Monthly Archives: July 2023

काण्ग्रेस् दलस्य वरिष्ठनेता तथा भूतपूर्वमन्त्री वक्कं पुरुषोत्तमन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- बहुवारं केरलविधानसभायां सामाजिकः तथा त्रिवारं केरले मन्त्रिपदव्यामारूढः, लोकसभासदस्यत्वेन स्वप्रतिभां प्रकटितवान् च कोण्ग्रेस् दलीयः वरिष्ठनेता वक्कं पुरुषोत्तमन् वर्यः कालकबलितः अभूत्। अनन्तपुर्यां कुमारपुरे स्वकीये भवने आसीत् ९५ वयस्कस्य तस्य मृत्युः। केरलविधानसभायां  द्विवारं स सभावक्ता आसीत्।

वृष्टिः शीघ्रं शमिष्यति (भागः २९७) – 29-07-2023

EPISODE – 297

नूतना समस्या –

“वृष्टिः शीघ्रं शमिष्यति”

പ്രഥമസ്ഥാനം

“പദേ പദേ തു വർഷർതുഃ
പ്രാപ്നോതി ചരമാം ഗതിം
തുഷ്ടാനി തരുജാലാനി
വൃഷ്ടിഃ ശീഘ്രം ശമിഷ്യതി”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

केरलानां भूतपूर्वमुख्यमन्त्री उम्मन् चाण्टीवर्यः दिवंगतः।

बङ्गलूरु- काण्ग्रेस् दलस्य वरिष्ठः नेता तथा केरलानां मुख्यमन्त्रिचरः उम्मन् चाण्टीवर्यः८० निर्यातः। बङ्गलूरु चिन्मय चिकित्सालये अद्य प्रातः ४-३० वादने आसीदस्य मत्युः। अर्बुदरोगग्रस्तः स एकवर्षपर्यन्तं चिकित्सायामासीत्।

जनानां मध्ये जीवन् तेषां भूत्यै नितान्तपरिश्रमं कृतवानेष महात्मा केरलस्य राजनैतिकमण्डले स्वकीयां व्यक्तिमुद्रां खचितवान्।

वृत्तिविभागमन्त्री, आर्थिकविभागमन्त्री इत्यादिमण्डले प्रवर्तनानन्तरं द्विवारं स केरलानां मुख्यमन्त्रिपदे विरराज।

महाभागस्यास्य निर्याणे नववाणीसङ्घस्य निवापम् अर्पयामः।

चन्द्रं स्पृशति भारतम् (भागः २९६) 22-07-2023

EPISODE – 296

नूतना समस्या –

“चन्द्रं स्पृशति भारतम्”

പ്രഥമസ്ഥാനം

“ചാന്ദ്രയാനതൃതീയേന‍
രചയാമാസ വിസ്മയം
ഉദ്ഗാനം ക്രിയതാമുച്ചൈ-
ശ്ചന്ദ്രം സ്പൃശതി ഭാരതം”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

 

चन्द्रयान्-३ विक्षेपणं सुसम्पन्नम्।

श्रीहरिक्कोट्टा- राष्ट्रं प्रतीक्षया प्रतिपाल्यमानस्य चान्द्रपर्यवेक्षणदौत्यस्य चन्द्रयान्- ३ इत्याख्यस्य विक्षेपणं विजयमभवत्। श्रीहरिक्कोट्टायां द्वितीयविक्षेपणस्थलादेव चन्द्रयान्-३ पेटकं संवाह्य एल्-वि-एं -३ एं-४ रोक्कट् उदगच्छत्। ४३-५ मीट्टर् उन्नतिः ४ मीट्टर् मितं विस्तीर्णं च एल्-वि-एं-३ एं-४ रोक्कट् इस्रो संस्थायां बलवत्तमं रोक्कट् भवति।

आगामिनि मासस्य २३ अथवा २४ दिनाङ्के दक्षिणध्रुवसमीपं चन्द्रयान्- ३ पेटकस्य सुरक्षितम् अवतारणं प्रतिपालयन्ति सर्वे। दौत्यस्य विजयेन चन्द्रोपरितले सुरक्षितरूपेण पेटकमवतार्यमाणं चतुर्थं राष्ट्रं भविष्यति भारतम्।

दुःखं लोभफलं स्मृतम् (भागः २९५) – 15-07-2023

EPISODE – 295

नूतना समस्या –

“दुःखं लोभफलं स्मृतम्”

പ്രഥമസ്ഥാനം

“विद्यालोभो न दुखाय
शान्तिलोभोपि तादृशः ।
अन्ये लोभाश्च दुःखाय
दुःखं लोभफलं स्मृतम्” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

चन्द्रयान् – ३ विक्षेपणं १४ तमे दिनाङ्के।

बङ्गलूरु- आराष्ट्रम् सोद्वेगं प्रतीक्षमाणं चन्द्रयान्-३ इत्यस्य विक्षेपणम् अस्मिन् मासे १४ दिनाङ्के भविष्यति इति ऐ एस् आर् ओ अध्यक्षः एस् सोमनाथवर्यः अवदत्। मध्याह्नादूर्ध्वं २-३५ वादने श्रीहरिक्कोट्टायां सतीष् धवान् शून्याकाशकेन्द्रात् एल्-वि-एं-३ इति विक्षेपणयानं चन्द्रयान्-३ पेटकं भ्रमणपथं प्रापयिष्यति।

आगस्त् २३ दिनाङ्के चन्द्रोपरितले मृद्ववतारणं(Soft Landing) भविता। निश्चिते स्थाने अवतारणम् अशक्यं चेत् स्थानान्चरं चेतुं पेटके सुविधा अस्ति।

संस्कृतशिक्षकप्रशिक्षणवर्गे( डि-एल्-एड्) प्रवेशार्थं सर्वकारीणविज्ञापनम्।

तिरुवनन्तपुरम्- केरलेषु प्राथमिकविद्यालये शिक्षकरूपेण नियोक्तुम् अर्हतारूपः डि-एल्-एड् इति प्रशिक्षणवर्गे प्रवेशार्थं सर्वकारीणविज्ञापनं घोषितम्। संस्कृतं, ह्न्दी, अरबिक्, उर्दू इति भाषाणां कृते एव वर्गः प्रचलति। संस्कृतप्रशिक्षणं कोषिक्कोट् मण्डले वटकर मण्डलाध्यापकप्रशिक्षणकेन्द्रे (डयट्) एवास्ति।

प्रशिक्षणार्थिनः निश्चिते प्रारूपे एव आवेदनं समर्पयेयुः। आवेदनं जूलै २० दिनाङ्के सायं पञ्चवादनात् पूर्वं सार्वजनीनशिक्षानिदेशकस्य कार्यालयं प्रापणीयम्।
विशदांशाः सार्वजनीनशिक्षानिदेशकस्य ३-०७-२०२३ दिनाङ्कस्य एं२/- १३५८७४०/ डिजिइ इति परिपत्रे सन्ति।

दुराचारान् सदा त्यज (भागः २९४) 08-07-2023

EPISODE – 294

नूतना समस्या –

“दुराचारान् सदा त्यज”

പ്രഥമസ്ഥാനം

“अत्राचारास्त्वनुष्ठेयाः
यदि ते हितदायिनः ।
अहितांश्च तथा मौढ्यान्
दुराचारान् सदा त्यज” । ।

Narayanan Namboothiri

“അഭിനന്ദനങ്ങൾ”