Daily Archives: March 11, 2018

भारतं मे प्रियङ्करम् – 17-03-2018

नूतनी समस्या –

“भारतं मे प्रियङ्करम्”

ഒന്നാംസ്ഥാനം

माता पिता गुरुर्देवं
सर्वन्तु प्रियमेव मे।
जन्मदेशत्वमापन्नं
भारतं मे प्रियङ्करम्।।

-Sridevi-

“അഭിനന്ദനങ്ങള്‍”

 

तमिल् नाटु तेनी प्रदेशे दावाग्निबाधा, छात्रसंघः काननमध्ये स्थगितः।

चेन्नै- तमिल्नाटु राज्ये मधुरासमीपस्थे तेनिदेशे दावाग्निबाधा। पठनयात्रार्थं काननमागतः छात्रसंघः काननमध्ये अन्तर्गतः। संघे चत्वारिंशत् छात्राः सन्ति। एकः हतः बहवः अग्निबाधया आहताश्च। रक्षाप्रवर्तनाय नौसेना सिद्धा भवति। सेनायाः हेलिकोप्टर् रक्षाप्रवर्थनार्थं प्रेषितम्।

PRASNOTHARM – 17-03-2018

 

         

 प्रश्नोत्तरम्

 

 

  1. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठं चलचित्रं किम् ? (क) टेक् ओफ् (ख)ओट्टमुऱि वेलिच्चम् (ग)तोण्डिमुतलुं दृक्साक्षियुम्
  2. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठः नटः कः ? (क) फहद् फासिल् (ख)विनायकः (ग) इन्द्रन्स्
  3. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठा नटी का ? (क) पार्वती (ख) सुरभी लक्ष्मी (ग) मञ्जु वार्यर्
  4. २०१७ तम वर्षस्य केरलराज्यस्तरीय चलचित्र पुरस्कारे श्रेष्ठः निर्देशकः(director ) कः ? (क) सञ्जु सुरेन्द्रः (ख)लिजो जोस् पल्लिश्शेरी (ग) वी सी अभिलाषः
  5. २०१७ तम वर्षस्य ओस्कार्  चलचित्र पुरस्कारे श्रेष्ठं चलचित्रं किम् ?(क) The Shape Of Water (ख) Get Out (ग) Moon Light
  6. वायवः ———–। (क) पञ्च (ख) त्रयः (ग) चत्वारः
  7. ” मनीषा ” सन्धिच्छेदं  किम् ? (क) मनः + ईषा (ख) मनो + ईषा (ग) मनस् + ईषा
  8. ” पितृ ” शब्दस्य षष्ठी एकवचनम् ।(क) पित्रा (ख) पितुः (ग) पितरि
  9. ” उदरम् ” इत्यर्थकं पदम् । (क) नासिका (ख) कुक्षिः (ग) भ्रमरः
  10. त्रिपुरा राज्यस्य नूतन मुख्यसचिवः कः ? (क)बिप्लव् कुमार् देव् (ख) कोण्राट् साङ्ग्मा (ग) नेफ्यू रियो

ഈയാഴ്ചയിലെ വിജയി

राम्, himasailam77@gmail.com

“അഭിനന്ദനങ്ങള്‍” 

ശരിയുത്തരങ്ങള്‍

  1. ओट्टमुऱि वेलिच्चम्
  2. इन्द्रन्स्
  3. पार्वती
  4. लिजो जोस् पल्लिश्शेरी
  5. The Shape of Water
  6. पञ्च
  7. मनस् + ईषा
  8. पितुः
  9. कुक्षिः
  10. बिप्लव् कुमार् देव्

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • राम्
  • SEETHA K KAPOTHAN
  • JANCY ANTONY
  • NIVYA A K
  • HARITHA RATHEESH
  • MALINI
  • ADITHYA P P

वातावरणव्यतियानं प्रतिरोद्धुमुपायाः वेदेषु सन्ति। – प्रधानमन्त्री।

नवदिल्ली-  वातावरणव्यतियानं प्रति आयोधनं कर्तुं मार्गः वेदेष्वस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अन्ताराष्ट्र सौरोर्जसख्यस्य स्थापकाधिवेशने भाषमाण आसीत् प्रधानमन्त्री। राष्ट्रपतिभवने सम्पन्ने अधिवेशने फ्रान्स् प्रधानमन्त्री इम्मानुवल् मार्षिण् वर्यः अपि वेदिकाय़ाम् उपस्थितः आसीत्।

     वेदाः सूर्यं लोकस्यात्मरूपेण पश्यन्ति। सूर्य एव जीवान् परिपालयति।वातावरणव्यतियानस्य दूष्याणि अनुभूयमाने अस्मिन् साहचर्ये परिहारत्वेन वेदनिर्देशाः परिगणनीयाः इति प्रधानमन्त्री सूचितवान्। सौरोर्जोपभोगवर्धनाय पद्धतयः आसूत्रणीयाः। तदर्थं सूचनासाङ्केतिकविद्या उपयोक्तव्या। ततः नूतनः उपगमः लभेत इत्यपि प्रधान मन्त्री अब्रवीत्। ऐक्यपाष्ट्रसभा मुख्यसचिवः अन्टोणियो गुट्टेरस्, वेनिस्वला राष्ट्रपतिः निकोलस् मदूरा, विदेशकार्य मन्त्री सुषमा स्वराजः प्रभृतयः भागमभजन्। अन्ताराष्ट्र- सौरोर्ज-सख्यस्य(ISA) प्रथमसम्मेलने ५० राष्ट्रेभ्यः प्रतिनिधयः समागताः आसन्।