Category Archives: News Updates

भूतपूर्वः मुख्यसचिवः सि-पि- नायर् वर्यः निर्यातः।

तिरुवनन्तपुरम्- केरलराज्यस्य मुख्यसचिवचरः तथा विख्यातः साहित्यकारश्च सि-पि- नायर् वर्यः दिवंगतः। स ८१ वयस्कः आसीत्। राज्यसर्वकारस्य विविधेषु प्रधानविभागेषु सचिवरूपेण कर्म कृतवानयम्। १९६२ वर्गे ऐ ए एस् पदवीं प्राप्तवानयम् बहुकालं यावत् अनन्तपुर्यां विश्रामजीवनं नयन्नासीत्।

प्रशासनपरिष्करणायोगः देवस्वम् आयुक्तः इत्यादि धुरामावहत्। सेवानुभवाः हास्यकथाश्चाभिव्याप्य नैकान् ग्रन्थान् रचितवानयम्।

वृत्तिकालं सम्पूर्णम् अत्याचारान् विरुध्य स्थितवानयम्। ओट्टप्पालम् उपमण्डलाधिकारिरूपेण सोवां प्रविष्टोयं मुख्यसचिवपदवीतः विरराम।

संस्कृतसप्ताहाचरणं- समापनसभा।

तृशूर्- तृशूर् मण्डलस्तरीय संस्कृतसप्ताहस्य समापनसभा २०२१ सेप्तम्बर् ३० दिनाङ्के सायं त्रिवादने सम्पन्ना। तृशूर् मण्डलस्य शिक्षा उपनिदेशकस्य टी वी मदनमोहनस्य आध्यक्ष्ये समायोजिता सभा केरल राजस्वविभागमन्त्रिणा के राजन् वर्येण उद्घाटिता। सार्वजनीनशिक्षानिदेशकः के जीवन् बाबु वर्यः मुख्यसन्देशं प्रास्तौत्।

संस्कृतविभागस्य विशेषाधिकारिणी डो टी डी सुनीतिदेवी वर्या संस्कृतदिनसन्देशं प्रस्तुतवती।

संस्कृतभारत्याः अखिलभारतीयशिक्षणप्रमुखः तथा केन्द्र-साहित्य-अक्कादमी पुरस्कारजेता च डो-एच्-आर्- बिश्वास् वर्यः मुख्यप्रभाषणं व्यदधात्।

समारोहेस्मिन् प्रतिकृतिः इति संस्कृतचलच्चित्रस्य नेपथ्यप्रवर्तकानां समादरणमपि सम्पन्नम्। चलचित्रस्य कथा पटकथा निदेशनादिकं निरूढवन्तं डो-निधीष् गोपीवर्यं प्रशस्तः गानरचयिता बी-के- हरिनारायणन् वर्यः समादरितवान्। तृशूर्, चावक्काट्, इरिङ्ङालक्कुटा शिक्षामण्डलाधिकारिणः तथा संस्कृतसमितेः राज्यस्तरीय कार्यदर्शिणः एस्-श्रीकुमारस्य च सान्निध्यमभवत्।

समारोहे तृशूर् मण्डलस्य उपमण्डलशिक्षाधिकारिणः आशंसामार्पयन्। श्री बिजू केडी स्वागतं श्री जीस् वर्गीस् कृतज्ञतां च व्याहरताम्।

जानपदसेवा परीक्षापरिणामः, शुभं कुमारः प्रथमश्रेणीमवाप्तवान्। षष्टश्रेणीं मीरा नामिका केरलीया अवाप

नवदिल्ली- जानपदसेवा परीक्षापरिणामः घोषितः। शुभं कुमारः प्रथमश्रेणीमवाप्तवान्। जागृति अवस्ती द्वितीयश्रेणीं तथा अङ्किता जयिन् तृतीयश्रेणीं च प्राप्तवत्यौ। तृशूर् देशीया के मीरा षष्टश्रेणीम् अवाप्तवती।आद्यतः षट्सु श्रेणिषु पञ्चश्रेण्यः वनिताः स्वायत्तीकृताः

७६१ परीक्षार्थिनः जानपदसेवायै योग्यतामवाप्ताः। एषु १६ केरलीयाः सन्ति।

द्वितीयस्तरछात्राः अपि नवागताः।८.०७ लक्षं छात्राः प्रथमतया विद्यालयं प्राप्नुवन्ति।

तिरुवनन्तपुरम्- नवम्बर् मासे विद्यालयेषु प्रवर्तमानेषु नवागतरूपेण ८०८८०२ छात्राः विद्यालयमागमिष्यति। अस्मिन् वर्षे प्रथमद्वितीयवर्गौ नवागतसूचिकायामेव परिगणयति। गतवर्षे एकदिनमपि विद्यालयेषु कक्ष्याः न प्रचलिताः। अत एव एते नवागता इति निर्णीताः।

गतवर्षे प्रथमवर्गे ३०२२८८ छात्राः प्रविष्टाः। अस्मिन् वर्षे तु ३०५४१४ छात्राः सन्ति। एते सार्वजनीनविद्यालयेषु प्रविष्टाः। निजीयविद्यालयेषु प्रविष्टानां संख्या अपि योजयते चेत् नवागतानां संख्या सार्धषट्लक्षमतिक्राम्यति। अस्मिन् वर्षे प्रथमकक्ष्यायां प्रविष्टानां संख्या इतः पर्यन्तं प्रविष्टसंख्यामपेक्ष्य उन्नता भवति।

२०१८-१९ वर्षादारभ्य एव सार्वजनीनविद्यालयेषु छात्राणां संख्या वर्धमाना दृश्यते।

केरलेषु विद्यालया‌ः नवम्बर् प्रथमदिनाङ्कादारभ्य पुनःप्रवर्तिष्यन्ते।

तिरुवनन्तपुरम्- केरलराज्ये काविड् भीत्या पिहिताः विद्यालयाः नवम्बर् प्रथमे दिनाङ्के पुनरुद्घाटयिष्यन्ति। सार्धैकवर्षानन्तरमेव एते प्रवर्तनसज्जाः भवन्ति। मुखियमन्त्रिणः पिणरायि विजयस्य आध्यक्ष्ये समायोजिते कोविड् अवलोकनाधिवेशने एवायं निर्णयो जातः।

विद्यालयानाम् उद्घाटनमनुबन्ध्य मार्गनिर्देशः, केषु केषु कक्ष्यासु अध्ययनम् आरभेत इत्यादि विषयेषु निर्णयः अनन्तरं भविता।

प्राथमिकस्तरे विद्यालयानां प्रवर्तनं न भविता इति सूचना विद्यते। नवमकक्ष्यायाः आरभ्य अध्ययनं भविता इति निर्णयः विद्यते।

लोचनम् -२०२१ अध्यापकशक्तीकरणकार्यक्रमः।

चालक्कुटि- चालक्कुटि संस्कृतम् अक्कादमिकसमितेः नेतृत्वे लेचनम् २०२१ इति शिक्षकप्रबलीकरणकार्यक्रमस्य उद्घाटनं सेप्तम्बर् १८ दिनाङ्के शनिवासरे समायोजितं वर्तते। प्रतिमासं विविधविषयानधिकृत्य प्रगद्भानां दश वर्गाः अस्यां प्रपाठावल्यां भविष्यन्ति। प्रथमवर्गः कालटि श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालये संस्कृतसाहित्य विभागाध्यक्षः डो वी आर् मुरलीधरवर्यः नेष्यति। केरलीयकलाः संस्कृतं च इति विषये एव वर्गः चालयति। इरिङ्ङालक्कुट शिक्षामण्डले अन्तर्भूतानां चालक्कुटि, माल, कोडुङ्ङल्लूर्, इरिङङालक्कुटा, उपमण्डलस्थानां एल् पी, यु पि, हैस्कूल् विभागशिक्षकाणां तथा संस्कृतप्रेमिणां च प्रयोजकरूपेणैव लोचनम् २०२१ क्रमीकृतम्। एतेभ्यः चतुर्भ्यः उपमण्डलेभ्यः सर्वे अध्यापक प्रथमवर्गादारभ्य अस्यां प्रपाठावल्यां भागं गृह्णन्तु इति इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्थः संस्कृतसमितेः कार्यदर्शी श्रीमान् बिजु के डि अभिवेदयति।

सर्वेच्चन्यायालयस्य निर्णयानन्तरं विद्यालयानां प्रवर्तनं कदा पुनरारभ्यते इति प्रख्यापनं भविष्यति।

तिरुवनन्तपुरम्- सर्वोच्चन्यायालयस्य निर्णयमनुसृत्य राज्ये विद्यालयानां प्रवर्तनतिथिः निर्णेष्यते इति केरलशिक्षामन्त्री वी शिवन् कुट्टिवर्यः अवदत्।

साङ्केतिकसमितेः अभिवेदनानुसारं विद्यालयानां प्रवर्तनाय अनुमतिरस्ति। अतः प्रवर्तनतिथिः मुख्यमन्त्रिणा प्रस्तोष्यते इत्यपि मन्त्री अवदत्। विद्यालयप्रवर्तनात् पूर्वं छात्रेभ्यो वाक्सिनदानस्य आवश्यकता नास्तीति विदग्धसमितेः सूचना अस्ति। छात्राणां प्रतिरोधशेषिरस्तीति कारणेवैवायं निर्णयः। परं राज्ये विद्यालयप्रवर्तनं विरुध्य कश्चन विभागः तिष्ठतीत्यपि तेन निगदितम्।

अध्यापन-अध्ययनप्रक्रियाः नवीकरणीयाः – प्रधानमन्त्री।

नवदिल्ली- अध्यापन-अध्ययनप्रक्रियाः कालानुसारं नवीक्रियन्ते चेत् एव राष्ट्रे शिक्षायाः श्रेष्ठता विश्वश्रेणीं प्राप्स्यति इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। परिवर्तनानि सहकारितया विवर्धनीयानि इति च शिक्षण् पर्व् इति दौत्यं वीडियो सम्मेलनद्वारा उद्घाटयन् प्रधानमन्त्री व्याहरत्। शिक्षाक्षेत्रे नवीनयोजनानां समारम्भरूपं दौत्यमस्ति शिक्षण् पर्व्।

भारतीय आङ्गिकभाषानिघण्डुः,(श्रवणपरिमितानां कृते)भाषमाणं पुस्तकम्(दर्शनपरिमितानां कृते) सी बी एस् इ मूल्यनिर्णय रूपरेखा, शिक्षकप्रशिक्षण कार्यक्रमः निष्ठा, विद्याञ्जलिः इति जालपुटः इत्यादीनां समारम्भमपि प्रधानमन्त्री निरवहत्।

उच्चतरविद्यालयीयाध्यापकानां संघः नवधारा शिॆक्षकदिने गुरुवन्दनं समायोजयत्।

तिरुवनन्तपुरम्- शिक्षकदिनाचरणस्य भागत्वेन उच्चतरविद्यालयीय शिक्षकाणां संघः नवधारा नामकः आधिजालिकं गुरुवन्दनम् समायोजयत्। सेप्तम्बर् ५ सायं सप्तवादने आयोजिते समारोहे डी जेयिस् वर्यः अध्यक्षः आसीत्। केरलीय शिक्षाविभागमन्त्री वी शिवन् कुट्टि वर्यः समारोहस्य उद्घाटनं निरवहत्।

प्रोफ वी माधवन् पिल्ला वर्यः समारोहे समादृतः अभवत्। राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डे जे प्रसाद् वर्यः मुख्यभाषणं व्यदधात्। डो पी नारायणन् नम्पूतिरिः, एन् के रामचन्द्रन् वी विजयन् , कृष्णशर्मा, जयमेहनगुरुक्कल्, वी श्रीकण्ठन्, एस् श्रीकुमार् प्रभृतयः आशंसाभाषणमकुर्वन्। स्टैजू, शालिनी,मञ्जू प्रभृतयः अध्यापकाः कार्यक्रमस्य प्रयेक्तारः आसन्। डो उल्लास् वर्येण स्वागतभाषणं तथा श्रीजित् वर्येण कृतज्ञतां च व्याचक्रतुः।

महाजनानां सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनाचरणं सुसम्पन्नं जातम्।।

इरिञ्ञालक्कुटा – महाजनानां गुरूणां च सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनं सुसम्पन्नं जातम्। कोटुङ्ङल्लूर् नियमसभासामाजिकेन श्रीमता वि. आर्. सुनिल्कुमार महोदयेन समुद्घाटिते सम्मेलने विद्याभ्यासजिल्लाधिकारी श्री एन्.डि. सुरेष् वर्यः अध्यक्षतां निरवहत्। विद्याभ्यासजिल्ला कार्यदर्शी श्री के.डि. बिजुः सर्वेभ्यो स्वागतमर्पयत्।  संस्कृतभारत्याः आगोलसंयोजकः श्री. पि. नन्दकुमारः विशिष्टभाषणं कृतवान्। प्रमुखचलनचित्राभिनेता श्री सुनिल् सुखदा वर्यः, राज्यस्तरीयसंस्कृत कौम्सिल् अध्यक्षः श्री एस्. श्रीकमारः च सन्निहितौ आस्ताम्।  चिन्मयासंस्थायाः प्रवर्तकः स्वामी शारदानन्दसरस्वतिवर्यः संस्कृतदिनसन्देशं प्रदत्तवान्।

प्रतिकृतिः इति नूतनसंस्कृतचलनचित्रस्य संविधायकः डो. निधीष् गोपि , निर्माता श्री प्रशान्तः च अस्मिन् सम्मेलने विशिष्टाभिनन्दनेन समादृतौ। एन्.एन्. रामः, एम्.वि. विवेकः, के.आर् रामचन्द्रः, पि.एस्. उण्णिकृष्णः, पि.पि. प्रतापन्, के. श्रीदेवी च भाषणमकुर्वन्। अभिनव् वि.जी, निरञ्जन् सजीव् नामकौ छात्रौ संस्कृतगानं आलपितवन्तौ।