Daily Archives: June 18, 2023

सम्पूर्ण प्लस् मोबैल् आप् सज्जमभवत्। उपस्थित्यवस्थातः प्रगतिप्रतिवेदनं यावत् सर्वमपि सन्ति।

तिरुवनन्तपुरम्- केरलेषु विद्यालये अध्ययनकार्यैः सम्बद्धं मोबैल् आप् सम्पूर्ण प्लस् इत्याख्यं प्रवर्तनसज्जमभवत्। अद्य सायं पञ्चवादने शिक्षामन्त्रिणा शिवन् कुट्टि वर्येण योजनेयम् उद्घाटिता।

राज्ये ५० लक्षपरिमितानां छात्राणाम् अध्ययनप्रगतिः(मार्गदर्शकसमर्थनम्) प्रगतिप्रतिवेदनम् इत्यादीनाम् अङ्कनं, रक्षाकर्तृभिः सह आशयविनिमयश्च सुगमतया निर्वोढुमेव कैट् संस्थया सम्पूर्णा प्लस् मोबैल् आप् सज्जीकृता।