Monthly Archives: April 2021

एस्.एस्.एल्.सी, प्लस् -टु परीक्षाणां श्वः शुभारम्भः।

तिरुवनन्तपुरम्- केरलेषु  एस्.एस्.एल्.सी., प्लस्-टु परीक्षाणां शुभारम्भः एप्रिल् 8 दिनाङ्के भविष्यति। एप्रिल् षट्दिनाङ्कपर्यन्तं निर्वाचनज्वरे आसीत् केरलाः। इतः परं परीक्षाज्वरे भविष्यन्ति। नवलक्षपरिमितं छात्राः एव परीक्षार्थं सन्नद्धाः।

     एस्.एस्.एल्.सी. परीक्षा एप्रिल् 8तः 12 दिनाङ्कपर्यन्तं मध्याह्नादूर्ध्वं प्रचलिष्यति। एप्रिल् 15तः प्रातः काले प्रचलिष्यति। 29 दिनाङ्के परीक्षायाः पर्यवसानं भविता। प्लस् -टु वी.एच्यएस्सी परीक्षाः एप्रिल् 8तः 26 दिनाङ्कं यावत् प्रचलिष्यति। प्रातः 9.40 वादने एव एताः परीक्षाः।

जनायत्तं महत्तरम् (भागः १७८) 10-04-2021

EPISODE – 178

नूतना समस्या-

“जनायत्तं महत्तरम्”

ഒന്നാംസ്ഥാനം

“ജനേഭ്യശ്ച ജനാനാഞ്ച
ജനൈശ്ച കൃതപദ്ധതിഃ
തസ്മാദ് വദന്തി സർവേഽപി
ജനായത്തം മഹത്തരം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १७८) 10-04-2021

EPISODE – 178

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामः सीतालक्ष्मणाभ्यां सह वनम् ——-। (क) अगच्छत्   (ख) अगच्छन्  (ग) अगच्छः
  2. दशरथः स्वर्गं ——। (क) प्राप्नोत्  (ख) प्राप्नुवन्   (ग) ​प्राप्नुवताम् 
  3. भरतः रामस्य पादुके ——-। (क) आनयन्  (ख) आनयताम्  (ग) आनयत्
  4. रामः दण्डकारण्यं ——–। (क) प्राविशन्  (ख) प्राविशत्  (ग) ​प्राविशताम्
  5. रावणः सीताम् ——-। (क) अपाहरत्  (ख) अपाहरताम् (ग) अपाहरन्
  6. तां लङ्काम् ——-। (क) अनयन्  (ख) अनयत् (ग) अनयताम् 
  7. राक्षस्यः सीतां परितः ——-। (क) अतिष्ठन्  (ख) अतिष्ठत्  (ग) अतिष्ठताम् 
  8. रामाञ्जनेययोः मेलनम् ——-। (क) अभवम्  (ख) अभवाम  (ग) अभवत् 
  9. रामः वालिनम् ——-। (क) अमारयः (ख) अमारयत्  (ग) अमारयन् 
  10. आञ्जनेयः समुद्रस्य लङ्घनम् ——-। (क) अकरोत्  (ख) अकुर्वः (ग) अकरवम्

ഈയാഴ്ചയിലെ വിജയി

Adithyakrishna

“അഭിനന്ദനങ്ങൾ”