Category Archives: News Updates
कन्यास्त्रियं विरुध्य विवादपरामर्शः- सामाजिकस्य पी.सी. जेर्ज् वर्यस्य कृते विषमवृतिः बलिष्ठा अभवत्।
कोट्टयम् – विवादपरामर्शाः पि.सि. जोर्ज् वर्यं विषमवृत्ते अपातयन्। मुख्यपुरोहितेन पीडिता इत्यावेदयन्तीं कन्यास्त्रियं अपमानयन् तेन कृतः परामर्श एव व्यवहारहेतुः। राष्ट्रिय वनिता आयोगस्य पुरतः आगत्य विशदीकरणं दातव्यमिति आदेशं विरुध्य उच्चन्यायालये द्विवारं समर्पितम् आवेदनं स प्रतिगृहीतवान्।
विवादपरामर्शकारणात् सप्तेम्बर् २० दिनाङ्के नवदिल्यां वनितायोगस्यास्थानमागत्य विशदीकरणं दातव्यमित्यासीत् आयोगाध्यक्षायाः निदेशः।
अयं निदेशः प्रत्यावर्तनीय इति सूचयन् पूञ्ञार् मण्डलस्य सदस्य पी.सी. जोर्ज् वर्यः उच्चन्यायालये व्यवहारं समर्पितवान्। ततः आवेदनस्य स्थायित्वं न भवेदिति न्यायालयेन सूचितम्। अतः वनिता आय़ोगस्य पुरतः विशदीकरणम् अधुना तस्य कृते अनिवार्यं भवति।
गान्धिदर्शन् पुरस्कारार्थं दलै लाम वर्यः चितः, श्रेष्ठः मुख्यमन्त्री पिणरायि विजयः।
तिरुवनन्तपुरम्- गान्धी ग्लोबल् फौण्टेशन् संस्थानस्य गान्धीदर्शन् अन्ताराष्ट्रपुरस्कारं दलै लामा वर्यः प्राप्तवान्। लक्षत्रयरूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। श्रेष्ठस्य मुख्यमन्त्रिणः कृते पुरस्कारं केरलमुख्यमन्त्री पिणरायि विजयः अलभत। श्रेष्ठसामाजिकपुरस्कारं केन्द्रमन्त्री अरुण् जेटली वर्यः अलभत। आत्मीयसेवापुरस्कारार्थं श्री श्री रविशङ्कर् वर्यः मार्तोमा सभा मुख्यपुरोहितः फिलिप्पोस् मोर् क्रिस्टोस्टं वर्यश्च चितौ। मानवीय सेवापुरस्कारार्थम् आदिवासीवैद्या लक्ष्मिक्कुट्टी वर्या चिता।
स्वास्थ्यरंगस्य पुरस्कारार्थं कोट्टयं वैद्यकीयकलालयस्थः अध्यापकः टी.के. जयकुमारः पुरस्कारमलभत। प्रौद्योगिकपुरस्कारार्थं एं.ए. यूसफली, बी.आर्. षेट्टी, बी. गोविन्दश्च चिताः। मानवस्नेहपुरस्कारः यशश्शरीराय जोसफ् पुलिक्कुन्नेल् वर्याय मरणानन्तरबहुमतिरूपेण दीयते। तिरुवनन्तपुरं, नवदिल्ली, बंगलूरु इत्येतेषु नगरेषु पुरस्कारवितरणं भविता।
संस्कृतदिनाचरणं धिषणावृत्तिसम्माननं च।
इरिङ्गालक्कुटा – अस्य वर्षस्य संस्कृतदिनाचरणं श्री शङ्कराचार्यसर्वकलाशालायाः धिषणावृत्तिसम्माननं च संयुक्ततया इरिङ्गालक्कुटायां सुसम्पन्नम्। नटवरम्प् सर्वकारीयोच्चतरविद्यालये आयोजितस्य समारोहस्य उद्घाटनं श्री शङ्कराचार्यसर्वकलाशालायाः कुलपतिः डो. धर्मराज् अटाट्ट् वर्यः कृतवान्। उद्घाटनभाषणे कुलपतिना प्रोक्तं यत् देशस्य पैतृकं ज्ञातुं संस्कृतपठनम् अनिवार्यं भवति। येन केनापि धर्मेण संबद्धा भाषा भवति संस्कृतमिति प्रचारणं वास्तवविरुद्धमेव। यद्यपि इदानीन्तन राजनैतिकान्तरीक्षे तादृशी भावना आभारतं वर्तते तथापि केरलेषु तादृशी नास्त्येव। दशकानि यावत् धर्मनिरपेक्षं संस्कृतपठनपारम्पर्यं केरलराज्ये वर्तते । अनेन सोदाहरणं प्रोक्तं यत् धर्मभेदं वर्णभेदं च विहाय श्री पुन्नश्शेरि नीलकण्ठशर्मा महोदयस्य संस्कृतपठनकेन्द्रं, कुरियाक्कोस् महाभागेन पावरट्टीस्थले स्थापितं संस्कृतविद्यापीठं, तथा चावरा कुरियाक्कोस् पातिरिवर्येण मध्यतिरुवितांकूर् प्रदेशे स्थापिताः संस्कृतविद्यालयाः च। यत्र विश्वं भवत्येकनीडमिति भवितव्यं संस्कृतपिपठिषुणां भावना इत्यपि महानुभावेन कुलपतिना उक्तानि वचनानि समेषामूर्जदायकान्यासन्।
अनन्तरं सभायामस्यां गतवर्षे गुरुप्रिया पुरस्कारेण समादृतस्य के.टि बिजुवर्यस्य कृते समादरणं, अनौपचारिकपठनकेन्द्रे पठितृणां कृते प्रमाणपत्रवितरणं चादयः कार्यक्रमाः प्राचलन्। श्रीमती अम्बिकादेवी, श्री नासरुद्दीन्, एम्.के मोहनः, टि.टि.के भरतन्, श्रीमती जयश्री, श्री सुरेष् बाबू वर्याः च प्रभाषणमकुर्वन्।
कैरली चलचित्रनटः क्याप्टन् राजू दिवंगतः।
कोच्ची- सुप्रसिद्धः कैरलीचलचित्रनटः क्याप्टन् राजूवर्यः अद्य प्रातः ऐहिकं देहं तत्याज। स ६८ वयस्कः आसीत्। मस्तिष्कसम्बन्धिना आमयेन कञ्चित् कालं यावत् चिकित्सायामासीत्। मलयालचलनचित्रेषु प्रतिनायकरूपेण सहनटरूपेण च स स्वप्रतिभां प्रादर्शयत्। मलयालं, तमिल्, तेलुङ्क्, हिन्दी भाषासु ५०० अधिकेषु चलचित्रेषु स अभिनीतवान्। सैन्यसेवनानन्तरमेव स अभिनयरंगं प्राविशत्। १९८१ तमे वर्षे रक्तम् इति मलयाल चलचित्रे एव स प्रथमम् अभिनीतवान्।
फिलिप्पैन्स् राष्ट्रे मङ्घूट् चक्रवातेन ६४ जनानां मृत्युः।
होङ्कोङ्- फिल्प्पैन्स् राष्ट्रे शनिवासरे ६४ जनानां मृत्युकारणभूतः मङ्धूट् अाख्यः चक्रवातः ह्यस्तने दक्षिणचीनं प्रति प्रस्थितः। घोरया वृष्ट्या सह मृत्पात एव फिलिप्पैन्स् प्रविश्यायां मृत्युसंख्यामवर्धयत्। चक्रवातेन दक्षिणचीनायां २४ लक्षं जनाः सुरक्षितस्थानं नीताः, ५०००० मत्स्यबन्धननौकाः प्रत्याहूताश्च।
उत्तरफिलिप्पैस् स्थले खनिकर्मकराणां ग्रामे एव शनिवासरे चक्रवातेन महान् नाशः सञ्जातः। गृहभंगः मृत्पातश्च बहूनां जनानां मृत्योः कारणे अभूताम्। ४५ जनाः तिरोभूताः ३३ जनाः रुग्णाश्चाभूवन्।
दक्षिणचीनायां रक्तजाग्रतां प्राघोषयत्। गतदशकाभ्यन्तरे सञ्जातः महान् झञ्झावातः अयमिति होङ्कोङ् ओब्सर्वेट्टरी संस्थया सूचितम्। तत्र विमानयातायातं परित्यक्तमस्ति।
केरलप्रतिरूपं पुनरपि अन्वर्थमभवत्। प्रलयानन्तरं सांक्रमिकरोगप्रतिरोधे विजयमवाप – स्वास्थ्यमन्त्री।
कोच्ची- बृहतः विपदः सहयोगप्रवर्तनेन केरलराज्यं पारमानीतमि समाश्वासे वर्तते इति केरळीय स्वास्थ्यमन्त्री के.के. शैलजावर्या अवदत्। निपा विषाणुबाधनात् पश्चात् प्रलयानन्तरसांक्रमिकरोगादपि आरोग्यकेरलं रक्षामवाप इत्यस्मिन् विषये सन्तुष्टास्मीति स जगाद।
केरलप्रतिरूपं पुनरपि सार्थकमभवत्। आविश्वं प्रलयदुरन्तानन्तर-सांक्रमिकरोगाणां चरिते अवगते अधिका आशङ्का जाता। परन्तु सम्यगासूत्रितेन प्रवर्तनेन सांक्रमिकरोगप्रतिरोधे वयं विजयिनः अभवाम।
रोगाणां सफलप्रतिरोधार्थं आयोजिते तत्कालीनचिकित्सालये रुग्णानां संख्या न्यूना जाता। तद्वत् सांक्रमिकरोगाणां सूचना न लब्धा। अतः नियन्त्रकप्रकोष्ठानां तत्कालीन चिकित्सालयानां च प्रवर्तनम् अवसीयते इत्यपि सा अवदत्। तथापि सेवनसन्नद्धानां भिषजां साहाय्येन प्रतिरोधप्रवर्तनानि अनुवर्तिष्यन्ते। सर्वप्रकारान् जलजन्यरोगान् नियन्त्रणविधेयानभवदित्यपि सा असूचयत्।
जलन्धर् मुख्यपुरोहितः फ्राङ्को मुलक्कल् स्वस्थानमजहात्।
नवदिल्ली- मुख्यपुरोहितः फ्राङ्को मुलक्कल् जलन्धर् मुख्यपुरोहितपदवीं जहाति स्म। एतत् कार्यं सूचयन् मुख्यपुरोहितः स्वसमुच्चयस्थान् वैदिकान् प्रति पत्रं प्रेषितवान्। अधुना समुच्चयस्य भरणपरं दायित्वं मात्यु कोक्कण्टस्य नेतृत्वे त्रयाणां वैदिकानामस्ति।
भरणपरं दायित्वमेव केवलं स अजहात्। मुख्यपुरोहितरूपेण आध्यात्मिकपदवी तस्निन्नेव निक्षिप्तास्ति। स्थानत्यागस्य आवश्यकतां वत्तिक्कान् नगरात् निरदिशदिति सूचना।
गतदिने सी.बी.सी.ऐ. अध्यक्षः तथा मुम्बै आर्च बिषप् च कर्दिनाल् ओस्वाल् ग्रेष्यस् वर्यस्य कार्यालयात् लब्धां सूचनामनुसृत्य वत्तिक्कान् नगरात् निर्देशो आगतः इति स्थिरीकरोति। गतेषु दिवसेषु वत्तिक्कान् नगरे आसीत् कर्दिनालि ओस्वाल् ग्रेष्यस् वर्यः स ह्यस्तने मुम्बैनगरं सम्प्राप्तवान्।
वाप्यामुपमज्य छात्रस्य मरणम्, विद्याभ्यास उपाधिकारीप्रभृतयः नव जना गृहीताः।
कण्णूर्- उपजिल्लातल-तरणप्रतियोगितामध्ये नवमकक्ष्याछात्रस्य जले उपमज्यमरणम् उपलक्ष्य तलश्शेरि उपजिल्ला विद्याभ्यास अधिकारी, अध्यापकाश्चाहत्य नवजनाः निगृहीताः। तलश्शेरी जगन्नाथमन्दिरस्य वाप्याम् उपमज्य न्यूमाही एं.एं. उच्चतरविद्यालयस्थस्य हृत्विक् राज् इति छात्रस्य मृत्युमुपलक्ष्यैव एते निगृहीताः।
तलश्शेरि ए.इ.ओ. सनकन्, प्रतियोगितासमित्यामन्तर्भूताः अब्दुल् नसीरि, मुहम्मद् सक्करिया, मनोहरन्, करुणन्, वी.जे.जयमोल्, पी.षीन, सोफिन् जोण्, सुधाकरन् पिल्ला प्रभृतयः एव रक्षिसंघेन निगृहीताः। भारतीयदण्डनियम ३०४ ए अनुसारं नरहत्याविषये व्यवहारः पञ्चीकृतः।
वल्लत्तोल् साहित्यसमितेः वल्लत्तोल् पुरस्कारः अस्मिन् वर्षे एं मुकुन्दन् वर्याय।
तृशूर्- वल्लत्तोल् साहित्यसमितेः ऐषमः वल्लत्तोल् पुरस्कारं प्रसिद्धसाहित्यकाराय एं मुकुन्दन् वर्याय दास्यति। मलयालसाहित्याय दत्तं समग्रयोगदानम् अभिलक्ष्यैव पुरस्कारः कल्पितः।११११११ रूप्यकाणि कीर्तिफलकञ्च पुरस्कारे अन्तर्भवन्ति। ओक्टोबर् १६ दिनाङ्के अनन्तपुर्यां तीर्थपादमण्डपे आयोज्यमाने समारोहे पुरस्कारं प्रदास्यति।
रूप्यकस्य मूल्यं पुनरपि अपचितम्। डोलरं प्रति रूप्यकस्य मूल्यम् अद्य ७२.९२.जातम्।
नवदिल्ली- रूप्यकस्य मूल्यं पुनरपि ऐतिहासिकायां न्यूनतायां पतति। बुधवासरे प्रातः डोलरं प्रति ७२.९२ पदव्याम् आगतम् रूप्यकाणां विनिमयमूल्यम्। विदेश-निक्षेपकाः राष्ट्रस्थविपणीतः परावर्तन्ते इत्येतदेव मूल्यशोषणस्य प्रधानं कारणम्। कुजवासरे १४५४ कोटि रूप्यकाणाम् अंशकान् ते विक्रीतवन्तः। विकस्वरविपणीतः मुद्रापत्राणि विक्रीय अतिसुरक्षितं डोलरं प्रति निक्षेपं परिवर्तयन्ति निक्षेपकाः। एतदपि रूप्यकस्य मूल्यशोषणे कारणमस्ति।











