Monthly Archives: June 2023

पिब शुद्धं जलं सखे (भागः २९3) 01-07-2023

EPISODE – 293

नूतना समस्या –

“पिब शुद्धं जलं सखे”

പ്രഥമസ്ഥാനം

“പ്രായേണ സർവ്വ രോഗാണാം
കാരണം മലിനം ജലം
പ്രാണവായു സമം ശക്തം
പിബ ശുദ്ധം ജലം സഖേ !”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

टैट्टन् दौत्यं दुरन्ते पर्यवसितम्। पेटकस्थाः पञ्च जनाः मृताः इति निगमनम्।

बोस्टण्- शतकात् पूर्वं सागरे निमग्नस्य टैटानिक् इति पोतस्य अवशिष्टं द्रष्टुं पञ्च नाविकैः साकं गतस्य टैट्टन् इति जलपेटकस्य यात्रा दुरन्ते पर्यवसिता इति स्थिरीक्रियते। पेटकस्थाः पञ्च अपि जनाः मृताः इति यु एस् तीरसंरक्षणसेना असूचयत्।

सागरान्तर्भागे सञ्जातेन तीव्रमर्देन पेटकं भग्नं स्यात् इति सेनायाः निहमनम्। दुरन्तोयं स्फोटनसमानमासीदिति संसूत्यते।

योगविद्यायां प्रागल्भ्यमावहति कश्चन संस्कृताध्यापकः।

कोटकरा- योगविद्यायां स्वकीयं प्रतिभां प्रकटयति प्रशान्त् पि नायर् नामकः अध्यापकः। आलूर् राजर्षि-स्मारक-उच्चतरविद्यालये संस्कृताध्यापको भवत्ययम्। तृशूर् माटक्कत्तरदेशीयोयं प्रतिभाधनः दशमवयसः यावत् योगाभ्यासाध्ययने निरतः आसीत्। पुरनाट्टुकर बाबा रांदेव्, अशोकन् गुरुक्कल् इत्येतयोः सकाशादेव स प्राथमकियोगशिक्षामवाप।

योगविद्याप्रचारणस्य भागत्वेन फ्लाष् योग इति दौत्येन सह स गतेषु द्वादशवर्षेषु योगविद्यां प्रचारयति। बहूनां युवकानां कृते निश्शुल्कयोगप्रशिक्षणम् अनेन विधीयते। कलरिप्पयट् इति आयोधनकलायामपि स निष्णातः भवति। यथाशक्ति जनानां कृते निःशुल्क योगप्रशिक्षणं करणीयमिति अस्य मनेरथः अस्ति।

योगस्तु सौख्यदायकः (भागः २९२) 24-06-2023

EPISODE – 292

नूतना समस्या –

“योगस्तु सौख्यदायकः”

പ്രഥമസ്ഥാനം

“രോഗസ്യ വാരണം കൃത്വാ
യോഗോ യച്ഛതി നിർവൃതിം
തസ്മാദാചര യോഗം ഭോഃ
യോഗസ്തു സൗഖ്യദായകഃ”

Swathy Kishore

“അഭിനന്ദനങ്ങൾ”

 

सम्पूर्ण प्लस् मोबैल् आप् सज्जमभवत्। उपस्थित्यवस्थातः प्रगतिप्रतिवेदनं यावत् सर्वमपि सन्ति।

तिरुवनन्तपुरम्- केरलेषु विद्यालये अध्ययनकार्यैः सम्बद्धं मोबैल् आप् सम्पूर्ण प्लस् इत्याख्यं प्रवर्तनसज्जमभवत्। अद्य सायं पञ्चवादने शिक्षामन्त्रिणा शिवन् कुट्टि वर्येण योजनेयम् उद्घाटिता।

राज्ये ५० लक्षपरिमितानां छात्राणाम् अध्ययनप्रगतिः(मार्गदर्शकसमर्थनम्) प्रगतिप्रतिवेदनम् इत्यादीनाम् अङ्कनं, रक्षाकर्तृभिः सह आशयविनिमयश्च सुगमतया निर्वोढुमेव कैट् संस्थया सम्पूर्णा प्लस् मोबैल् आप् सज्जीकृता।

वर्षाकालो∫यमागतः(भागः २९१) – 17-06-2023

EPISODE – 291

नूतना समस्या –

“वर्षाकालो∫यमागतः”

പ്രഥമസ്ഥാനം

“അത്യുഷ്ണസ്യ വിനാശായ
ലോകാനാം രക്ഷണായ ച |
വിധേര്‍ഹിതാനുസാരേണ
വര്‍ഷകാലോഽയമാഗതഃ “||

Harigovindan E

“അഭിനന്ദനങ്ങൾ”

 

आर्तास्ते मल्लयुद्धकाः(भागः २९०) – 10-06-2023

EPISODE – 290

नूतना समस्या –

“आर्तास्ते मल्लयुद्धकाः”

പ്രഥമസ്ഥാനം

पीडिताः बहुशो नित्यं
कामकिङ्करराक्षसैः ।
याचन्ते तु दयामद्य
आर्तास्ते मल्लयुद्धका : ॥

Sridevi

“അഭിനന്ദനങ്ങൾ”

 

पाठपुस्तके वृष्टिसम्बन्धी प्रचारः अलीकः इति शिक्षाविभागमन्त्री।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागस्याधीने एस्-सि-इ-आर्-टि- संस्थया सज्जीकृतं पाठपुस्तकम् इति रूपेण वृष्टिविषये प्रचारितं भागम् असत्यमेवेति केरलीय शिक्षामन्त्री वि शिवन् कुट्टि वर्यः अवदत्। एतत् सङ्घपरिवारस्य अलीकप्रचारणमेव। सार्वजनीनशिक्षाविभागे कस्याञ्चिदपि कक्ष्यायाम् एतादृशं पाठपुस्तकं न प्रकाशितम्। केरलीयविद्यालयेषु २०१३ वर्षादारभ्य इतः पर्यन्तं पाठपुस्तकं न परिष्कृतम्।

केरलस्य पाठपुस्तकम् इति नाम्ना समाजमाध्यमद्वारा असत्यं प्रचाल्य समाजे जातीय-वंशीयविद्वेषं जनयितुं यः प्रयतते स नियमानुसारं शिक्षामर्हतीत्यपि मन्त्रिणा निगदितम्।