितपात्रं धनपत्रम् इत्यादिषु  28 दिनानि यावत् स्थातुं विषाणुः प्रभवति इति अधुनातनं पर्यवेक्षणं सूचयति।

     20 डिग्रि सेल्ष्यस् तापमाने कोरोणा विषाणुः 28 दिनानि यावत् स्थास्यतीति आवेदने वदति। विषाणुपठनवार्तापत्रिकायामेव सी.एस्.ऐ.आर्. संघस्य गवेषणावेदनं प्रकाशितम्।

     कार्पाससदृशवस्तुषु उपरितले अनुकूलावस्था चेत् 14 दिनानि यावत् विषाणुः स्थास्यति। वर्धिते तापमाने एतत् 16 होरारूपेण न्यूनतां प्राप्नोति। मांससंस्करणस्थलेषु शीतीकृतावस्थासु च कोविड् रोगव्यापनस्य साध्यता अधिका इति च आवेदने सुचयति।

केरलं सम्पूर्णाङ्कीयराज्यम्- घोषणम् ओक्टोबर् १२ दिनाङ्के।

केरलराज्यं सम्पूर्णाङ्कीयराज्यत्वेन परिवर्तनस्य आधिकारिकं घोषणम् ओक्टोबर् १२ दिनाङ्के मुख्यमन्त्री पिणरायि विजयन् वर्यः आधिजालिकतया निर्वक्ष्यति। सार्वजनीन शिक्षाविभागमन्त्री प्रोफ. सी रवीन्द्रनाथवर्यः अध्यक्षो भविता।

अनेन सह प्रतिमण्डलं चिते विद्यालये विधानसभासामाजिकस्य नेतृत्वे विधानसभामण्डलस्य अङ्कीयपरिवर्तनप्रख्यापनमपि विधास्यति। राज्यस्थम् अखिलानामपि विद्यालयानाम् अङ्कीयपरिवर्तनघोषणं विद्यालयतले भविष्यति।

राज्ये मुख्यमन्त्रीतः पञ्चायत् अङ्गं यावत् सर्वेषां प्रतिनिधीनां संवेशनम् इति विशेषमपि अस्यास्ति। कार्यक्रममवलोकयितुं राज्ये सर्वे जनाः प्रभवन्ति। विक्टेस् नालिकाद्वारा एतदर्थं सुविधा आयोजिता।

केन्द्रीय भक्ष्यविभागमन्त्री रां विलास् पास्वान् वर्यः दिवङ्गतः।

नवदिल्ली- केन्द्रीय भक्ष्यमन्त्री तथा लोक जनशक्ती दलस्य नेता च रां विलास् पास्वान् वर्यः दिवङ्गतः। शारीरिकव्यथया चिकित्सालयं नीतः आसीत्। शनिवासरे हृदयपरिवर्तनशस्त्रक्रियामतीतः आसीत्। स्वपुत्रः चिराग् पास्वान् एव मृत्युसूचनामदात्।

     बिहार् राज्यात् आगतः दलित् राजनैतिकनेता आसीत् पास्वानः। बिहार् विधानसभानिर्वाचनस्य भूमिकायामेव पास्वान् वर्यस्य देहवियोगः। अष्टवारं स लोकसभासदस्यत्वेन चितः आसीत्। संयुक्त समाजवादिदले अङ्गत्वेन स राजनैतिकक्षेत्रं प्रविष्टः। षट्भिः प्रधानमन्त्रिभिः साकं पास्वान् वर्यः मन्त्रिमण्डले सदस्यः आसीत्। 1977 तमे वर्षे स प्रथमतया लोकसभासदस्यः अभवत्।

     पास्वानस्य वियोगे विभिन्नाः नेतारः अन्शोचयन्।

२०२१ तमे वर्षे विश्वे १५ कोटि जनाः दारिद्र्ये पतिष्यति- विश्वबैंक्।

वाषिङ् टण्- कोविड् महामारिद्वारा विश्वे २०२१ वर्षागमे १५ कोटि जनाः कठोरे दारिद्र्ये पतिष्यतीति विश्वबैकस्य जागरूकनिर्देशः।

अतः राष्ट्राणि मूलधन-वृत्ति-नैपुण्यादीनि नूतनसंरम्भकेषु इतरमेखलासु च विनियोक्तुं सज्जानि भवेयुः इति विश्वबैंकेन दत्तां विज्ञप्त्यां सूचितम्।

अस्मिन् वर्षे एव ८.८ तः ११.५ कोटिपरिमिताः जनाः दारिद्र्ये पतिताः। २०२० तमे वर्षे विश्वे दारिद्र्यावस्था ७.५ शतमितत्वेन न्यूना भविष्यतीति यद्यपि प्रतीक्षिता तथापि कोविड् महामारिणा प्रतीक्षा अस्तंगता इति विश्वबैंक् अध्यक्षः डेविड् माल्पास् वर्यः अवदत्।

विद्यालयानां प्रवर्तने मार्गनिर्देशः घोषितः।

नवदिल्ली- ओक्टोबर् १५ दिनाङ्कादूर्ध्वं विद्यालयानां पुनरुद्घाटनविषये निर्णयं स्वीकर्तुं राज्यानामेव अधिकार इति केन्द्रीय गृहमन्त्रालयस्य सूचना आसीत्। विद्यालयानां पुनरुद्घाटनम् अधुना अवश्यं न करोति ओण् लैन् अध्यापनम् अनुवर्तनीयम् इत्यपि सूचनायामासीत्।

तदनन्तरमेव शिक्षामन्त्रालयस्य मार्गनिर्देशः घोषितः। तत्र एते निर्देशाः सन्ति। सर्वेषु विद्यालयेषु शुचित्वं परिपालयितुं कर्मसेना भवितव्या। विद्यालयेषु अणुनशीकरणं कर्तव्यम्। कक्ष्याप्रकोष्ठेषु शुद्धवायोः सान्निध्यमस्तीति निर्णेतव्यम्। छात्राणां विद्यालयागमनसमये विद्यालयात् गृहगमनयमये, कक्ष्यायाम् अध्ययनसमये च सामाजितान्तरम् अवश्यंभावि। कक्ष्यासु सर्वे मुखावरणं धारयेयुः। वैद्यानाम् अनुवैद्यानां च सेवनम् आयोजनीयम्। उपस्थितिविषये कर्शनव्यवस्था न करणीया।

सर्वोपरि रक्षाकर्तृणां अनुमतिपत्रेण साकमेव छात्राः विद्यालयम् आगच्छेयुः इति च मार्गनिर्देशे वर्तते।

नौसेना प्रशिक्षणप्लवकस्य दुर्घटनायां द्वौ नौसेनाकर्मकरौ मृतौ।

कोच्ची-  नौसेनायाः प्रशिक्षणप्लवगस्य दुर्घटनायां द्वौ कर्मकरौ मृतौ। उत्तराखण्ट् देशीयः लेफ्ट्नेन्ट् राजीव झा, विहार् देशीयः पेॆट्टी ोफीसर् सुनिल् कुमार् च मृतौ। एतौ चिकित्सालयप्रवेशात् प्रागेव मृतौ स्तः।

एरणाकुलं तोप्पुंपटी बी.ओ.टी. सेतोः समीपस्थे मार्गे एव प्लवकः प्रभञ्ज्य पतितः। कोच्ची नौसेनास्थानात् एककिलोमीट्टर् दूरे एव अयमपघातः संवृत्तः। प्रभाते प्रशिक्षणवेलायामासीत् अपघातः।

अटल् सुरङ्गा प्रधानमन्त्रिणा उद्घाटिता। अत्युन्नतस्थले विश्वे दीर्घतमा सुरङ्गरथ्या।

मणाली- अटल् सुरङ्गमार्गः  प्रधानमन्त्रिणा राष्ट्राय समर्पितः। कोविड् मानदण्डं परिपाल्य आयोजिते उद्घाटनसमारोहे प्रधानमन्त्रिणा सह सुरक्षामन्त्री राजनाथसिंहः, हिमाचल् प्रदेश मुख्यमन्त्री जय् रां ताक्कूर् प्रभृतयः भागमभजन्त। समुद्रतलात् अत्युन्नते संस्थितः सुरङ्गमार्गः भवति अटल् सुरङ्गा। हिमाचलप्रदेशस्य मणाली-ले राजमार्गे 9.02 कि.मी. दीर्घयुक्ता सुरङ्गा समुद्रतलात् 3000 मीट्टर् उन्नते स्थीयते।

     सुरक्षामन्त्रालयस्याधीनस्थस्य प्रान्तीय रथ्या संघस्य आसीत्  निर्माणधुरा। 3086 कोटि रूप्यकाणि एव पद्धतेः व्ययः। सुरङ्रमार्गस्य उद्धाटनेन मणाली – ले यात्रायां 46 किलोमीट्टर् दूरस्य न्यूनता अस्ति, यात्रासमये अपि पञ्चहोरा न्यूना स्यात्।

     पूर्वं तुहिनकाले षण्मासावधिकं रोह्तङ् गिरिमार्गः पिहितः आसीत्। तदानीं यात्रानिरोधेन जनैः बहुकष्टमनुभूतम्। परं नूतनमार्गस्याविर्भावेन तुहिनकाले अपि यात्रां कर्तुं शक्यते। अस्य सुरङ्गमार्गस्य निर्माणे के.पी. पुरुषोत्तमन् इति केरलीयः अभियान्त्रिकः नेतृत्वमावहत्।

बाबर् ई मस्जिद् भञ्जनव्यवहारे सर्वान् अभिशस्तृृन् अपराधमुक्तान् अकरोत्।

लख्नौ- बाबर् इ मस्जिद् भञ्जनव्यवहारे गूढपर्यालोचनायै निदर्शनं नास्तीति सी.बी.ऐ. विशेषन्यायालयः। सर्वान् अभिशस्तृृन् न्यायालयः अपराधमुक्तान् अकरोत्। 28 वर्षानन्तरमेव व्यवहारे विधिप्रस्तावः  अभवत्।

लख्नौ स्थे विशेषन्यायालये  न्यायाधीशः सुरेन्द्रकुमार् यादव् वर्यः एव विधिं प्रास्तौत्। 32 अभिशस्तृषु 26 ऩ्यायालये उपस्थिताः आसन्। एल्.के. अड्वानी,  मुरलीमनोहर् जोषी च वयोधिकाः इत्यतः न्यायालये अनुपस्थितौ। कोविड् बाधया उमा भारती अपि न आगता। कल्याण् सिंह्, नृत्यगोपाल् सिंह्, सतीष् प्रधान्, इत्येते वीडियो सम्मेलनद्वारा उपस्थिताः।

1992 डिसम्बर् मासे षष्ठे दिनाङ्के एव कर्सेवकाः बाबर् इ मस्जिदं अभञ्जयन्। एतदनन्तरम् अनुवर्तिते संघर्षे द्विसहस्राधिकं जनाः मारिताः। तस्मिन्नेव वर्षे डिसम्बर् षोडशे दिने मस्जिद् भञ्जनमधिकृत्य अन्वेषणाय लिबर्हान् आयोगः न्ययुङ्क्त। 1993 ओक्टोवर् मासे उन्नतान् भा.ज.पा. नेतृृन् विरुध्य गूढसमालोचनापराधानुसारं सी.बी.ऐ. व्यवहारं स्वीचकार।