Daily Archives: September 5, 2021

उच्चतरविद्यालयीयाध्यापकानां संघः नवधारा शिॆक्षकदिने गुरुवन्दनं समायोजयत्।

तिरुवनन्तपुरम्- शिक्षकदिनाचरणस्य भागत्वेन उच्चतरविद्यालयीय शिक्षकाणां संघः नवधारा नामकः आधिजालिकं गुरुवन्दनम् समायोजयत्। सेप्तम्बर् ५ सायं सप्तवादने आयोजिते समारोहे डी जेयिस् वर्यः अध्यक्षः आसीत्। केरलीय शिक्षाविभागमन्त्री वी शिवन् कुट्टि वर्यः समारोहस्य उद्घाटनं निरवहत्।

प्रोफ वी माधवन् पिल्ला वर्यः समारोहे समादृतः अभवत्। राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डे जे प्रसाद् वर्यः मुख्यभाषणं व्यदधात्। डो पी नारायणन् नम्पूतिरिः, एन् के रामचन्द्रन् वी विजयन् , कृष्णशर्मा, जयमेहनगुरुक्कल्, वी श्रीकण्ठन्, एस् श्रीकुमार् प्रभृतयः आशंसाभाषणमकुर्वन्। स्टैजू, शालिनी,मञ्जू प्रभृतयः अध्यापकाः कार्यक्रमस्य प्रयेक्तारः आसन्। डो उल्लास् वर्येण स्वागतभाषणं तथा श्रीजित् वर्येण कृतज्ञतां च व्याचक्रतुः।

महाजनानां सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनाचरणं सुसम्पन्नं जातम्।।

इरिञ्ञालक्कुटा – महाजनानां गुरूणां च सान्निद्ध्येन प्रभाषणेन च इरिञ्ञालक्कुटा विद्याभ्यासजिल्लायाः संस्कृतदिनं सुसम्पन्नं जातम्। कोटुङ्ङल्लूर् नियमसभासामाजिकेन श्रीमता वि. आर्. सुनिल्कुमार महोदयेन समुद्घाटिते सम्मेलने विद्याभ्यासजिल्लाधिकारी श्री एन्.डि. सुरेष् वर्यः अध्यक्षतां निरवहत्। विद्याभ्यासजिल्ला कार्यदर्शी श्री के.डि. बिजुः सर्वेभ्यो स्वागतमर्पयत्।  संस्कृतभारत्याः आगोलसंयोजकः श्री. पि. नन्दकुमारः विशिष्टभाषणं कृतवान्। प्रमुखचलनचित्राभिनेता श्री सुनिल् सुखदा वर्यः, राज्यस्तरीयसंस्कृत कौम्सिल् अध्यक्षः श्री एस्. श्रीकमारः च सन्निहितौ आस्ताम्।  चिन्मयासंस्थायाः प्रवर्तकः स्वामी शारदानन्दसरस्वतिवर्यः संस्कृतदिनसन्देशं प्रदत्तवान्।

प्रतिकृतिः इति नूतनसंस्कृतचलनचित्रस्य संविधायकः डो. निधीष् गोपि , निर्माता श्री प्रशान्तः च अस्मिन् सम्मेलने विशिष्टाभिनन्दनेन समादृतौ। एन्.एन्. रामः, एम्.वि. विवेकः, के.आर् रामचन्द्रः, पि.एस्. उण्णिकृष्णः, पि.पि. प्रतापन्, के. श्रीदेवी च भाषणमकुर्वन्। अभिनव् वि.जी, निरञ्जन् सजीव् नामकौ छात्रौ संस्कृतगानं आलपितवन्तौ।

अद्य अध्यापकदिनम्, सेवानिरतान् अध्यापकान् समादरिष्यामः।

तिरुवनन्तपुरम्- अद्य सेप्तम्बर् ५ दिनाङ्कः। अयं दिवसः शिक्षकदिवसत्वेन आराष्ट्रम् आचर्यते। राष्ट्रपतिचरस्य डो एस् राधाकृष्णन् वर्यस्य जन्मदिवसमेव शिक्षकदिनत्वेन निश्चितम्।

केरलसर्वकारेण प्रतिवर्षम् अस्मिन् दिने विशिष्टसेवापुरस्कारेण राज्यस्थाः शिक्षकाः आद्रियन्ते। अस्मिन् वर्षेपि प्राथमिकस्तरे १४, उच्चविद्यालये १४, उच्चतरविद्यालये ७, वि एच् एस् इ तले ५ च अध्यापकेभ्यो विशिष्टसेवापुरस्काराः घोषिताः।

सर्वेभ्यो अध्यापकेभ्यो शुभशंसाः।