पश्चिमबंगाल् राज्यस्य नाम इतःपरं बग्ला इति ।

कोल्कत्ता- पश्चिमबंगाल् राज्यस्य नामपरिवर्तनार्थं स्वीकृतः निर्णयः राज्यविधानसभया अनुमतः। बंग्ला इति भवेत् नूतनं नाम। नामपरिवर्तनं प्राबल्ये भवितुं केन्द्र गृहमन्त्रालयस्य अनुमतिः अावश्यकी।

त्रिषु भाषासु नामपरिवर्तनमेव केन्द्रसर्वकारैः सूचितमासीत्। आङ्गले बंगाल् इत्येव, बंगाली भाषायां बंग्ला इति, हिन्दी भाषायां च बंगाल् इत्येवं केन्द्रसर्वकारस्य अभिमतं विरुध्य विधानसभायां बंग्ला इत्येव नाम स्वीकर्तुं निर्णयः अभवत्।

Leave a Reply

Your email address will not be published. Required fields are marked *