Daily Archives: September 18, 2021

केरलेषु विद्यालया‌ः नवम्बर् प्रथमदिनाङ्कादारभ्य पुनःप्रवर्तिष्यन्ते।

तिरुवनन्तपुरम्- केरलराज्ये काविड् भीत्या पिहिताः विद्यालयाः नवम्बर् प्रथमे दिनाङ्के पुनरुद्घाटयिष्यन्ति। सार्धैकवर्षानन्तरमेव एते प्रवर्तनसज्जाः भवन्ति। मुखियमन्त्रिणः पिणरायि विजयस्य आध्यक्ष्ये समायोजिते कोविड् अवलोकनाधिवेशने एवायं निर्णयो जातः।

विद्यालयानाम् उद्घाटनमनुबन्ध्य मार्गनिर्देशः, केषु केषु कक्ष्यासु अध्ययनम् आरभेत इत्यादि विषयेषु निर्णयः अनन्तरं भविता।

प्राथमिकस्तरे विद्यालयानां प्रवर्तनं न भविता इति सूचना विद्यते। नवमकक्ष्यायाः आरभ्य अध्ययनं भविता इति निर्णयः विद्यते।

लोचनम् -२०२१ अध्यापकशक्तीकरणकार्यक्रमः।

चालक्कुटि- चालक्कुटि संस्कृतम् अक्कादमिकसमितेः नेतृत्वे लेचनम् २०२१ इति शिक्षकप्रबलीकरणकार्यक्रमस्य उद्घाटनं सेप्तम्बर् १८ दिनाङ्के शनिवासरे समायोजितं वर्तते। प्रतिमासं विविधविषयानधिकृत्य प्रगद्भानां दश वर्गाः अस्यां प्रपाठावल्यां भविष्यन्ति। प्रथमवर्गः कालटि श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालये संस्कृतसाहित्य विभागाध्यक्षः डो वी आर् मुरलीधरवर्यः नेष्यति। केरलीयकलाः संस्कृतं च इति विषये एव वर्गः चालयति। इरिङ्ङालक्कुट शिक्षामण्डले अन्तर्भूतानां चालक्कुटि, माल, कोडुङ्ङल्लूर्, इरिङङालक्कुटा, उपमण्डलस्थानां एल् पी, यु पि, हैस्कूल् विभागशिक्षकाणां तथा संस्कृतप्रेमिणां च प्रयोजकरूपेणैव लोचनम् २०२१ क्रमीकृतम्। एतेभ्यः चतुर्भ्यः उपमण्डलेभ्यः सर्वे अध्यापक प्रथमवर्गादारभ्य अस्यां प्रपाठावल्यां भागं गृह्णन्तु इति इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्थः संस्कृतसमितेः कार्यदर्शी श्रीमान् बिजु के डि अभिवेदयति।