Daily Archives: April 25, 2021

PRASNOTHARAM (भागः १८१) 01-05-2021

EPISODE – 181

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पाण्डवाः वनवासम् ——–। (क) अनुभूतवान्  (ख) अनुभूतवन्तौ (ग) अनुभूतवन्तः
  2. ते विराटनगरं ——-। (क) गतवन्तः  (ख) गतवन्तौ (ग) गतवान् 
  3. एकं वर्षं अज्ञातवासं ——। (क) यापितवान्   (ख) यापितवन्तः  (ग) यापितवन्तौ
  4. पाण्डवकौरवाः घोरं युद्धं ——। (क) कृतवन्तः  (ख) कृतवन्तौ  (ग) कृतवान् 
  5. अष्टादश दिनानि संग्रामः ——–। (क) प्रचलितवन्तः  (ख) प्रचलितवान्  (ग) प्रचलितवन्तौ
  6. सर्वे कौरवाः मरणं ——–। (क) प्राप्तवान्  (ख) प्राप्तवन्तौ  (ग) प्राप्तवन्तः
  7. युद्धे श्रीकृष्णः पाण्डवानां साहाय्यम् ——–। (क) आचरितवान्   (ख) आचरितवन्तौ (ग) आचरितवन्तः
  8. श्रीकृष्णः अर्जुनं भगवद्गीताम् ——-। (क) उपदिष्टवन्तौ  (ख) उपदिष्टवान्  (ग) उपदिष्टवन्तः
  9. धृतराष्ट्रादयः वनं ——। (क) गतवान्  (ख) गतवन्तौ  (ग) गतवन्तः
  10. दुःखम् असहमानाः पाण्डवाः हिमालयं प्रति  ——। (क) गतवान्  (ख) गतवन्तः  (ग) गतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരങ്ങൾ:

  1. अनुभूतवन्तः
  2. गतवन्तः
  3. यापितवन्तः
  4. कृतवन्तः
  5. प्रचलितवान्
  6. प्राप्तवन्तः
  7. आचरितवान्
  8. उपदिष्टवान्
  9. गतवन्तः
  10. गतवन्तः

 

कोविड् निवारकस्य मूल्यम्- स्वास्थ्यमन्त्रालयस्य विशदीकरणम्

नवदिल्ली- भारते वितीर्यमानानि कोविड् निवारकाणि प्रतिमात्रं १५० रूप्यकमूल्येन सिरम् इन्स्टिट्यूट् इति संस्थानात् क्रीणाति इति केन्द्रसर्वकारः व्यजिज्ञपत्। स्वास्थ्य-कुटुम्बक्षेम मन्त्रालयः ट्विट्टर् द्वारा शनिवासरे इदम् असूचयत्। एवं क्रीतानि निवारकाणि पूर्ववत् राज्येभ्यः विनामूल्यं वितरीतुम् उद्यमः इत्यपि असूचयत्।
पूणे नगरे स्थितस्य सिरम् इन्स्टिट्यूट् इति संस्थानं निजीयचिकित्सालयेभ्यः कोविड् निवारकं प्रतिमात्रं ६०० रूप्यकमूल्येन विक्रीणाति तत्तु आगोलतले उन्नतं मूल्यमिति आवेदनमासीत्। अतः स्वास्थ्यमन्त्रालयेन विशदीकरणं दत्तम्।