Category Archives: News Updates

सार्धैकवर्षस्य विरामानन्तरम् अद्य छात्राः विद्यालयं प्रविशन्ति।

कोषिक्कोट्- सार्धैकवर्षं यावत् पिहिताः केरलीयविद्यालयाः अद्य केरलोत्पत्तिदिने सजीवतां प्राप्नुवन्ति। इदानीं साधारणव्यवहानाननपेक्ष्य जागरूकतायाः पाठोपि छात्रैः अध्यापकैश्च अनुशीलनीयो भवति। प्रतिपालनविरसतामवसीय उत्साहस्य आह्लादस्य च भावं बालकानां मनसि स्फुरितो दृश्यते। बालकेभ्यः नूतनानुभवान् प्रदातुं विद्यालयाः सज्जाः अभवन्। चित्रभित्तयः, अक्षरद्रुमाः, क्रीडाङ्कणानि, तोरणानि च छात्रान् प्रत्युद्गन्तुं सज्जरूपेण तिष्ठन्ति।

छात्रेभ्यः शिक्षकेभ्यश्च पृथक् मार्गनिर्देशाः सन्ति। शिक्षकाणां कृते प्रशिक्षणं सम्पूर्णमभवत्। कोविडनुभवानां विवरणात्मकानि भित्तिपत्राणि, पानीयजलस्य सूचना इत्यादिकम् अध्यापकैः सज्जीकृतम्।

प्रथमं वारद्वयं यावत् मध्याह्नपर्यन्तं कक्ष्या प्रचलिष्यति। सामान्यविरामभिन्नः शनिवासरोपि प्रवृत्तिदिनत्वेन परिगणितः। छात्रान् विविधगणान् कृत्वा कक्ष्या प्रचलति। प्रतिगणं दिनत्रयं अनुस्यूततया विद्यालयमागन्तुम् अनुमतिरस्ति।

भिन्नशेषियुक्ताः छात्राः प्रथमसत्रे विद्यालयं नागच्छेयुः। तेषां कृते अधिजालकक्ष्या प्रचलिष्यति। छात्राणां स्वास्थ्यसंरक्षणाय सर्वाणि कार्याणि शिक्षा-स्वास्थ्य-गृह-तद्देशप्रशासनविभागैः सम्भूय कृतानि वर्तन्ते।

फेस् बुक्क् इतः परं मेट्टा इति नाम्ना प्रवर्तिष्यते। नूतनसंघस्य नाम मार्क् सुक्कर् बर्ग् महाशय ख्यापितवान्।

मातृसंघस्य नाम परिवृत्य मेट्टा इति नाम्ना फेस् बुक्क् इतः परं वर्तिष्यते। अधुना उपयुज्यमानाः फेस् बुक्क्, इन्स्टाग्रां, वाट्साप् इत्यादिषु नामपरिवर्तनं न भवेदिति मुख्य़ निर्वाहकः मार्क् सक्करबुक्क् महाशयः निगदितवान्। संघस्य अभिज्ञा उत्पन्नेन सम्बद्धः इत्यतः फेस् बुक्क् प्रवर्तनानि सुरक्षितानि कर्तुम् इयं व्यवस्था आयोजिता।

अस्य उपयोगक्रमादिकं निरीक्ष्य दुरुपयोगः स्थगितुम् अनेन साध्यं भवति। विविधाः साङ्केतिकविद्याः एकस्मिन् चत्वरे आनेतुमेव उद्यमः इति सक्कर्बुर्ग् महाशयेन उक्तम्।

मुल्लप्पेरियार् सेतुबन्धे जलमानं १३८ पादपरिमितं कर्तुं तमिल् नाटु राज्यं सन्नद्धतां प्राकटयत्।

तिरुवनन्तपुरम्- मुल्लप्पेरियार् सेतुबन्धे जलमानं १३८ पादपरिमितं करिष्यतीति तमिल् नाटु राज्येन सम्मतिमदात् इति केरल-जलविभव विभागमन्त्री रोषी अगस्टिन् वर्यः प्राकथयत्। यदा सेतौ जलं १३८ पादपरिमितं प्राप्नोति तदा बहिःनिस्सरणिद्वारा जलं प्रवाहयितुं तमिल् नाटु राज्यं ह्यस्तने निरणयत् इत्यपि मन्त्री अवदत्।

सेतौ जलं १३७ पादपरिमितं कर्तव्यम् इत्यासीत् केरलस्य आवेदनम्। २०१८ तमे वर्षे सर्वोच्चन्यायालयेनापि सूचितं यत् सोतौ जलमानं १३९.९९ पागपरिमितं स्यादिति। अद्यतनीया अवस्था ततोपि गौरवतरा इति केरलेन सूचितम्। अतः सेतोः जलं यावच्छक्यं तमिल् नाटु राज्येन नेतव्यमिति अवलोकनाधिवेशने केरलेन आवेदितम्।

राज्यस्तरीयः चलच्चित्रपुरस्कारः घोषितः। जयसूर्यः श्रेष्ठ‌ः नटः, अन्ना बेन् श्रेष्ठा नटी।

तिरुवनन्तपुरम्- एकपञ्चाशत्तमः कैरलीयचलच्चित्रपुरस्काराः घोषिताः। वेल्लम्, द एस्सेन्ष्यल् ड्रिङ्क् इति चलच्चित्रयोः नायकः जयसूर्यः श्रेष्ठनटत्वेन चितः। कप्पेल इति चलच्चित्रे नायिका अन्ना बेन् श्रेष्ठा नटी इति पुरस्कृता।

ग्रेट् इन्ड्यन् किच्चण् उत्तमं चलच्चित्रम् इति घोषितम्। सिद्धार्थ् शिवः एन्निवर् इति चित्रद्वारा श्रेष्ठः निदेशकोभवत्।

श्रेष्ठः स्वभावनटः सुधीष्, स्वभावनटी श्रीरेखा, नवागतनिदेशकः मुहम्मद् मुस्तफा च। तिङ्कलाय़्च निश्चयम् इति चलच्चित्रं द्वितीयस्थानमवाप्तम्। बालनटः निरञ्जन्, बालनटी अरव्या शर्मा च भवति।
श्रेष्ठः पटकथाकारः जियो बेबी, गायिका नित्या मामन्, गायकः षहबास् अमन् च चितः।

विख्यातः कैरलीचलच्चित्रनटः नेटुमुटि वेणु वर्यः दिवमगात्।

तिरुवनन्तपुरम्- भारतीय चलच्चित्ररङ्गे लब्धप्रतिष्ठः नटः नेटुमुटि वेणु वर्य़ः निर्यातः। स ७३ वयस्कः आसीत्। तीव्रेण रोगेण अनन्तपुर्यां निजीयचिकित्सालये प्रवेशितः आसीत्।

पञ्चशताधिकेषु चलच्चित्रेषु विविधानि कथापात्राणि अनेन अनश्वराणि कृतानि। द्विवारं देशीयपुरस्कारं द्विवारं राज्यपुरस्कारं च अवाप्तवानयम्। न केवलम् अभिनेता अपि तु पटकथाकारः निदेशकः इत्यादिरूपेणापि चलच्चित्ररंगे स्वप्रतिभां प्रकटितवानयम्।

बेन्यामिन् महोदयाय वयलार् पुरस्कारः घोषितः।

तिरुवनन्तपुरम्- अस्मिन् वर्षे वयलार् रामवर्मा पुरस्काराय विख्यातः आख्यायिकाकारः बेन्यामिन् वर्यः चितः। मान्तलिरिले २० कम्यूणिस्ट् वर्षङ्ङल् इति नोवल् एव तं पुरस्काराय अर्हमकरोत्।

एकलक्षं रूप्यकाणि काचशिल्पश्च पुरस्कारे अन्तर्भवतः।

वयलार् रामवर्मा वर्यस्य चरमदिनभूते ओक्टोबर् १७ दिनाङ्के तिरुवनन्तपुरे आयोज्यमाने समारोहे पुरस्कारदानं निश्चितं भवति।

विद्यालयोद्घाटनसम्बन्धिनी मार्गरेखा सार्वजनीनशिक्षा–तथा स्वास्थ्यमन्त्रिभ्यां मुख्यमन्त्रिणे दत्ता।

तिरुवनन्तपुरम्- अध्यापकैः रक्षाकर्तृभिः छात्रैश्च पालनीयानां मानदण्डानां संक्षिप्तरूपं भवति एषा मार्गरेखा। सार्वजनीनशिक्षा सचिवः श्री ए पि एं मुहम्मद् हनीष् तथा सार्वजनीनशिक्षानिदेशकः डो जीवन् बाबू इत्येतौ सन्निहितावास्ताम्।

नवम्बर् प्रथमे दिने विद्यालयेषु उद्घाट्यमानेषु कोविड् सम्बन्धीनि निर्देशानि मार्गरेखायामन्तर्भवन्ति। विद्यालयेषु शुचिकर्म छात्राणां सुरक्षां च अधिकृत्य विविधेषु तलेषु आयोजनीयानाम् अधिवेशनानां विषयान् मार्गरेखायां प्रतिपादयति।

प्रथमसोपाने कक्ष्याः प्रातरेव क्रमीक्रियन्ते। छात्राणां संख्याक्रमीकरणाय छात्रान् विविधसङ्घान् करिष्यति। सर्वे अध्यापकाः अनध्यापकाश्च कोविड् वाक्सिनस्य मात्राद्वयमपि स्वीकुर्युः। विद्यालयतलेषु सहायकसंघम् आयोजयिष्यति। विशदां मार्गरेखाम् अचिरेण प्रकाशयिष्यति।

केरलेषु कलालयानां प्रवर्तनम् अद्य पुनरारभ्यते।

तिरुवनन्तपुरम्- कोविड् व्यापनं स्थगयितुं सार्धैकवर्षं यावत् पिहिताः कलालयाः पुनः प्रवर्तनसज्जाः जायन्ते। यद्यपि कोविड् व्यापनं नाकुञ्चितं तथापि बहुकालं यावत् कालालयानां पिधानं नोचितम् इति सर्वकारस्य निर्णयः एव कलालयानां पुनरनावरणे निदानमभवत्।

वृत्तिविषयककलालयानभिव्याप्य सर्वे कलालयाः इतः परं शनैः प्रवर्तनसज्जाः जायेरन्। आदौ अन्तिमवर्षछात्राणां कृते एव कक्ष्याः भविष्यन्ति। क्रमशः सर्वेषां छात्राणां कृते साधारणरीत्या कक्ष्या प्रचलिष्यति।

अध्यापकानां रक्षाकर्तृणां तथा छात्रसंघटनानां च सहकरणेन कलालयानां प्रवर्तनं भविष्यति। सुरक्षाकार्ये नितान्तजागरूकता जायेत।

संस्कृतं मानविकतायाः भाषा- महापौरा आर्या राजेन्द्रन्।

तिरुवनन्तपुरम्- तिरुवनन्तपुरं मण्डलस्तरीयं संस्कृतदिनाचरणम् उद्घाटयन्ती महापौरा आर्या राजेन्द्रन् वर्या अवोचत् यद् संस्कृतं मानविकतायाः भाषा इति। तया इदमपि निगदितं यत् सर्वासां संस्कृतीनां स्वीकारः केरलीयैः कृतः। तत्र विविधाः भाषाः स्वत्वरूपेण स्वीकृत्य केरलीयाः मातृभाषां पर्यपोषयन्। संसकृतद्वारा स्वायत्तीकृतान् मानविकतासन्देशान् सर्वेषु प्रचारयितुं अध्यापकाः शक्ताः भूयासुः इत्यपि तया निगदितम्।

एस् सी इ आर् टी निदेशकः डो जे प्रसाद् वर्यः मुख्यभाषणमकरोत्। शिक्षा उपनिदेशकः सन्तोष् वर्यः आध्यक्ष्यं व्यदधात्। सार्वजनीनशिक्षा निदेशकः के जीवन् बाबु वर्यः संस्कृतदिनसन्देशं व्याहरत्। डो टी डी सुनीतिदेवी मुख्यातिथिः आसीत्। श्री एस् श्रीकुमार्, मण्डलशिक्षाधिकारिणः श्री बाबू, के सियाद्, जे सिन्धू एते आशंसामर्पयन्।
बी सुनिल् कुमार् स्वागतम् सुचित्रा एस् नायर् कृतज्ञतां च व्याहरताम्। आशशंस।

संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति श्रीमती डोः टि डि सुनीतिदेवीमहाभागा।

*पालक्काट् :-संस्कृत अक्कादमिक संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृतमासाचरणसमापनसभा समायोजिता। संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति श्रीमती डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटनभाषणेऽब्रवीत् । संस्कृतकथनेनैव संस्कृतपठनस्य पाठनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवम् महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात् । अक्कादमिक कौण्सिल् राज्यस्तरीय कार्यदर्शी श्रीकुमार् महोदयः सन्देशमदात्।
संस्कृत पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दन महाशयः जनपद स्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।
पालक्काट् डि इ ओ श्रीमति राजम्मा महाशया , ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं, वरदागानं, श्रीदेवन् सि अष्टपदीं च आलप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः श्री एस् भास्करः महोदयः, श्रीमति स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः । १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।