Monthly Archives: April 2024

अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः 2024 घोषितः ।

प्रसिद्ध संस्कृत भाषापण्डितः विवर्तकः तथा संस्कृताध्यापक श्चासीत् श्री अशोकन्पुरनाट्टुकरा महोदय : । तस्य स्मरणार्थं समायोजितः पुरस्कार अस्मिन् वर्ष डा टि श्रीकुमाराय समर् प्यते । नैकेषां ग्रन्थानां रचयिता आयुर्वेदभिषग्वर : च भवति श्रीकुमारः । इदानी मण्णुत्ति हरिश्री आयुर्वेद भवनस्य निदेशकत्वेन प्रवर्तमानः वर्तते ।

डो वि के विजयस्य ( गुरुवायूरु देवस्वाध्यक्ष:) आध्यक्ष्ये प्रवर्तमानायां पुरस्कारसमित्यां श्री एन् राजगोपाल : ‘ डा एस् एन् महेष् बाबुच अड्गे भवतः । एकादशोत्तर एक शताधिक एकादश सहस्र रुप्यकाणि ( १११११) प्रशस्ति पत्रं फलकञ्च भवति पुरस्कारस्वरूपम् । २०२ ४ मेय् मासस्य नवमे दिने पञ्च वादने तृश्शुरू साहित्यअक्कादमी मन्दिरे वैलोप्पिल्लि सभायां पुरस्कार : समर्पित : भवेत् । सर्वेषां भाषा प्रणयिनां सज्जनानां सन्निधिं सम्प्रार्थये ।

 समित्या :कृते
एन् राजगोपालन् ।

: तृशशूर ।

स्नानं तापविनाशकम् (भागः ३३७) 04-05-2024

EPISODE – 337

नूतना समस्या –

“स्नानं तापविनाशकम्”

प्रथमस्थानम्

“तैलाभ्यङ्गसमं यत्र
स्वल्पवस्त्रेण सत्कृतम् ।
जलधौ वा तटिन्यां वा
स्नानं तापविनाशकम्” ॥

Sridevi

“अभिनन्दनानि”

 

दलमेकं हि जेष्यति (भागः ३३६) 27-04-2024

EPISODE – 336

नूतना समस्या –

“दलमेकं हि जेष्यति”

प्रथमस्थानम्

“ദലാനി സന്തി നൈകാനി
സ്പർധന്തേ ഹി പരസ്പരം
വിജാനീയാദിതം സത്യം
ദലമേകം ഹി ജേഷ്യതി

Atheetha

“अभिनन्दनानि”

 

तपनस्तप्यते भृशम् (भागः ३३५) 20-04-2024

EPISODE – 335

नूतना समस्या –

“तपनस्तप्यते भृशम्”

प्रथमस्थानम्

“ജലസ്രോതാംസി ശുഷ്കാണി
നിരാർദ്രാ മേദിനീ ഹതാ
ഹരിതാഭാ തിരോഭൂതാ
തപനസ്തപ്യതേ ഭൃശം”

Aparna

“അഭിനന്ദനങ്ങൾ”

 

कर्णिकारो विराजते (भागः ३३४)13-04-2024

EPISODE – 334

नूतना समस्या –

“कर्णिकारो विराजते”

പ്രഥമസ്ഥാനം

“നാനാവർണപ്രസൂനേഷു
സൗവർണാഭസ്സുദർശന:
സന്തോഷദായകസ്സുഷ്ടു
കർണികാരോ വിരാജതേ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

पिब भूरि जलं सखे (भागः ३३३) 06-04-2024

EPISODE – 333

नूतना समस्या –

“पिब भूरि जलं सखे”

प्रथमस्थानम्

“ആയുർവേദസ്യ ദൃഷ്ട്യാ തു
വാരി ഭൂരിസുഖപ്രദം
അനുസന്ധേയമിദം വാക്യം
പിബ ഭൂരി ജലം സഖേ !”

Swathi Kishore

“അഭിനന്ദനങ്ങൾ”