योगविद्यायां प्रागल्भ्यमावहति कश्चन संस्कृताध्यापकः।

कोटकरा- योगविद्यायां स्वकीयं प्रतिभां प्रकटयति प्रशान्त् पि नायर् नामकः अध्यापकः। आलूर् राजर्षि-स्मारक-उच्चतरविद्यालये संस्कृताध्यापको भवत्ययम्। तृशूर् माटक्कत्तरदेशीयोयं प्रतिभाधनः दशमवयसः यावत् योगाभ्यासाध्ययने निरतः आसीत्। पुरनाट्टुकर बाबा रांदेव्, अशोकन् गुरुक्कल् इत्येतयोः सकाशादेव स प्राथमकियोगशिक्षामवाप।

योगविद्याप्रचारणस्य भागत्वेन फ्लाष् योग इति दौत्येन सह स गतेषु द्वादशवर्षेषु योगविद्यां प्रचारयति। बहूनां युवकानां कृते निश्शुल्कयोगप्रशिक्षणम् अनेन विधीयते। कलरिप्पयट् इति आयोधनकलायामपि स निष्णातः भवति। यथाशक्ति जनानां कृते निःशुल्क योगप्रशिक्षणं करणीयमिति अस्य मनेरथः अस्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *