Monthly Archives: March 2018
अङ्कीय जीवनशैल्याः सार्वत्रिकीकरणमेव लक्ष्यम् – मुख्यमन्त्री।
कोच्ची- अङ्कीय-जीवनशैलीं प्रावर्तिकं कर्तुं तथा सूचनातन्त्रज्ञानरंगे केरलस्य साध्यतां परमावधि प्रयोजनं कर्तुं च सर्वकारः यतते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। कोच्चीनगरे सम्पद्यमानां भाविनि गोलीय-सूचनातन्त्रज्ञान-उच्चकोटिम् (Future Globel IT Summit)उद्घाटयन्नासीत् सः।
विज्ञानमेव केरलस्य भविष्यः । बृहत् परिवर्तनमेव केरले सञ्जायते। अङ्कीयरङ्कस्य परिवर्तनानुसृतं यूनां वैदग्द्यमपि परिवर्तनीयं भवति। विश्व-गुणवत्तानुसृतं पश्चात्तलसौविध्यम् अत्रापि लभेत। ऐ.टी. पार्क् मध्ये/पि पश्चात्तलविकासः प्रचलन्नस्ति।
अन्तर्जालः प्रत्येकं पौरस्य अधिकारत्वेन प्रख्यापितः। गोलीय-सूचना-तन्त्रज्ञानस्य केन्द्रत्वेन केरलस्य परिवर्तनम् अावश्यकम् इत्येव अस्य मेलनस्य लक्ष्यम् इत्यपि स अवादीत्। एं केरला पब्लिक् वैफै मोबैल् आप् वेदिकायां तेन अनावृतम्।
गुरुप्रियपुरस्कारः बिजुमहोदयाय।
इरिङ्गालक्कुटा – विद्याभ्यासजिल्लायाः एतद्वर्षीयः गुरुप्रियपुरस्कारः विद्याभ्यासजिल्लास्तरीय-संस्कृतसमितेः कार्यदर्शी के.डि बिजुमहोदयाय घोषितः। अनेकवर्षाणि यावत् संस्कृतनाटकस्य संविधाने पाठने च भागमावहन् श्री बिजुः इरिङ्गालक्कुटायाः समीपस्थे परप्पूक्करा पि.वि.एस.एच्.एस् उच्चविद्यालये संस्कृताध्यापकः भवति। नववाणीसंरंभस्य प्रगत्यर्थं बहुप्रयत्नं कृतवानयं अध्यापकः। तस्य महोदयस्य कृते नववाणीसंघस्य सादरं अभिनन्दनानि।
संस्कृतं सूचनासाङ्केतिकविद्यां च संयोज्य गवेषणं कृताय करियात् अब्दुल् रषीद् वर्याय विद्यावारिधिबिरुदम्।
मलप्पुरम्- श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाः व्याकरणविभागात् करियत् अब्दुल् रषीद् इति छात्रः विद्यावारिधिबिरुदं स्वायत्तीकृतवान्। Analysis of Tantrayukti in the light of Sanskrit Grammer इति विषये अनेन गवेषणं कृतम्।
मलप्पुरं मक्करप्परम्ब् कालाव् देशस्थस्य सेय्तलवी हाजिनः कुट्टश्शेरि जमीलायाश्च पुत्रः भवति। अब्दुल् रषीद्। व्याकरणविभागे सहयोगप्राध्यापकस्य डो. एं.वी. नटेशवर्यस्य मार्गनिर्देशने एव सः प्रबन्धं समर्पितवान्।
संस्कृतव्याकरणशास्त्रं तन्त्रयुक्तिं च संगणकसाहाय्येन विशकलनं कर्तुं विषयप्रबन्धनव्यवस्था(Content Management System) रूपस्य ओपाल् ओप्पण् सेर्स् इत्यस्य साहाय्येनैव उपकरणमायेजितम्।
संस्कृतव्याकरणस्य आधाररूपाणां ४००० पर्यन्तं पाणिनीयसूत्राणां पदच्छेदः अर्थः समासः उदाहरणम् इत्यादीनि इदं टूल् उपयुज्य विशकलनं कुर्यात्। संज्ञा- विधि-नियम-अतिदेश-अधिकार-परिभाषासूत्राणि कृत्यतया विभज्य विशकलनं कर्तुम् अनेन साध्यं भवति। अध्यायः पादः सूत्रम् इति क्रम एव लब्धसम्पर्कोपकरणे/पि लभ्यं भवति।
आगामिनः अध्ययनवर्षादारभ्य विद्यालयीययानेषु गोलीयस्थाननिर्धारणरीतिम् अवश्यं कारयति।
तिरुवनन्तपुरम्- केरले सर्वेषु विद्यालयीययानेषु गोलीय-स्थाननिर्धारणरीतिम् आयोजयितुं सर्वकारनिर्देशः। आगामिनः अध्ययनवर्षादारभ्य इयं रीतिः प्राबल्ये भविता इति राज्य परिवहणमन्त्री ए.के. शशीन्द्रवर्यः विधानसभायाम् अवदत्। विद्यालयीयवाहनानां पीतवर्ण लेपनरीतिम् अवश्यरूपेणानुवर्तते। नियमोल्लङ्घनमवगन्तुं रक्षिदलं यान्त्रिकयानविभागश्च संयुक्ततया निरीक्षणं करिष्यति। सहप्रान्तीयपरिवहणाधिकारिणः नेतृत्वे विद्यालयेषु अध्यापकान् नियन्त्रकान् कृत्वा समितयः आसूत्रिताः। कार्यमिदम् अनूप् जेक्कब् इति सदस्यस्य ध्यानामन्त्रणोपक्षेपस्य समाधानरूपेण मन्त्रिणा उकितम्।
भिन्नलिङ्गयुक्तानां छात्राणां प्रमाणपत्रे प्रत्येकं कोष्टकम्।
तिरुवनन्तपुरम् – केरलेषु इतः परं दशमकक्ष्या-प्रमाणपत्रेषु भिन्नलिङ्गयुक्तानां छात्राणां प्रत्येकं कोष्टकं भविष्यति। विद्यालयीयरेखासु पुरुष-स्त्री इत्यत्र भिन्नलिङ्ग इति नूतनं किमपि कोष्टकं योजयितुं निर्णयः सर्वकारेण कृतः। लिङ्गपरिणामशस्त्रक्रियाद्वारा लिङ्गपरिणामं प्राप्तानां जनानाम् अपेक्षां परिगणय्यैव सर्वकारेणायं निर्णयः कृतः।
PRASNOTHARAM – 24-03-2018
प्रश्नोत्तरम्।
- ISL 2018 अन्तिमस्पर्धायां विजयं प्राप्तः क्रीडागणः कः?(क) बङ्गलूरु एफ् सी (ख) चेन्नैयिन् एफ् सी (ग) एफ् सी गोवा
- गतसप्ताहे दिवंगतः विख्यातः शास्त्रज्ञः कः ? (क) स्टीफन् होक्किन्स् (ख) जोर्ज् होक्किन्स् (ग) आन्टणी होक्किन्स्
- ” गच्छामि ” इति ————– । (क)प्रथमपुरुषैकवचनम् (ख) मध्यमपुरुषैकवचनम् (ग)उत्तमपुरुषैकवचनम्
- छात्रः काव्यं पठति । रेखाङ्कितस्य पदस्य लोट् रूपं किम् ? (क) पठतु (ख) पठथ (ग) पठानि
- ” क्री़डामि ” इति क्रियापदस्य प्रयोगे कर्तृपदं किम् ? (क) त्वम् (ख) अहम् (ग) सः
- ” तत्त्वमसि ” इत्यत्र क्रियापदं किम् ? (क) तत् (ख) त्वम् (ग) असि
- बालकः ——— गच्छति । (क) गृहस्य (ख) गृहम् (ग) गृहे
- भिक्षुकः कस्यचित् ———– गृहम् अगच्छत् ।(क) धनिकस्य (ख) धनिकात् (ग) धनिके
- महाभारतकथाम् आश्रित्य भासेन विरचितं नाटकम् । (क) अभिषेकनाटकम् (ख) प्रतिमानाटकम् (ग) ऊरुभङ्गम्
- ” अनपत्यता ” इति पदस्य अर्थः कः ? (क) पत्योः अभावः (ख)सन्तानराहित्यम् (ग) पुत्रलाभः
ഈയാഴ്ചയിലെ വിജയി
ANJANA M S, LFCHS IRINJALAKUDA
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- ANJANA M S, LFCHS IRINJALAKUDA
- ARCHANA K V, Kannur university B.Ed centre
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
चातका इव मानुषाः – 24-03-2018
पनसं केरलराज्यस्य राज्यफलम्, प्रख्यापनं २१ तमे दिनाङ्के।
कोट्टयम्- राज्यपशुः, राज्यपक्षी इत्यादिप्रख्यापनम् अस्माभिः सुस्वीकृतम्। अधुना राज्यफलमपि निर्णीतं भवति। पनसफलं केरलराज्यस्य राज्यफलत्वेन घोषितुम् उद्यमः आरब्धः। अस्य मासस्य २१ तमे दिनाङ्के आधिकारिकं प्रख्यापनं भविता इति कृषिमन्त्री वी.एस्. सुनिल् कुमार् वर्यः विधानसभायाम् अवदत्। विधानसभायामपि अस्य आधिकारिकी घोषणा भविता। राज्य कृषिविभागस्य आवेदनानुसारमेव प्रशासनस्यायं निर्णयः। राष्ट्रान्तरेष्वपि केरलानां पनसस्य चक्का इति मुद्रानाम स्वीकरिष्यति। अनेन १५००० कोटि रूप्यकाणाम् आयः भवेत्। एतस्य प्रारम्भरूपेण अधुना इयं घोषणा।
कथाकारः एम्. सुकुमारन् दिवंगतः।
तिरुवनन्तपुरम्- स्वसाहित्यरचनासु विप्लवराजनैतिकमूल्यानां स्थानं दत्तवान् कथाकारः तथा नोवल् कारश्च एम्. सुकुमारन् वर्यः कालयवनिकान्तर्गतः। स ७५ वययस्कः आसीत्। तीव्रज्वरसन्निपातेन श्रीचित्रा चिकित्सालये चिकित्सायामासीत्। ह्य रात्रौ सपादनववादने आसीदन्त्यम्। गतसप्ताहे हृदयसम्बन्धिशल्यचिकित्सायाः परं विश्रमं कुर्वन्नासीत्।
राज्यस्तरीयः कथापुरस्कारं,केरल साहित्य अक्कादमी पुरस्कारं, केन्द्रसाहित्य अक्कादमीपुरस्कारं च प्राप्तवान्।
पाठ्यपुस्तकानि मोबैल् आप् द्वारा, सेल्फी मोबैल् आप् इति नूतनपरियोजनया सह शिक्षाविभागः।
तिरुवनन्तपुरम्- सेल्फी मोबैल् आप् परियोजनया सह केरलीय शिक्षाविभागस्य नूतनपदविन्यासः। प्रथमतः द्वादशपर्यन्तं कक्ष्यायाः पाठपुस्तकानि आप् मध्ये लभ्स्यन्ते। छात्राः अध्यापकाश्च संयुज्य मोबैल् प्रयुक्तिं याथार्थ्यमकुर्वन्। आधुनिकपठनसङ्केतानि छात्रेभ्यः लभेरन् इति बुद्ध्यैव इदं मोबैल् आप् इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवोचत्।
राज्यस्थाः प्रथमतः द्वादशपर्यन्तं कक्ष्याः उच्चसाङ्केतिकरूपेण परिवर्तयन्ति। जीवनस्य सर्वेषु तलेषु आधुनिकीकरणं संजायमानं वर्तते। तस्य भागत्वेन छात्रेष्वपि तत् प्रापयत् इत्येव सेल्फी मोबैल् आप् दर्शयति। आप् शिक्षामन्त्री अनन्तपुर्यां प्राकाशयत्।
प्रथमघट्टे SSLC परीक्षायाः अन्तिमसज्जतायै सहायकरूपेण इदं निर्मितम्। ततः प्रथमतः द्वादशकक्ष्या पर्यन्तं सर्वान् विषयान् आप् मध्ये योजयिष्यति।