आगामिनः अध्ययनवर्षादारभ्य विद्यालयीययानेषु गोलीयस्थाननिर्धारणरीतिम् अवश्यं कारयति।

तिरुवनन्तपुरम्- केरले सर्वेषु विद्यालयीययानेषु गोलीय-स्थाननिर्धारणरीतिम् आयोजयितुं सर्वकारनिर्देशः। आगामिनः अध्ययनवर्षादारभ्य इयं रीतिः प्राबल्ये भविता इति राज्य परिवहणमन्त्री ए.के. शशीन्द्रवर्यः विधानसभायाम् अवदत्। विद्यालयीयवाहनानां पीतवर्ण लेपनरीतिम् अवश्यरूपेणानुवर्तते। नियमोल्लङ्घनमवगन्तुं रक्षिदलं यान्त्रिकयानविभागश्च संयुक्ततया निरीक्षणं करिष्यति। सहप्रान्तीयपरिवहणाधिकारिणः नेतृत्वे विद्यालयेषु अध्यापकान् नियन्त्रकान् कृत्वा समितयः आसूत्रिताः। कार्यमिदम् अनूप् जेक्कब् इति सदस्यस्य ध्यानामन्त्रणोपक्षेपस्य समाधानरूपेण मन्त्रिणा उकितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *