भारतस्य प्रसिद्धा चलचित्रगायिका लता मङ्केष्कर् वर्या दिवङ्गता।

मुम्बै- भारतस्य गानकोकिलं लतामङ्केष्कर् वर्या कालकबलिता अभवत्। सा ९२ वयस्का आसीत्। चलचित्रपार्श्वगायिका इयं बहुषु भाषासु चलचित्रगीतम् आलापयामास। सङ्गीतस्य कृते प्रायः सर्वे पुरस्काराः अनया अतुल्य प्रतिभया अवाप्ता।
जनुवरी अष्टमे दिनाङ्के कोविड्बाधया सा चिकित्सालयं प्रवेशिता। मुम्बै नगरे निजीयचिकित्सालये अतितीव्रपरिचरणविभागे चिकित्सायां वर्तमानायां तस्यां न्यूमोणिया बाधा अभवत्। अतः स्वास्थ्यावस्था गुरुतरा जाता। अद्य प्रात एव तस्याः देहवियोगः सञ्जातः।
Leave a Reply