Category Archives: News Updates

पातिरप्पल्लि देशे भोज्यार्थं को/पि स्तेयं न कुर्यात्। तोमस् ऐसक् वर्यस्य नेतृत्वे निश्शुल्कं भोज्यम्।

आलप्पुषा-बुभुक्षापीडया कश्चन वनवासी भोज्यानि मुषितवान् इति कारणेन स सामान्यजनैः मारितःइति वार्ता केरलेषु चर्चाविषयः आसीत्। एषा घटना नावर्तनीया इति मत्वा पातिरप्पल्लिदेशे एका भोजनशाला आरब्धा। चतुर्विभवसमृद्धं भोज्यं भुक्त्वा धनप्रदानार्थं गच्छति चेत् तत्र धस्वीकाराय को/पि न भवेत्। धनमस्ति चेत् तत्र स्थापिते स्फाटिके पात्रे निक्षेप्तुं शक्यते। नो चेत् धनं विना अपि भोजनं लभेत। एतादृशं भोजनालयमारभ्य दारिद्र्यनिर्मार्जनार्थं प्रयतमानः भवति अस्माकं वित्तमन्त्री डो. टी.एम्. तोमस् ऐसक् वर्यः। भोजनालयस्य प्रवर्तनम् अद्य आरब्धम्।

अनन्तपुर्यां टेक्नोपार्क् मध्ये अग्निबाधा।

कषक्कूट्टम् – टेक्नोपार्क संस्थायां बृहती अग्निबाधा। द्वितीयघट्टस्थे गंगाप्रासादे द्वितीयसोपानस्थे आर्. एम्. एडुक्केषनल् सोलूषन् स्स्था मध्ये एव अग्निबाधा जाता। शौचालयसमीपस्थे मालिन्यभणडारे प्रथमम् अग्निः बाधिता। पुनः अग्निः सर्वत्र व्याप्ता। अग्निसेनासंघः तुरमागत्य अग्निं निरवाप। अनेन महादुरन्तः अपगतः। संस्थायाः विरामत्वात् त्रिंशत्परिमिताः कर्मकराः एव तत्रासन्। को/पि न रुग्णः जातः।

अमेरिक्कायां भारतवंशीयाय शास्त्रज्ञाय सार्धसप्तकोटिरूप्यकाणां पुरस्कारः।

टेक्सास्- भारतीयवंशजाय नवीन् वरदराज इति शास्त्रज्ञाय अमेरिक्कायाम् अर्बुदचिकित्सासम्बन्धिनः प्रबन्धस्य कृते ११ लक्षं डोलर् मूल्यकः पुरस्कारः प्रख्यापितः। टेक्सास् कान्सर् प्रिवन्षन् आन्ट् रिसर्च इन्स्टिट्यूट् इति संस्थया पुरस्कारः प्रख्यापितः। तस्मादृते सङ्क्यूङ् चुङ् इति शास्त्रज्ञो/पि पुरस्कृतः। नवीन् वरदराजाय ११७३४२० डोलर्- माकिं ७.६५ कोटि रूप्यकाणि- पुरस्कारत्वेन दीयते। हूस्टण् विश्वविद्यालये केमिक्कल् आन्ट् बयो मोलिक्यूलेर्स इन्जिनीयरिङ् विभागे उपप्राध्यापकः भवति नवीन् वरदराजः।

अनुरक्तिः – संस्कृतचलचित्रस्य प्रदर्शनं मार्च् चतुर्थे दिने तृशूर् नगरे।

तृशूर्- सामाजिककथामवलम्ब्य संस्कृतभाषायां रचितं चलच्चित्रं मार्च् ४ दिनाङ्गे तृशिवपुरे प्रदर्शयिष्यति। व्यावहारिकरीत्या संस्कृतभाषा अस्मिन् चलच्चित्रे प्रयुक्ता संस्कृतभाषायाः शास्त्रीयता परिरक्षिता च। पुरातनस्य संस्कृतकलारुपस्य कूटियाट्टस्य पश्चात्तले केरलीया प्रकृतिमनोहारिता च अस्मिन् सम्यग् योजिताः। प्रसिद्धानां कलाकाराणां साङ्केतिकविदग्दानां तथा संस्कृतप्रेमिणां च निरन्तरप्रयत्नस्य फलमेवेदं चित्रम्। ततोप्यधिकं संस्कृतभाषा नूतनानां साङ्केतिकविद्यानामपि अनुरूपा इति विलम्बरम् अनेन चलच्चित्रेण साध्यं भवति।

काञ्ची कामकोटिमठाधिपतिः स्वामी जयेन्द्रसरस्वती समाधिमाप्तः।

चेन्नै- काञ्ची मठाधिपतिः स्वामी जयेन्द्रसरस्वती दिवङ्गतः। काञ्चीपुरस्थे चिकित्सालये अद्य प्रातः आसीदन्त्यम्। श्वासकोशसम्बन्धः आमय एव निर्याणकारणम्। गतमासे १५ तमे दिनाङ्के स्वामी चिकित्सालयं नीतः । काञ्चीपुरस्थः ६९ तमः शङ्कराचार्यगुरुः आसीत् जयेन्द्रसरस्वती। १९३५ तमे वर्षे आसीदस्य जननम्। एको न विंशे वयसि सन्यासं स्वीचकार। १९५४ मार्च २२ दिनाङ्के काञ्चीस्थे मुक्तिमण्डपे स गुरोः मन्त्रदीक्षां स्वीचकार। आदिशङ्करस्यानन्तरं कैलासं मानससरोवरं च सन्दृष्टः काञ्चीमठाधिपतिः भवति जयेन्द्रसरस्वती स्वामी। १९७० तमे वर्षे काञ्चीतः पद्भ्याम् अटन् नेप्पाल् पर्यन्तं गतवानासीत्।

गौरी नेहायाः आत्महत्या, ट्रिनिट्टी लैसियं विद्यालयस्य अङ्गीकारं प्रत्याहरति।

कोल्लम्- कोल्लं ट्रिनिट्टी विद्यालयस्य प्रवर्तनानुमतिं प्रत्याहर्तुं शिक्षाविभागाधिकारिणा सर्वकाराय सूचना दत्ता। पूर्वमेव विद्यालयस्य विरोधरहितपत्रं(एन्.ओ.सी.) निरासयितुं शिक्षाविभागस्य कोल्लम् उपनिदेशिकया सूचना दत्ता आसीत्। विद्यालयस्था दशमकक्ष्याछात्रा गौरी नेहा नामिका गतमासे आत्माहूतिं कृतवती आसीत्। आध्यापिकानां पीडनमेव आत्महत्याकारणमिति आक्षेपः प्राचलच्च। शिक्षाधिकारिभि‌ः कृते अन्वेषणे स्थितिं विज्ञाय एव एषा प्रवृत्तिः। एतदनुसारम् आगामिनि अध्ययनवर्षादारभ्य विद्यालयस्य प्रवर्तनम् असाध्यं भवेत्।

यात्रिकाणाम् आश्रयाय स्वास्थ्यविभागस्य “मार्गदर्शक” पद्धतिः।

तिरुवनन्तपुरम्- यात्रिकाणां कृते आपत्कालिकवैद्यसाहाय्यार्थं केरलीय स्वास्थ्यविभागस्य नूतनी पद्धतिः भवति वषिकाट्टी(मार्गदर्शकः)। अपघते पतितानां तथा झटिति देहास्वास्थ्यमनुभूयमानानां च कृते प्रथमशुश्रूषां विधाय तेषां जीवरक्षणमेव पद्धतेः लक्ष्यम्।

     षट्सु जनपदेष्वेव प्रथमघट्टे पद्धतिः आरभते। स्वास्थ्यविभागः राष्ट्रिय-नगरारोग्यदौत्यस्य सहकारितया एव यात्रिकाणां कृते निश्शुल्कवैद्यसाहाय्यार्थं पद्धतिं याथार्थ्यं करोति। दीर्घदूरयात्रिकान् प्रादेशिकजनविभांश्च उद्दिश्य आसूत्रिता इयं पद्धतिः आपद्घट्टे एतादृशानां साहाय्यं विधास्यति।

     राज्यस्थेषु बस् निस्थानेषु रेल् निलयेषु एषां सेवनं लभेत। श्वः सायं अनन्तपुर्यां राज्यपरिवहणनिगमस्य बस् निस्थानस्थे मार्गदर्शककेन्द्रे राज्यस्तरीयम् उद्घाटनं केरल स्वास्थ्यमन्त्री के.के.शैलजा विधास्यति।

विख्याता चलचित्राभिनेत्री श्रीदेवी अन्तरगात्।

मुम्बै- बोलिवुड् अभिनेत्री श्रीदेवी दिवंगता। सा ५४ वयस्का आसीत्। शनिवासरे रात्रौ दुबाय् राष्ट्रे हृदयाघातेन आसीदन्त्यम्।

     मलयालं, तमिल्, तेलुगु, कन्नटा, हिन्दी प्रभृतिषु भाषासु सा अभिनेत्री आसीत्। शताधिकेषु चलचित्रेषु अभिनीय भारतस्य लेडी सूप्पर् स्टार् पदवीमारूढा श्रीदेवी १९७१ तमे वर्षे पूम्पाट्टा इति कैरलीचलचित्रे बालताररूपेण चलचित्रमण्डलमागता आसीत्। सा २६ मलयालचलचित्रेषु नायिका आसीत्।

     १९९७ तमे वर्षे अभिनयरंगात् विरम्य कञ्चित्कालम् अतिष्ठत्। पुनः २०१२ तमे वर्षे इङ्गीष् विङ्ग्लीष् इति चित्रद्वारा पुनः रङ्गं प्राविशत्। २०१७ तमे वर्षे/पि सा अभिनयरङ्गे निरता आसीत्। अस्याः भौतिकं देहम् अद्य मुम्बै नगरमानेष्यति।

नववाणी जालपुटस्य समादरः।

कासरगोड्- संस्कृताध्यापकफेटरेषन् इति सङ्घस्य राज्यस्तरीयाधिवेशने संस्कृतस्य आधुनिकीकरणप्रवृत्तानां महभागानां समादरः अभवत्। नववाणी जालपुटं, मोबैल् आप् इत्येतयोः समायोजकः सी.वी. जोस्, युवसंस्कृतपण्डितः तथा कविश्च हरिप्रसाद् कटम्पूर्, सम्प्रतिवार्ता इति जालपुटपत्रिकायाः मुख्यसम्पादकः हरिकुमार् अय्यम्पुषा इत्येते महाभागाः समारोहवेदिकायां पुरस्कारदानेन सह समादृताः।सङ्धस्यास्य द्विदिवसीयम् अधिवेशनं शनिवासरे समाप्तिमेष्यति।

भारतीयसंस्कृतिभण्डागारस्य कुञ्जिका भवति संस्कृतम् – चन्द्रशेखरः, आयविभागमन्त्री।

कासरगोड्- भारतीयसंस्कृतिभणडागारस्य कुञ्जिका भवति संस्कृतभाषा इति केरल आयविभागमन्त्री श्री. के चन्द्रशेखरवर्यः अवदत्। केरलसंस्कृताध्यापकफेडरेषन् इति सङ्ंघस्य वार्षिकम् अधिवेशन् कासरगोड् नगरे उद्घाटनं कुर्वन् भाषमाणः आसीत् मन्त्री। आराष्ट्रं भारतीयानाम् अभिमानभूतं भवति संस्कृतम्। अपि च भारतसंस्कृतेः चिह्नं भवतीयं भाषा। संस्कृतं विशेषभिभागानां भाषेति भणितिः अबद्धमूलिका भवति। सेदरभाषाः अपि स्नायत्तीकर्तुं वयं सिद्धाः भवेम। सर्वेपि संस्कृतभाषानिधीः लभेयुः। तदर्थं प्राथमिकतले अध्यापकनियुक्तिः भवेत् इति अभ्यर्थना सर्वकारः सानुभावं परिगणयिष्यति इत्यपि मन्त्री अवदत्। नियमसभा सामाजिकः एन्. ए. नेल्लिक्कुन्न् अध्यक्षः आसीत्।