पाठपुस्तके वृष्टिसम्बन्धी प्रचारः अलीकः इति शिक्षाविभागमन्त्री।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागस्याधीने एस्-सि-इ-आर्-टि- संस्थया सज्जीकृतं पाठपुस्तकम् इति रूपेण वृष्टिविषये प्रचारितं भागम् असत्यमेवेति केरलीय शिक्षामन्त्री वि शिवन् कुट्टि वर्यः अवदत्। एतत् सङ्घपरिवारस्य अलीकप्रचारणमेव। सार्वजनीनशिक्षाविभागे कस्याञ्चिदपि कक्ष्यायाम् एतादृशं पाठपुस्तकं न प्रकाशितम्। केरलीयविद्यालयेषु २०१३ वर्षादारभ्य इतः पर्यन्तं पाठपुस्तकं न परिष्कृतम्।

केरलस्य पाठपुस्तकम् इति नाम्ना समाजमाध्यमद्वारा असत्यं प्रचाल्य समाजे जातीय-वंशीयविद्वेषं जनयितुं यः प्रयतते स नियमानुसारं शिक्षामर्हतीत्यपि मन्त्रिणा निगदितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *