संस्कृतशिक्षायाः विशिष्टाधिकारिण्यै उपहारसमर्पणम्।

एरणाकुलम्- केरलीय संस्कृतशिक्षाक्षेत्रे श्रद्धेया व्यक्तिः भवति विशिष्टाधिकारिणी डो- टी डी सुनीतीदेवी वर्या। धर्मानुष्ठानमिव स्वकर्म परिगणयन्ती एषा विदुषी केरलीय-संस्कृतछात्राणां शिक्षकाणां च कृते उपकारकाणि बहूनि कार्याणि कृतवती, कुर्वन्ती चास्ति। पञ्चविंशतिवर्षात् पूर्वम् अस्यां पदव्यां नियुक्ता सा स्वकीयैः वैभवै‌ः संस्कृतशिक्षाक्षेत्रे निर्णायकानि परिवर्तनानि समायोजयत्। संस्कृतछात्राणां कृते छात्रवृत्ति परीक्षा, शिक्षकाणां कृते साहित्यरचनाप्रतियोगिता, संभाषणवर्गः इत्यादयः कार्यक्रमेषु केचन सन्ति।

असौ महाशया अगामिनि मेय् मासे वृत्तितः विरमिष्यते। विरामात् पूर्वं एरणाकुले समायोजिते राज्यस्तरीय-संस्कृतसमित्यङ्गानाम् अधिवेशने सा उचितरूपेण उपहृता अभवत्। सार्वजनीनशिक्षानिदेशकः जीवन् बाबूवर्यः तस्यै संस्कृतसमित्यङ्गानाम् उपहारं समार्पयत्। समारोहेस्मिन् राज्यस्तरीयः संस्कृतसमितिकार्यदर्शी एस् श्रीकुमार्, मण्डलस्तरीयकार्यगर्शिनः च सन्निहिताः आसन्।
साहित्यरचनामत्सरे विजेतृणाम् अध्यापकानां कृते उपहारान् साक्ष्यपत्राणि च अस्मिन् समारोहे अदात्।

Leave a Reply

Your email address will not be published. Required fields are marked *