Category Archives: News Updates

केरले मन्त्रिमण्डलस्य सत्यशपथः अद्य सायं ३.०० वादने।

तिरुवनन्तपुरम्- केरले पिणरायि विजयन् वर्यस्य नेतृत्वे वामपक्षीय-लोकतान्त्रिक-मोर्चा सर्वकारः अद्य सायं ३.०० वादने सत्यशपथं गृहीष्यति। आहत्य २१ मन्त्रिणः भविष्यति। सी.पि.एम्. दलस्य १२, सी.पि.ऐ. दलस्य ४, जनता दल् -एस् -१, केरला कोण्ग्रस्- माणि विभागः -१, एन्.सी.पि-१, लोकतन्त्र केरल कोण्ग्रस्-१, ऐ.एन्.एल्-१ इत्येवं मन्त्रिणां दलक्रमः।

केरलेषु ऐदम्प्राथम्येनैव एकस्या‌ः मोर्चायाः नेतृत्वे कालपरिधिं समाप्य अनुस्यूतप्रशासनं भवति। अत एव मुथ्यमन्त्रिमतिरिच्य न कोपि जनः पूर्वस्मात् मन्त्रिमण्डलात् स्वीकृतः। पूर्वस्मिन् मन्त्रिमण्डले स्थिताः चत्वारः संसदीयः पुनरपि सदस्यत्वेन चिताः आसीत्। निर्वाचनेपि प्रतियोगिनः अधिकाः नूतनाः आसन्।

कोविड् व्यापनहेतोः राज्य सर्वत्र सम्पूर्णपिधानं घोषितमस्ति। विशिष्य राजधान्यां पिधानं त्रिगुणीकृतमप्यस्ति। तथापि परिमितानाम् अङ्गानां सान्निध्ये सेन्ट्रल् स्टेडियं मध्ये सर्वेषां नियुक्तमन्त्रिणां सत्यशपथम् अद्य भविष्यति।

बालेभ्यः प्रतिरोधौषधं न दातव्यम्, तदौषधं दरिद्रराष्ट्रेभ्यो ददातु इति विश्व-स्वास्थ्य- संस्था।

जनीव- बालेभ्यो दातुं संभृतं कोविड् प्रतिरोधकं दरिद्रराष्ट्रेभ्यः दातव्यमिति सम्पन्नराष्ट्रं प्रति विश्व-स्वास्थ्य-संस्था। प्रतिरोधकौषधस्य भूरिभागं स्वायत्तीकृतेषु सम्पन्नराष्ट्रेषु अपघातसाध्यतारहितेभ्यो जनेभ्योपि प्रतिरोधकौषधं दत्तम्। केषुचिद्राष्ट्रेषु बालकेभ्यो कुमारकेभ्यश्च प्रतिरोधकं दातुं सन्नह्यते। निर्णयोयं पुनःशोधनीय इति संस्थया सूचितम्।

य़था जनुवरिमासे सूचितम् तथा वाक्सिन् वितरणे असमत्वं सञ्जातम्। दरिद्र-मध्यवर्गराष्ट्रेषु स्वास्थ्यप्रवर्तकानां कृतेपि वाक्सिन् वितरणं न जातम्। आगोलतले १०४ कोटिपरिमिता प्रतिरोधकमात्रा एतावत्पर्यन्तं २१० राष्ट्रेभ्यो दत्तम्। एषु ४४ प्रतिशतं सम्पन्नराष्ट्रेषु वर्तते यत्र जनसंख्या विश्वजनसंख्यायाः १६ प्रतिशतमेव वर्तते इत्यपि संस्थया उक्तम्।

के.आर्. गौरियम्मा निरगात्।

तिरुवनन्तपुरम्- राजनैतिकरंगे विप्लवतारं के.आर्. गौरियम्मा कालकबलीभूता अभवत्। सा १०१ वयस्का आसीत्। श्वाससम्बन्धिना आमयेन अनन्तपुर्यां निजीयचिकित्सालये चिकित्सायामासीत्। अस्याः निर्याणेन एकशतकपर्यन्तं साम्यवादिदलानाम् इतिहासतारम् अस्तमगमत्।

निर्वाचनद्वारा शासनाधिकारं प्राप्ते प्रथमसाम्यवादिमन्त्रिमण्डले इयं अङ्गमासीत्। अतः केरलीयराजनैतिकरंगे अस्याः योगदानं निर्णायकमासीत्। तस्याः आज्ञाशक्तिः शासनवैभवं च अनितरसाधारणमासीत्। प्रथममन्त्रिमण्डले राजस्वविभागस्य मन्त्री इत्यतः केरलीयानां साधारणजनानां कृते उपकारप्रदानि अनेकानि कार्याणि तया कृतानि। केरलीयभूपरिष्करणविधेयकं तेष्वन्यतमं भवति। १९५७तः २००१ पर्यन्तं सा विधानसभासामाजिका आसीत्।

केरलेषु आलप्पुषामण्डले चेर्तलसमीपस्थे अन्धकारनषि ग्रामे १०१९ तमे वर्षे इयं भूजाता अभवत्।

महामहोपाध्यायः प्रोफ. आर्. वासुदेवन् पोट्टी ब्रह्मभूयं प्राप।

तिरुवनन्तपुरम्- संस्कृत-हिन्दी-मलयालं भाषासु अप्रतिमः पण्डितवर्यः महामहोपाध्यायः प्रो.आर्. वासुदेवन् पेट्टी वर्यः अद्य प्रातः दिवंगतः। स ९२ वयस्कः आसीत्। संस्कृतव्याकरणे वेदान्ते साहित्ये च निष्णातः अयं नैकान् ग्रन्थान् प्रणिनाय। सिद्धान्तकौमुदी समासप्रकरणं, स्त्रीप्रत्ययप्रकरणं, कृदन्तप्रकरणं, कारकप्रकरणं सुबन्तप्रकरणं इत्यादीनां बालहितैषिणी नाम व्याख्यानेन पृथक् ग्रन्थाः तेषु केचन भवन्ति।

संस्कृतपाण्डित्ये राष्ट्रपतिपुरस्कारेण अयं बहुमानितः। कालटी श्रीशङ्कराचार्य-संस्कृत-विश्वविद्यालयः विद्या वाचस्पतिबिरुदेन तं बह्वमन्यत। केरलीय-संस्कृतपाठपुस्तकरचनायां अस्य सान्निध्यं बहूपकारकमासीत्। आराष्ट्रं बहवः शिष्याः अस्य सन्ति।
एतस्य वियोगे नववाणीसंघः श्रद्धाञ्जलिम् अर्पयति।

प्रथमः चान्द्रयात्रिकः मैक्किल् कोलिन्स् कालयवनिकां प्राप।

हूस्टण्- मानवः प्रथमतया चन्द्रमण्डले पादविन्यासं कृतवति अप्पोलो -११ दौत्ये त्रयाङ्गेष्वन्यतमः मैक्किल् कोलिन्स् वर्यः बुधवासरे कालकबलितो/भूत्। स ९० वयस्कः आसीत्। १९६० जूलै २० दिनाङ्के आसीत् एषां पादस्पर्शः चन्द्रोपरितले पतित।

१९३० ओक्टोबर् ३१ दिनाङ्के इट्टलि राष्ट्रे कोलिन्स् भूजातः। स्वपितुः मार्गमनुसृत्य एष सैनिकसेवनं स्वीकृतवान्। द्विवारं एष बहिराकाशयात्रां व्यदधात्। प्रथमं जेमिनिव-१० इति दौत्ये द्वितीयं अप्पोलो-११ दौत्ये च।

कोविड् निवारकस्य मूल्यम्- स्वास्थ्यमन्त्रालयस्य विशदीकरणम्

नवदिल्ली- भारते वितीर्यमानानि कोविड् निवारकाणि प्रतिमात्रं १५० रूप्यकमूल्येन सिरम् इन्स्टिट्यूट् इति संस्थानात् क्रीणाति इति केन्द्रसर्वकारः व्यजिज्ञपत्। स्वास्थ्य-कुटुम्बक्षेम मन्त्रालयः ट्विट्टर् द्वारा शनिवासरे इदम् असूचयत्। एवं क्रीतानि निवारकाणि पूर्ववत् राज्येभ्यः विनामूल्यं वितरीतुम् उद्यमः इत्यपि असूचयत्।
पूणे नगरे स्थितस्य सिरम् इन्स्टिट्यूट् इति संस्थानं निजीयचिकित्सालयेभ्यः कोविड् निवारकं प्रतिमात्रं ६०० रूप्यकमूल्येन विक्रीणाति तत्तु आगोलतले उन्नतं मूल्यमिति आवेदनमासीत्। अतः स्वास्थ्यमन्त्रालयेन विशदीकरणं दत्तम्।

तृशूर् पुरोत्सव‌ः अस्मिन् वर्षे/पि आचाररूपेण आयोज्यते।

तिरुवनन्तपुरम्- कोविड् व्यापनस्य भूमिकायां तृशूर् पूरेत्सवः अस्मिन् वर्षे अपि केवलम् आचाररूपेण आयोजयिष्यति। जनानां प्रवेशः निरुद्धः। सर्वकारस्य मुख्यसचिवेन आयोजिते अधिवेशने एव अयं निर्णयो जात‌ः।

पूरायोजनार्थं मानदण्डः गतसप्ताहे निश्चितः आसीत्। तथापि अधुनातनसाहचर्यं सङ्कीर्णमजायत। तृशूर् मण्डले रोगबाधिाः अधिकाः दृश्यन्ते। परीक्षणे रोगबाधिताः २१ शतमितमतीताः। प्रतिदिनं सहस्राधिकाः जनाः रोगबाधिताः जाताः।

तिरुवम्पाटि पापमेक्काव् देवस्थाने अपि केवलमाचाररूपेण पूरमायोजयितुं सन्नद्धे जाते।

केरलमुख्यमन्त्री पिणरायि विजयन् वर्यः कोविड् रोगबाधितः अभवत्।

तिरुवनन्तपुरम्- मुख्यमन्त्रिण् पिणरायि विजयन् वर्ये कोविड् बाधा स्थिरीकृता। तस्मिन् रोगलक्षणं प्रकटं न वर्तते। तस्य पुत्री गतदिने रोगबाधिता असीत्। तदनन्तरं मुख्यमन्त्री सम्पर्कनिरोधे आसीत्। अद्य श्रवपरिशोधनायां तस्मिन् रोगबाधा स्थिरीकृता।

अधुना मुख्यमन्त्री स्वगृहे एव वर्तते। अचिरेण तं कोषिक्कोट् वैद्यकीयकलालयातुरालये नेष्यतीति श्रूयते।

एस्.एस्.एल्.सी, प्लस् -टु परीक्षाणां श्वः शुभारम्भः।

तिरुवनन्तपुरम्- केरलेषु  एस्.एस्.एल्.सी., प्लस्-टु परीक्षाणां शुभारम्भः एप्रिल् 8 दिनाङ्के भविष्यति। एप्रिल् षट्दिनाङ्कपर्यन्तं निर्वाचनज्वरे आसीत् केरलाः। इतः परं परीक्षाज्वरे भविष्यन्ति। नवलक्षपरिमितं छात्राः एव परीक्षार्थं सन्नद्धाः।

     एस्.एस्.एल्.सी. परीक्षा एप्रिल् 8तः 12 दिनाङ्कपर्यन्तं मध्याह्नादूर्ध्वं प्रचलिष्यति। एप्रिल् 15तः प्रातः काले प्रचलिष्यति। 29 दिनाङ्के परीक्षायाः पर्यवसानं भविता। प्लस् -टु वी.एच्यएस्सी परीक्षाः एप्रिल् 8तः 26 दिनाङ्कं यावत् प्रचलिष्यति। प्रातः 9.40 वादने एव एताः परीक्षाः।

संस्कृतं कृतकबुद्धिसङ्कल्पे अपि। खरग्पूर् भारतीय तान्त्रिक संस्थानस्य (IIT Kharagpur) अभिमानात्मिका उपलब्धिः।

11

खरगपुर् भारतीय तान्त्रिक संस्थाने गवेषकानाम् अभिमानात्मिका उपलब्धिः भवति कृतकबोधे संस्कृतभाषायाः स्थानम्। संस्कृतलिपीः ग्रन्थान् च अतिवेगम् अवगन्तुं आधुनिक सूचनासाङ्केतिकविद्यायाः सहयोगेन कृतकुद्धौ (Artificial Intelligence) संस्कृतस्यापि वाचनं कर्तुं उपाधीः अत्रत्याः गवेषकाः व्यकासयत्। डो. पवन् गोयल् वर्यस्य नेतृत्वे एव संस्कृतलिपीः सम्यगवगन्तुं योजनाः आयोजिताः। एषां परियोजनाः भाषाशास्त्रपत्रिकायां प्रकाशयिष्यति। परियोजनायाः विजय एव एतत् सूचयतीति गवेषकसंघः अवदत्।

पदानां विभजनं, पद्यात् गद्यं प्रति विवर्तनम् इत्यादीनि अनायासेन कर्तुं शक्यते। भाषणप्रत्यभिज्ञानं चोद्योत्तराणि च अस्य भागत्वेन सज्जीकरिष्यति।

संस्कृतकृतिषु विपुलाः इतिहासरचनाः दार्शनिकग्रन्थाः, शास्त्रग्रन्थाः साहित्यग्रन्थाः काव्यनाटकादीनि च अन्तर्भवन्ति। कृतकबुद्धेः साहाय्येन एतेषां विवर्तन् सुगमं भविष्यति। एतदर्थं सान्स्क्रीट् हेरिट्टेज् रीडर् इति तान्त्रिकोपकरणमेव उपयुज्यते।