लोकसभायाः वयनाट् सदस्यः एं ऐ षानवास् वर्यः कालकबलीभूतः।

चेन्नै- वरिष्ठः कोण्ग्रेस् दलनेता तथा वयनाट् मण्डलस्य लोकसभासदस्यः एं ऐ षानवास् वर्यः अन्तरधात्। बुधवासरे प्रातः ३.३० वादने चेन्नै नगरे अप्पोलो चिकित्सालये आसीत् अस्यान्त्यं। नवम्बर् २ दिनाङ्के यकृन्निरोपणार्थं शस्त्रक्रियाचिकित्साम् अतीतः आसीत्।

     अयं वर्यः अधुना केरला प्रदेश् कोण्ग्रेस् समितेः प्रवर्तनाध्यक्षः भवति। छात्र-युवकसंघेषु राज्यस्तरीयं नेतृत्वम् अनेन निर्व्यूढम्। अस्य भौतिकं देहम् अद्य केरलमानेष्यति। संस्कारकर्म श्वः एरणाकुलं तोट्टप्पल्ली स्थले भविता।

Leave a Reply

Your email address will not be published. Required fields are marked *