Daily Archives: May 30, 2024

हिमालयसानुषु संस्कृतालेखितः ध्वजः आरोपितः।

तृशूर्- केन्द्रीय-संस्कृतसर्वकलाशालायाः गुरुवायूर् परिसरस्थाः छात्राः संस्कृतवाक्यानि आलेखितं ध्वजं हिमालयस्य अधित्यकायाम् समारोपयन्। संस्कृतसर्वकलाशालया आयोजिते हिमालय-चन्द्रखनि साहसिकयात्राशिबिरे गुरुवायूर् परिसरस्य प्रतिनिधिरूपेण भागं गृहीत्वैव ज्योतिषे स्नातकोत्तरकक्ष्याछात्रः रतीष् मोहनः तथा साहित्यविभागे स्नातकोत्तरकक्ष्याछात्रः के-एस्-गोकुल् च पञ्चदिवसीयया यात्रया १२१९० पादोन्नतायां चन्द्रखन्यां देवात्मा हिमालयः भारतात्मा संस्कृतम् इत्यालेखितं ध्वजम् आरोपयामासतुः।

प्रथमे दिने सर्वकलाशालायाः कुलपतिरेव यात्रार्थं पताकावहं कृतवान्। कायिकक्षमतानुसारमेव शिबिरे छात्राणां चयनं जातम्। ते सप्त होरापर्यन्तं साहसिकयात्रां कृत्वैव तौ चन्द्रखनिं प्रापतुः।