मात्रा सह सुप्तं नवजातशिशुं वानरः अपाहरत्।

भुवनेश्वर् – मात्रा सह सुप्तं षोडशदिवसीयं शिशुम् अपहृत्य वानरः वनं गतः। ओडीषायां कटक् जनपदे तलाबस्त् ग्रामे एव इयं भीकरा घटना अजायत। शिशवे मार्गणं प्रचलन्नस्ति।

     वानरं शिशुमपहृतं दृष्ट्वा माता उच्चैः रुदित्वा जनान् आह्वयत्। तद्देशीयाः झटित्यागत्य अधिकृतान् सूचितवन्तः वनविभागाधिकारिभिः अग्निशमनसेनाधिकारिभिश्च मिलित्वा मार्गणमारब्धम्।

     अस्मिन् प्रदेशे दिवसेभ्यः पूर्वं केचन जनाः वानरैः आक्रमिताः आसन्। आवेदनं दत्वा अपि अधिकारिणः साहाय्यदानार्थं न सन्नह्यन्ते इति ग्रामवासिनाम् आरोपः।

One Response to मात्रा सह सुप्तं नवजातशिशुं वानरः अपाहरत्।

  1. വിജയൻ വി പട്ടാമ്പി says:

    वान रैर पि दुष्ट कर्माणि आरब्धा नि। हा । धिकू

Leave a Reply

Your email address will not be published. Required fields are marked *