Category Archives: News Updates
श्वः पूर्णं चन्द्रग्रहणम्, मन्दिराणि पिहितानि भवेयुः, सप्तसु जनपदेषु सागरक्षोभजाग्रता।
तिरुवनन्तपुरम्- श्वः सम्पूर्णचन्द्रग्रहणं, केरले तीरदेशेषु सागरक्षोभः भविता इति अवधाननिर्देशः। राज्यस्तरीयः दुरन्तनिवारणविभागे/पि अवधानतानिर्देशमदात्। अद्य आरभ्य फिब्रुवरी ३ पर्यन्तं कोल्लम् आलप्पुषा, कोच्ची, पोन्नानि, कोषिक्कोट् कण्णूर् कासरगोड् प्रदेशेषु सागरक्षोभसाध्यता अस्तीति जाग्रता निर्देशः
सम्पूर्णचन्द्रग्रहणकारणेन श्वः तिरुवितांकूर् देवस्वं बोर्ड् संस्थायाः अधीनतायां स्थितानि मन्दिराणि सायं ५.१३ तः रात्रौ ८.४३ पर्यन्तं पिहितानि भविष्यन्तीति बोर्ड् अधिकारिणः असूचयन्।
उच्चविद्यालयानाम् उच्चतरविद्यालयानां च एकीकरणं सर्वकारपरिगणनायाम् – मुख्यमन्त्री।
तिरुवनन्तपुरम् – राज्ये उच्चविद्यालयानाम् उच्चतरविद्यालयानां च सामान्यीकरणं प्रशासनस्य परिगणनाविषयः अस्तीति मुख्यमन्त्री पिणरायि विजयः अवदत्। उभयोः भरणसंविधानस्य एकीकरणमेव लक्ष्यमिति स विधानसभायां एकस्य प्रश्नस्य प्रतिवचनरूपेण उक्तवान्। विषये/स्मिन् उच्चतरविद्यालयीयानाम् अध्यापकानां मध्ये विप्रतिपत्तिः प्रवर्तते।
कलामण्डलं गीतानन्दः कलानुक्रममध्ये क्षीणितः सन् पतित्वा मृतः।
अविट्टत्तूर् – प्रशस्तः ओट्टन्तुल्लल् कलाकारः कलामण्डलं गीतानन्दः अविट्टत्तूर् देशे कलावतरणान्तरे क्षीणेन पतित्वा मृतः। रविवासरे रात्रौ ८ होरायां अविट्टत्तूर् महादेव मन्दिरोत्सवस्य पल्लिवेट्टा दिने ओट्टन् तुल्लल् प्रस्तुतीकरणमध्ये मुग्धः सन् पतति स्म। झटित्येव समीपस्थं पुल्लूर् मिषन् चिकित्सालयं नीतः। तावत् स सजीवः नासीत्, वैद्यैः तस्य मरणं स्थिरीकृतम्। हृदयाघात एव मरणकारणमिति प्राथमिकं निगमनम्
प्रधानमन्त्रिणः विदेशपर्यटनं फिब्रुवरी नवमे दिने आरभते।
संस्कृताध्यापकफेडरेषनस्य वार्षिकसम्मेलनम् – स्वागतसंघकार्यालयः उद्घाटितः।
कासरगोड् – फेब्रुवरिमासस्य २२,२३ दिनाङ्कयोः कासरगोड् जिल्लायां प्रचाल्यमानस्य संस्कृताध्यापकफेडरेषन् वार्षिकसम्मेलनस्य स्वागतसंघकार्यालयः उद्घाटितः। कासरगोड् पत्रिकासंघस्य अध्यक्षः टि.ए षाफिः उद्घाटकः आसीत्। संघाटकसमितेः अध्यक्षः ऐ.वि. भट्ट् महोदयः अध्यक्षपदवीमावहत्। पि.एन. मधुसूदनः, ऱाषिद् पूरणम्, गणेष् कुमार्, नीलमना शङ्करन् नम्पूतिरिः, षिजु एम्.टि, सुनिलकुमार् प्रभृतयः भाषणमकुर्वन्।
कुत्र उपविशतीति विषयः मां न पीडयति – रूक्षविमर्शनेन सह राहुल् गान्धी।
गणतन्त्रदिनाघोषे सेनाविन्यासकार्यक्रमान्वीक्षितुं वेदिकायाः पश्चाद्भागे आसन्दः लब्धः इत्यस्मिन् विषये न को/पि परिदेवनं नास्तीति कोण्ग्रेस् दलाध्यक्षः तथा विपक्षिदलनेता राहुल् गान्धी वर्यः अवदत्। कार्यक्रमान् विक्षितुं पष्ठपङ्क्तौ एव राहुल् वर्याय आसन्दः कल्पितः। एतदनुबन्ध्य विवादः उन्नीतः आसीत्। ततः एव “कुत्र उपविशतीति कार्यं मां न पराभवति ” इति प्रस्तावनया सह राहुल् गान्धी आगतवान्।एन्.डी.टी.वीं प्रति आसीत् राहुलस्य प्रस्तावः। गणतन्त्रदिनाघोषे राज्यसभायाः कोण्ग्रेस् दलाध्यक्षेण गुलां नबी आसादेन साकं षष्ठ्यां पङ्क्त्यामेव राहुलस्य आसन्दः कल्पितः आसीत्।
महाराष्ट्रा राज्य़े लोकयानदुर्घटना, १२ जनाः मारिताः।
पूणे – महाराष्ट्रा राज्ये पञ्चगङ्गानद्यां लोकयानं पतित्वा १२ जनाः मृताः। रुग्णानामवस्था गुरुतरा भवति। ते समीपस्थं चिकित्सालयं नीताः। बस् याने १७ यात्रिकाः आसन्।
पश्चिममहाराष्ट्रायां कोल्हापुरे शुक्रवासरे रात्रौ आसीत् दुर्घटना। बस् याने शिवाजिसेतौ प्राप्ते चालकेन नियन्त्रणं विनष्टम्। पूणे बलेवाडि देशस्थाः आसीत् यात्रिकाः। एते पूणे गणपतिपुलं प्रति प्रस्थिताः आसन्। चालकस्य निद्रावत्वमेव दुर्घटनायाः कारणमित्यनुमन्यते।
स्वास्थ्य,भवननिर्माणरङ्गे केरलराज्यम् आदर्शभूतम् – राज्यपालः।
तिरुवनन्तपुरम् – स्वास्थ्यरङ्गे भवननिर्माणरङ्गे च केरलराज्यम् इतरेषां राज्यानाम् मातृका भवतीति राज्यपालः पी. सदाशिवंवर्यः अवदत्। गणतन्त्रदिवसमालक्ष्य अनन्तपुरे सचिवालयक्रीडाङ्गणे ध्वजारोहणानन्तरं सेनाविन्यासम् अभिसम्बोधयन् भाषमाण आसीदयम्। केरलप्रशासनं विकसनकार्ये/पि इतरेषाम् आदर्शभूतमित्यपि स न्यगादीत्।
राजनैतिकः धार्मिको वा विद्वेषः तथा आतङ्कवादश्च प्रजातन्त्रे न हि भूयात्। दरिद्रराष्ट्रम् इत्यवस्थातः प्रगतेः सोपानमारुरोह भारतम्। दारिद्र्यम् उन्मूलयितुं श्रम एव अधुना प्रचलति। भक्ष्योत्पादनरङ्गे भारतम् विश्वस्य मातृका इति राज्यपालः समसूचयत्।
पद्मपुरस्काराः प्रख्यापिताः। केरलात् चत्वारः पुरस्कृताः।
नवदिल्ली – २०१८ वर्षस्य पद्मपुरस्काराः प्रख्यापिताः। केरलराज्यात् पद्मपुरस्काराय चत्वारः चिताः। वितुरा देशीया लक्ष्मिक्कुट्टियम्मा ग्रामीणवैद्यविभागे पद्मश्री पुरस्कारेण आदृता, तथा सान्त्वनचिकित्सायां एम्. आर्. राजगोपालश्च पद्मश्रीपुरस्कृतः।
पद्मभूषण् पुरस्काराय डो. फिलिप्पोस् मोर् क्रिस्टोस्टं वर्यः चितः मार् तोमा क्रिस्तीयसभायाः वरिष्ठः मेत्रापोलीता भवत्ययम्। भारते बहुकालम् अधिपौरोहित्ये स्थितः अयं १०१ वयस्कःभवति।
पद्मविभूषण् पुरस्काराय भारतीयनिचारकेन्द्रं स्थापकः श्री. पी. परमेश्वरः चितः। अधुना अस्य केन्द्रस्य निदेशकः भवत्ययम्।
गणतन्त्रदिवसाघोषः- ध्वजारोहणं कर्तुं मोहन् भगवत् वर्यः अद्य केरलमायाति।
नवदिल्ली- राष्ट्रिय-स्वयंसेवक-संघस्य सर् संघसञ्चालकः मोहन् भगवत् वर्यः अद्य सायं सार्धसप्तवादने कोच्ची विमानपत्तनं प्राप्स्यति। ततः रथ्याद्वारा रात्रौ पालक्काट् नगरं च प्राप्स्यति। २६,२७,२८ दिनाङ्केषु कल्लेक्काट् आयोज्यमाने संघप्रवर्तकशिबिरे भगवत् भागं भजिष्यति। २६ तमे दिने ध्वजारोहणमपि स करिष्यति।
अस्मिन्नन्तरे राष्ट्रियध्वजारोहणविषये केरलसर्वकारः नूतनं विज्ञापनम् आनयत्। गणतन्त्रदिवसाघोषमालक्ष्य एव विज्ञापनम्। विद्यालयेषु अन्यासु संस्थासु च तत्तन्मेधाविन एव ध्वजारोहणं कर्तुमर्हन्ति इति विज्ञापने विशेषपरामर्शः अस्ति।












