मेडीसेप् अभिरक्षायोजनया सर्वकारः अग्रे गच्छति।

तिरुवनन्तपुरम्- सर्वकारीणसेवकानां तथा निवृत्तिवेतनग्राहकाणां च कृते मेडीसेप् नामिकया अभिरक्षायोजनया सह केरलसर्वकारः अग्रे सरति। निवृत्तिवेतनग्राहकाणां तथा सर्वकारीणसेवकानां च सूचनाः जालपुटे निरीक्ष्य संशोधयितुम् अधिकसूचनाः संयोजयितुं च डिसम्बर् २० पर्यन्तम् अवकाशः विहितः अस्ति।

पञ्च वर्षात् पूर्वम् घोषिता योजना इतः पर्यन्तं समारब्धुं न शशाक। ओरि।न्टल् इन्षूरन्स् इति सङ्घस्यैव अधुना योजनानिर्वहणे अनुमतिः लब्धा। पूर्वम् अनुमितः सङ्घः रिलयन्स् इन्षूरन्स् आसीत्। परन्तु समयालङ्घनकारणेन स सङ्घः उपबन्धसमर्पणात् निरुद्धः अभवत्। निर्णयममुं विरुध्य रिलयन्स् संघः उच्चन्यायालयम् अभ्युपगच्छत्। तथापि उच्चन्यायालयेन योजना न निरुद्धा इत्यतः योजनया सह अग्रे गच्छति।

न्यायालयस्य अन्तिमनिर्णयानुसारं जनुवरिमासे एप्रिल् मासे वा पद्धतिः समारब्धुं शक्यते इति सर्वकाराणां विश्वासः।

Leave a Reply

Your email address will not be published. Required fields are marked *