संस्कृतविश्वविद्यालयस्य कुलपतिस्थानात् धर्मराज् अटाट्ट् वर्यः विनिवर्तते।

कालटी-श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य कुलपतिपदवीतः श्रीमान् धर्मराज् अटाट्ट् वर्यः अद्यः विरमते। गतेषु चतृषु वर्षेषु अस्य विश्वविद्यालयस्य अक्कागमिक-प्राशासनिकरंगयोः महाशयस्यास्य नेतृत्वे बहूनि प्रवर्तनानि निर्व्यूढानि। NAAC संस्थायाः A+ श्रेणी स्वायत्तीकृतः केरलस्य प्रथमः विश्वविद्यालयः भवत्ययम्।

सम्पूर्णतया अङ्कीयरूपेण अध्ययनमपि प्रथमम् अत्रैव भवति। अधिगमाधिष्ठिता पाठ्यपद्धतिरपि प्रथमतया अत्रैव आयोजिता।

एवं बहुरूपेण विश्वविद्यालयस्य औन्नत्ये बद्धश्रद्धोयं अद्य व्यरमत्। आङ्गले, मलयाले संस्कृते च आहत्य ४५ ग्रथाः अनेन रचिताः। ३०० परिमितानि लेखनान्यपि अनेन प्रकाशितानि।

अध्यापकः, प्रशासकः, साहित्यकारः, दार्शनिकः, समाजप्रवर्तकः इत्यादिषु रंगेषु अस्य योगदानम् अभवत्। पुनरपि एषु रंगेषु योगदानं विधातुं स शक्नुयात् इत्याशासे।

Leave a Reply

Your email address will not be published. Required fields are marked *