पाठ्यपुस्तकानि मोबैल् आप् द्वारा, सेल्फी मोबैल् आप् इति नूतनपरियोजनया सह शिक्षाविभागः।

तिरुवनन्तपुरम्- सेल्फी मोबैल् आप् परियोजनया सह केरलीय शिक्षाविभागस्य नूतनपदविन्यासः। प्रथमतः द्वादशपर्यन्तं कक्ष्यायाः पाठपुस्तकानि आप् मध्ये लभ्स्यन्ते। छात्राः अध्यापकाश्च संयुज्य मोबैल् प्रयुक्तिं याथार्थ्यमकुर्वन्। आधुनिकपठनसङ्केतानि छात्रेभ्यः लभेरन् इति बुद्ध्यैव इदं मोबैल् आप् इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवोचत्।

     राज्यस्थाः प्रथमतः द्वादशपर्यन्तं कक्ष्याः उच्चसाङ्केतिकरूपेण परिवर्तयन्ति। जीवनस्य सर्वेषु तलेषु  आधुनिकीकरणं संजायमानं वर्तते। तस्य भागत्वेन छात्रेष्वपि तत् प्रापयत् इत्येव सेल्फी मोबैल् आप् दर्शयति। आप् शिक्षामन्त्री अनन्तपुर्यां प्राकाशयत्।

     प्रथमघट्टे SSLC परीक्षायाः अन्तिमसज्जतायै सहायकरूपेण इदं निर्मितम्। ततः प्रथमतः द्वादशकक्ष्या पर्यन्तं सर्वान् विषयान् आप् मध्ये योजयिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *