Daily Archives: June 24, 2023

टैट्टन् दौत्यं दुरन्ते पर्यवसितम्। पेटकस्थाः पञ्च जनाः मृताः इति निगमनम्।

बोस्टण्- शतकात् पूर्वं सागरे निमग्नस्य टैटानिक् इति पोतस्य अवशिष्टं द्रष्टुं पञ्च नाविकैः साकं गतस्य टैट्टन् इति जलपेटकस्य यात्रा दुरन्ते पर्यवसिता इति स्थिरीक्रियते। पेटकस्थाः पञ्च अपि जनाः मृताः इति यु एस् तीरसंरक्षणसेना असूचयत्।

सागरान्तर्भागे सञ्जातेन तीव्रमर्देन पेटकं भग्नं स्यात् इति सेनायाः निहमनम्। दुरन्तोयं स्फोटनसमानमासीदिति संसूत्यते।