Daily Archives: March 4, 2018
पातिरप्पल्लि देशे भोज्यार्थं को/पि स्तेयं न कुर्यात्। तोमस् ऐसक् वर्यस्य नेतृत्वे निश्शुल्कं भोज्यम्।
आलप्पुषा-बुभुक्षापीडया कश्चन वनवासी भोज्यानि मुषितवान् इति कारणेन स सामान्यजनैः मारितःइति वार्ता केरलेषु चर्चाविषयः आसीत्। एषा घटना नावर्तनीया इति मत्वा पातिरप्पल्लिदेशे एका भोजनशाला आरब्धा। चतुर्विभवसमृद्धं भोज्यं भुक्त्वा धनप्रदानार्थं गच्छति चेत् तत्र धस्वीकाराय को/पि न भवेत्। धनमस्ति चेत् तत्र स्थापिते स्फाटिके पात्रे निक्षेप्तुं शक्यते। नो चेत् धनं विना अपि भोजनं लभेत। एतादृशं भोजनालयमारभ्य दारिद्र्यनिर्मार्जनार्थं प्रयतमानः भवति अस्माकं वित्तमन्त्री डो. टी.एम्. तोमस् ऐसक् वर्यः। भोजनालयस्य प्रवर्तनम् अद्य आरब्धम्।
PRASNOTHARAM – 10-03-2018
प्रश्नोत्तरम्।
- ” सैव ” अस्य सन्धिच्छेदः कः ? (क) सा + इव (ख) सा + एव (ग) सः + एव
- वानरराजस्य सुग्रीवस्य मन्त्त्री कः आसीत् ? (क) जाम्बवान् (ख) हनुमान् (ग) अङ्गदः
- ” शं नो वरुणः ” इति ध्येयवाक्यं कस्याः संस्थायाः भवति ? (क) भारत नौसेना (ख) भारत शासनम् (ग)भारत करसेना
- बालकः श्वः विनोदयात्रां —————–। (क) करोति (ख)कुर्वन्ति (ग) करिष्यति
- ————-पतितं तोयं सागरं प्रति गच्छति ।(क) आकाशेन (ख) आकाशात् (ग) आकाशस्य
- ” लेखनी ” शब्दस्य द्वितीया बहुवचनरूपं किम् ? (क) लेखन्यः (ख) लेखनीः (ग) लेखनीम्
- बृहत्तमं पुराणं किम् ? (क) गरुडपुराणम् (ख) स्कन्धपुराणम् (ग) अग्निपुराणम्
- एषु संस्कृत व्याकरणग्रन्थस्य नाम किम् ? (क) विक्रमोर्वशीयम् (ख) अष्टाध्यायी (ग) नारायणीयम्
- कविकुलगुरुः कः ? (क) कालिदासः (ख) भासः (ग) व्यासः
- एषु भासविरचितं नाटकं किम् ? (क) नागानन्दम् (ख) कर्णभारः (ग) अभिज्ञानशाकुन्तलम्
ഈയാഴ്ചയിലെ വിജയി
RAJALAKSHMI A
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരങ്ങള്
1.सा + इव
2.हनूमान्
3.भारत नौसेना
4.करिष्यति
5.आकाशात्
6.लेखनीः
7.स्कन्दपुराणम्
8.अष्टाध्यायी
9.कालिदासः
10.कर्णभारः
9 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- RAJALAKSHMI A
- Ahulya Ramesh
- Akshay Johny
- Adidev C S
- Sooryagayathri
- Bijoy M R
- Sharooq
- सुकुमारः
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
वितरति नववाणी निर्भयं सत्यवाणीम् – 10-03-2018
नूतनी समस्या –
“वितरति नववाणी निर्भयं सत्यवाणीम्”
ഒന്നാംസ്ഥാനം
सकलगुरुवराणां तामसं नाशयन्ती
निरुपमनिगमानां ज्योतिरुन्मेषयन्ती।
विजयरथसमेता नव्यसामर्थ्ययुक्ता
वितरति नववाणी निर्भयं सत्यवाणीम्।।
“അഭിനന്ദനങ്ങൾ”
अनन्तपुर्यां टेक्नोपार्क् मध्ये अग्निबाधा।
कषक्कूट्टम् – टेक्नोपार्क संस्थायां बृहती अग्निबाधा। द्वितीयघट्टस्थे गंगाप्रासादे द्वितीयसोपानस्थे आर्. एम्. एडुक्केषनल् सोलूषन् स्स्था मध्ये एव अग्निबाधा जाता। शौचालयसमीपस्थे मालिन्यभणडारे प्रथमम् अग्निः बाधिता। पुनः अग्निः सर्वत्र व्याप्ता। अग्निसेनासंघः तुरमागत्य अग्निं निरवाप। अनेन महादुरन्तः अपगतः। संस्थायाः विरामत्वात् त्रिंशत्परिमिताः कर्मकराः एव तत्रासन्। को/पि न रुग्णः जातः।