Monthly Archives: May 2023

भारतं तु निदर्शनम् (भागः २८९) – 03-06-2023

EPISODE – 289

नूतना समस्या –

“भारतं तु निदर्शनम्”

പ്രഥമസ്ഥാനം

“സമസ്തലോകരാഷ്ട്രേഷു
ശാന്തിമാർഗാനുസാരിണാം
ഗുരുസ്ഥാനീയനേതൃത്വേ
ഭാരതം തു നിദർശനം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

नूतन संसद्भवनस्य लोकार्पणम् अद्य प्रधानमन्त्रिणा निर्वूढम्।

नवदिल्ली- भारते नूतनं संसद् भवनं प्रवर्तनाय सज्जमभवत्। अद्य प्रातः अस्य संसद्भवनस्य लोकार्पणं प्रधानमन्त्री नरेन्द्रमोदीवर्यः निरवहत्।

इदं नूतनं भवनं न केवलं प्रगतेः सूचकम् अपि तु राष्ट्रीय भावनामपि प्रकटयति इति प्रधानमन्त्रिणा निगदितम्। तेन इदमपि सूचितं यत् नूतनं संसद् भवनं प्रत्येकं भारतीय गौरवान्वितं करिष्यति इति।
बहूनां सन्यासिनां सान्निध्ये एव लोकार्पणकर्म प्रचलितम्।

अस्मिन् समारोहे राष्ट्रपतिः द्रौपदी मुर्मूवर्या न निमन्त्रिता इति सूचयन्तः विपक्षदलाः उद्घाचनकर्मणि भागं न जग्रुः।

वर्षापातः कदा भवेत् (भागः २८८) – 03-06-2023

EPISODE – 288

नूतना समस्या –

“वर्षापातः कदा भवेत्”

പ്രഥമസ്ഥാനം

ഹർഷഘോഷസ്സമസ്താനാം
കർഷകാണാം മഹീതലേ
ഘർഷമേഘസ്വനൈസ്സാകം
വർഷപാത: കദാ ഭവേത്?

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

महापीठम्- संस्कृतचलचित्रस्य चित्रीकरणं सुसम्पन्नम्।

तिरुवनन्तपुरम्- सान्स्क्रीट् फिल्म् सोसैट्टि संस्थया निर्मीय सुरेष् गायत्रि वर्यस्य निदेशने तृतीयं संस्कृतचलचित्रं महापीठम् सम्पूर्णतया चित्रीकृतम्। अनेन संस्कृतचलचित्ररंगे सर्वाधिकं चलचित्रं निर्देशितमिति ख्यातिः सुरेष् गायत्रीवर्येण स्वायत्तीकृतम्।
विश्वे प्रथमं बालकानां चलचित्रं मधुरस्मितम्, विश्वस्तरे गणनायै समर्पितं मधुभाषितम् इति च इतरे चलचित्रे।कोल्लूर् मूकाम्बिकादेवीमन्दिरं, कुटजाद्रिः, सौपर्णिका, वनदुर्गामन्दिरं इत्यादिस्थलेषु चित्रीकृतमिदं चलचित्रं विश्वे प्रप्रथमं बालकानां भक्तिरसचलचित्रं वर्तते। मूकाम्बिकासन्निधौ आगच्छतः भक्तान् प्रति देव्याः अनुग्रह एव अस्य कथातन्तुः।

विष्णुचरण्, अञ्जना, अलीनिया, विष्णुप्रिया, राजेष्, मालविका, गौरीशङ्कर्, अनघा इत्यादयः अभिनेतारः कथा- पटकथा-जिबिन् दास् कोत्ताप्पल्ली, सुरेष् गायत्री। सम्भाषणं- मालती पि, डो-श्यामला, छायाग्रहणं- प्रभु ए, सम्पादनम्- जयचन्द्र कृष्ण, सङ्गीतं- सजित् शङ्कर्। राष्ट्रिय संस्कृतद्वसे चलचित्रं प्रदर्शनाय सज्जं भवति।

सर्वसम्मता भवन्तु ।

( 2023 – 24विद्यालयीय वर्षस्य शुभकामनाः )

जूण् माससमारम्भे
केरलेषु यथाविधि ।
विद्यालया : यथापूर्वं
उद्धाट्यन्ते च सर्वशः ॥

छात्रास्त्वुत्साहिनो भूत्वा
धृत्वा वस्त्रं च नूतनम् ।
आदाय नूतनं छत्रं
गच्छन्ति पुण्यमन्दिरम्॥

प्रप्य विद्यालयं तूर्णं
चारूवर्णैश्च लेपितम् ।
आचार्यांस्तु प्रणम्या /थ
स्वस्थानमार्जयन्तु भोः । ।

भाषापठनसन्दर्भे
संस्कृतं सर्वसम्मतम् ।
स्वीकुरत तमेवात्र
भवतां श्रेयसे मुदा ॥

संस्कृतं सर्वभाषाणां
जननी शक्तिशालिनी ।
सरलं ललितं चैव
संस्कृतं लोकरञ्जकम् ॥

पठनात् संस्कृतस्यास्य
जायेत परमोन्नति : ।
पराश्रयं विना नित्यं
जीवितुं प्रभविष्यथ ॥

परनिन्दां परित्यज्य
परसाहाय्यतत्पराः ।
अहङ्कारं च त्यक्त्वाथ
भवत चोत्तमोत्तमः ॥

पुराणेषु पुराणं तत्
नवीनेषु च नूतनम् ।
संस्कृतं सर्वलोकेभ्यः
चित्त सौख्यप्रदायकम् ॥

इतिहासपुराणानां
सारसर्वस्वमार्जितम् ।
सुभाषितसुगन्धैश्च
भूषितं मम संस्कृतम् ॥

पठत पठत छात्राः
संस्कृतं हि निरन्तरम् ।
पठन्तो संस्कृतं नित्यं
भवेयुः सर्वसम्मताः ॥

विजयन् वि पहाम्पि |

वैद्या तु रोगिणा हता (भागः २८७) 20-05-2023

EPISODE – 287

नूतना समस्या –

“वैद्या तु रोगिणा हता”

പ്രഥമസ്ഥാനം

“वैद्येन तु कदापि न
हन्यन्ते रोगिणः भुवि ।
हा धिक् चात्र तु तत्पश्य
वैद्या तु रोगिणा हता” ॥

Narayanan Namboothiri

“അഭിനന്ദനങ്ങൾ”

मृत्युयात्राभवत्तदा (भागः २८६) 13-05-2023

EPISODE – 286

नूतना समस्या –

“मृत्युयात्राभवत्तदा”

പ്രഥമസ്ഥാനം

“നൗകാശക്തിന്തു വിസ്മൃത്യ
ബഹവോ യാത്രികാഃ മുദാ
സമാരൂഢാഃ യദാ യാനേ
മൃത്യുയാത്രാഭവത്തദാ”

Swathi  Kishore

“അഭിനന്ദനങ്ങൾ”

 

गजो नीतो वनान्तरम् (भागः २८५) 06-05-2023

EPISODE – 285

नूतना समस्या –

“गजो नीतो वनान्तरम्”

പ്രഥമസ്ഥാനം

“ഉഷിത്വാ വിപിനേ ഘോരേ
സംഭീതിർജനയത്യഹോ
അതഃ കാനനപാലൈസ്തു
ഗജോ നീതോ വനാന്തരം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”