देहल्यां समरे व्यापृतेभ्यः ऐक्यदार्ढ्यं ख्यापयति परिसिथितिप्रवर्तिका ग्रेट्टे त्युन्बी।

नवदिल्ली- केन्द्रसर्वकारस्य कार्षिकनियमान् विरुध्य प्रतिषिद्धानां कृषकाणां साह्यं सूचयति विख्याता परिस्थितिप्रवर्तिका ग्रेट्टा त्युन्बे वर्या। भारते कृषकाणां प्रतिषेधे वयम् ऐक्यदार्ढ्यं प्रकटयामः इति ट्विट्टर् द्वारा सा असूचयत्।

     रक्षिदलैः सह कृषकाणां सङ्घर्षे जाते द्ल्ली परिधौ आन्तरजालसेवा तात्कालिकतया स्थगिता इति सी.एन्.एन्, वार्तां ट्विट्टर् द्वारा प्रकाशयन्ती एव ग्रेट्टावर्यायाः प्रतिकरणम्। ेतं ट्विट्टर् सन्देशं सम्मान्य बहवः रङ्गमागताः।

    पोप् गायिका रिहाना भारतकृषकाणां ऐक्यदार्ढ्यं सूचितवती आसीत्। तत्पश्चादेव ग्रेट्टा त्युन्बे वर्या साहाय्येन सह रङ्गमागता।

Leave a Reply

Your email address will not be published. Required fields are marked *