Monthly Archives: February 2021

संस्कृतचलच्चित्रनिर्माणे अध्यापक-छात्रसहयोगः।

मट्टत्तूर् – केरलम्- कोविड् कारणेन अध्ययने स्थगिते संस्कृतशिक्षकाणां छात्राणां च सहयोगेन द्विहोरावधिकं संस्कृतचलच्चित्रं याथार्थ्यमभवत्।  तृशूर् जनपदस्थे मट्टत्तूर्, कोटकरा, वरन्तरप्पिल्ली, आसूर् पञ्चायत् सीमास्थिताः संस्कृतश्क्षकाः एव चलच्चित्रस्य अन्तरङ्गशिल्पिनः भवन्ति। एषु प्रदेशेष्वेव चलच्चित्रस्य छायाग्रहणमपि सम्पन्न्म्। प्रतिकृतिः इति नामधेयकस्य चलच्चित्रस्य निर्माणम्पि समाप्तप्रायमभवत्।

     सुनिल् सुगदा इति विख्यातः नटः एव प्रधानवेषं गृहाणाति। तालीपत्रग्रन्थेषु विद्यमानं विज्ञानं विदेशराष्ट्रेभ्यो दीयमानसम्बन्धी सम्भवविकास एव प्रमेयः।

     चेम्पूच्चिरा सर्वकारीण उच्चतरविद्यालयस्थः संस्कृताध्यापकः डो. निधीष् गोपी वर्यः एव कथा ,पटकथा, सम्भाषणं निदेशनं च विदधाति। गानरचना अपि स एव। आलूरे आर्.एं.एच. एस्. संस्कृताध्यारपकः पी.आर्. प्रशान्तः प्रांशुपालः लेय्सण् जोण्  इत्येतयोः संयुक्तसंरम्भमेव इदं चलच्चित्रम्।.

वाणीयं चित्तहारिणी (भागः १७०) 13-02-2021

EPISODE – 170

नूतना समस्या –

“वाणीयं चित्तहारिणी”

ഒന്നാംസ്ഥാനം

“മധുരാ ലലിതാ ചാസ്തി
പ്രൗഢാ ചാശയബോധിനീ
ഹൃദ്യാ ച സംസ്കൃതാ നവ്യാ
വാണീയം ചിത്തഹാരിണീ .”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

उत्तराखण्डे हिमशैलदुरन्तः, 13 ग्रामाः विगृहाणीताः, बहवः मृताः,

डेराडूण्- उत्तरखण्डस्थे चमोलीमण्डले नन्दादेवी ग्लासिया इति हिमशैलस्य कश्चिद्भागः स्खलितः इत्यतः सञ्जाते जलोपप्लवे 13 ग्रामाः विगृहाणीताः। ग्रामनगरयोः परस्परसम्बन्धार्थं स्थापितानां सेतूनां प्लवनकारणादेव ग्रामाः विगृहाणीताः।

     बोर्डर् रोड् ओर्गनैसेषन् इति संस्थायाः पञ्च सेतवः एव भग्नाः। एतेन विगृह्णीतेषु ग्रामेषु अवश्यवस्तूनां वितरणं उदग्रयानद्वारा विदधातुं परिश्रमं कुर्वन्ति अधिकारिणः। 17 ग्रामप्रदेशेष्वेव दुरन्तबाधा सञ्जाता। एषु 11 प्रदेशेष्वेव जनानाम् आवासः वर्तते। इतरेषु स्थिताः जनाः शैत्यारम्भे उपत्यकां प्रति प्रस्थिताः आसन्।

     जोषिमठ् इति सुप्रसिद्धे तीर्थाटनकेन्द्रे ह्यस्तने प्रातः एव हिमशैलः स्खलितःआसीत्। अनेन धौलि गङ्गा, ऋषिगङ्गा, अलकनन्दा नदीषु जलोपप्लवः सञ्जातः तपोवन्  रेनीस्थले ऋषिगङ्गा वैद्युतयोजना तथा तपोवन् विष्णुघट् वैद्युतयोजनाश्च जलोपप्लवेन भग्ने अभवताम्।

     दुरन्ते बहवः जनाः मृताः इत्यावेदयति। इतः पर्यन्तं 10 मृतदेहाः उपलब्धाः, शिष्टानां कृते मार्गणम् उर्जितं करोति।

PRASNOTHARAM (भागः १७०) 13-03-2021

EPISODE – 170

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अहं ——–। (क) पठिष्याति (ख) पठिष्यसि (ग) पठिष्यामि
  2. भवान् ——-। (क) पठिष्याति (ख) पठिष्यामि (ग)पठिष्यसि
  3. ते छात्रे ——-। (क) पठिष्यथः (ख) पठिष्यतः (ग)पठिष्यावः
  4. भवत्यः ——-।(क) पठिष्यामः (ख) पठिष्यथ (ग) पठिष्यन्ति
  5. वयं ——-।  (क) पठिष्यामः (ख) पठिष्यथ (ग) पठिष्यन्ति
  6. त्वं ——-। (क) पठिष्याति (ख) पठिष्यामि (ग)पठिष्यसि
  7. युवां ——–। (क)पठिष्यावः (ख)पठिष्यथः(ग) पठिष्यतः
  8. आवां ——-। (क)पठिष्यावः (ख) पठिष्यतः (ग) पठिष्यथः
  9. भवन्तः ——-। (क) पठिष्यामः (ख) पठिष्यथ (ग) पठिष्यन्ति
  10. भवन्तौ ——–।(क) पठिष्यतः (ख) पठिष्यथः (ग)पठिष्यावः

ഈയാഴ്ചയിലെ വിജയി

ADIDEV  C S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Adidev C S
  • Leena K S
  • Sanjay Damodaran

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

भारत-इङ्ग्लेन्ट् क्रिक्केट् क्रीडापरम्परायाः आद्य शुभारम्भः।

चेन्नै-  भारत-इङ्ग्लेण्ड् राष्ट्रयोः मिथः क्रिक्केट् क्रीडास्पर्धा  अद्य समारभते। चेन्नैपुर्यां एं.ए. चिदम्बरं क्रीडाङ्कणे प्रातः 9.30 वादने समारभमाणा स्पर्धा स्टार् स्पोट्स् इति नालिकया तत्समयं समप्रेष्यते। अधिजालिकरूपेण होट्स्टार् नालिकायामपि स्पर्धां वीक्षितुं सुविधा अस्ति।

     भारतं इङ्ग्लेण्ट् च अस्मिन् क्रीडाङ्कणे नववारं परस्परं प्रतियोगितां व्यतनुताम्। इतः पूर्वं 2016 तमे वर्षे आसीत् प्रतियोगिता। तस्मिन् मत्सरे भारतं 75 धावनाङ्कैः विजयमवाप। इङ्ग्लेण्ट् राष्ट्रं 1985 तमे वर्षे इतः विजयमवाप। अनया क्रीटया विश्व टेस्ट् क्रिक्केट् परमपरायां अन्तिमचरणे न्यूसिलाण्टस्य प्रतियोगी कः इति निश्चेतुं शक्यते।

देहल्यां समरे व्यापृतेभ्यः ऐक्यदार्ढ्यं ख्यापयति परिसिथितिप्रवर्तिका ग्रेट्टे त्युन्बी।

नवदिल्ली- केन्द्रसर्वकारस्य कार्षिकनियमान् विरुध्य प्रतिषिद्धानां कृषकाणां साह्यं सूचयति विख्याता परिस्थितिप्रवर्तिका ग्रेट्टा त्युन्बे वर्या। भारते कृषकाणां प्रतिषेधे वयम् ऐक्यदार्ढ्यं प्रकटयामः इति ट्विट्टर् द्वारा सा असूचयत्।

     रक्षिदलैः सह कृषकाणां सङ्घर्षे जाते द्ल्ली परिधौ आन्तरजालसेवा तात्कालिकतया स्थगिता इति सी.एन्.एन्, वार्तां ट्विट्टर् द्वारा प्रकाशयन्ती एव ग्रेट्टावर्यायाः प्रतिकरणम्। ेतं ट्विट्टर् सन्देशं सम्मान्य बहवः रङ्गमागताः।

    पोप् गायिका रिहाना भारतकृषकाणां ऐक्यदार्ढ्यं सूचितवती आसीत्। तत्पश्चादेव ग्रेट्टा त्युन्बे वर्या साहाय्येन सह रङ्गमागता।

कृषिः सर्वार्थसाधिका (भागः १६९) 06-02-2021

EPISODE – 169

नूतना समस्या –

“कृषिः सर्वार्थसाधिका”

ഒന്നാംസ്ഥാനം

“പോഷിണീകായികാരോഗ്യം
ഭാഷിണീ ചോദ്യമം സദാ
തോഷിണീ ജീവിവർഗാണാം
കൃഷി: സർവ്വാർഥ സാധികാ”

Narayanan N

“അഭിനന്ദനങ്ങൾ”