Category Archives: News Updates

अध्यापकेन प्लस् टू परीक्षा लिखिता, अस्यां घटनायां निस्संगतया विद्यालयाधिकारिणः।

कोषिक्कोट् – मुक्कं नीलेश्वरं सर्वकारीय उच्चतरविद्यालये अध्यापकः छात्राणां कृते परीक्षामलिखत्। अस्यां घटनायां विद्यालयाधिकारिणः अध्यापकं कट्वालोचयन्। अस्मिन् विद्यालये अध्यापकः भवति निषाद् मुहम्मद्। स स्वमेधया एव एनां प्रवृत्तिं कृतवान् न तु परप्रेरणया इति विद्यालयाधिकारिण‌ः वदन्ति।

विद्यालये शतप्रतिशतं विजयं प्रतीक्ष्य अन्यैरध्यापकैः समालोच्य एव एतां प्रवृत्तिं स अकरोदिति पूर्वं आरोपणमासीत्। तदेव अधुना अन्यैरध्यापकैः निरस्तम्। सम्भवेन सम्बग्धौ द्वौ छात्रौ आर्थिकपरतया पश्चात्पङ्क्तौ भवतः।

परीक्षायाम् अतिरिक्त मुख्याधिकारी आसीत् निषाद् मुहम्मद्। स दशवर्षाणि यावत् अस्मिन्नेव विद्यालये कर्म करोति। सम्भवेस्मिन् रक्षिदलान्वेषणं प्रचलदस्ति। अन्वेषणस्य भागत्वेन त्रयः अध्यापकाः विद्यालयात् तात्कालिकतया निष्कासिताः।

उच्चतरमाध्यमिकपरीक्षाफलं प्रख्यापितम्, ८४.३३ प्रतिशतं विजयः।

तिरुवनन्तपुपम्- अस्य वर्षस्य उच्चतरमाध्यमिकपरीक्षाफलं घोषितम्। एच्.एस्.एस्, वी.एच्.एस्, एस्, ए.एच्.एस्.एस्. परीक्षाणां फलानि सममेव घोषितानि। उच्चतरमाध्यमिकस्तरे ८४.३३ प्रतिशतं छात्राः उपरिपठनाय अर्हाः अभवन्।

     स्कोल् केरला इति मुक्तविद्यालयसंस्थाद्वारा पञ्जीकृतेषु २५६१० छात्राः विजयिन‌ः अभवन्। तत्र ४३.४८ प्रतिशतमेव विजय‌ः।

     सर्वकारीय विद्यालयविभागे १५५४८७ छात्रेषु १२९११८ छात्राः, धनादत्तविद्यालयविभागे १८७२९२ छात्रेषु १६१७५१ छात्राः च विजयिन‌ः अभवन्। निजीयविद्यालयविभागे २६२३५ छात्रेषु २०२८९ छात्राः विजयिनः अभवन्। १२ सर्वकारीय विद्यालयाः २५ धनादत्तविद्यालयाः ३४ निजीयविद्यालयाश्च सम्पूर्णविजयमवापुः।

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।

तृश्शूर्- संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. जयन्ती शिल्पशालायाः उद्घाटनं करिष्यति।चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।डा. महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।

एस्.एस्.एल्.सी. परीक्षाफलं प्रकाशितम्, ९८.११ शतमितं विजयः।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी टि.एच्.एल्.सी. परीक्षाफलं प्रख्यापितम्। एस्.एस्.एल्.सी. परीक्षायां ९८.११ प्रतिशतं छात्राः उपरिपठनाय योग्याः अभवन्। ३७३४४ छात्राः सर्वेषु विषयेषु ए प्लस् श्रेणीं प्राप्ताः।
विजयशतमाने पत्तनंतिट्टा जिल्ला अग्रे सरति। तत्र परीक्षां लिखितेषु ९९.३३ शतमितं छात्राः विजयिनः अभवन्। वयनाट् जिल्ला विजयशतमाने पश्चात्तिष्ठति। तत्र ८३.२२ प्रतिशतं छात्राः एव विजयं प्राप्ताः। शिक्षा मण्डलेषु कुट्टनाट् शिक्षामण्डलम् अग्रे तिष्ठति।
मलप्पुरं जिल्लायां सर्वेषु विषयेषु ए प्लस् श्रेणीं लब्धाः छात्राः अधिकाः सन्ति।तत्र २९४३ छात्राः एवं सन्ति। राज्ये ५९९ सर्वकारीणविद्यालयाः ७१३ धनादत्त विद्यालयाः तथा ३९१ निजीयविद्यालयाश्च १०० प्रतिशतं विजयं प्राप्ताः।

एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति।

तिरुवनन्तपुरम्- अस्य वर्षस्य एस्.एस्.एल्.सी. परीक्षाफलं श्वः प्रकाशयिष्यति। टी.एच्.एस्.एल्.सी.,ए.एच्.एस्.एल्.सी. परीक्षयोः फलप्रख्यापनमपि अनेन सहैव सम्पत्स्यते। ४३५१४२ छात्राः अस्मिन् वर्षे परीक्षामलिखन्। मध्याह्ने द्विवादने शिक्षामन्त्री रवीन्द्रनाथवर्यः फलप्रख्यापनं विधास्यति।

     एप्रिल् पञ्चमे दिने एव मूल्यनिर्णयं समारब्धम्। ५४ मूल्यनिर्णयकेन्द्रेषु घट्टत्रयोण मूल्यनिर्णयं प्रचलति स्म। एप्रल् २९ पर्यन्तं मूल्यनिर्णयमभवत्। पी.आर्.डी. लैव, कैट् संस्थायाः सफलं २०१९ इत्यादिषु मोबैल् आप् विद्यासु  तथा शिक्षाविभागस्य सर्वेषु जालपुटेषु च परीक्षाफलमुपलभ्यते।

S S L C RESULT ……..click here

आगोलभीकराणां पट्टिकायां मसूद् असर्, अमेरिकायाः नयतन्त्रविजयः इति मैक् पाम्पियो।

वाषिङ्टऩ्- मसूद् असर् इति भीकरः आगोलभीकरत्वेन घोषितः इत्येतत् अमेरिकायाः नयतन्त्रविजय एवेति अमेरिका राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। मसूद् असरः भीकरपट्टिकायां अन्तर्भावनीयः इति प्रमेयः चीनाराष्ट्रेण एतावत्पर्यन्तं नानुकूलितः आसीत्। आधिकारिकप्रमाणान् परीक्ष्य बोध्यमभवदित्यतःइतःपरं प्रत्याक्षेपो न भविता इति चीनराष्ट्रेण विज्ञप्तम्। अतः एव अधुना आगोलभीकरघोषणा जाता।
जैय्षे मुहम्मद् इति भीकरसंघस्य नेता मसूद् असर् विषये अनुयोगं कृतेभ्यः सर्वेभ्यो अभिनन्दनानी व्याहृत्य मैक् पोम्पियो वर्यः इदमप्यवदत् यत् चिरकालं यावत् प्रतिपाल्यमानः अयं विजयः अमेरिकानयतन्त्रस्य विजय एवेति। अन्ताराष्ट्रसमाजस्य विजयः तद्वत् पश्चिमेष्यायां शान्तेः पदविन्यासश्च इत्यपि स ट्विट्टर् मध्ये सूचयामास।

फोनी चक्रवातः ओडीषा तीरं प्रस्थितः, अतितीव्रचक्रवातरूपेण परिणामः स्यात्।

तिरुवनन्तपुरम्- फोनी चक्रवातः ओडीषा तीरं प्रति वाति इति वातावरणविभागस्य विज्ञप्तिः। अतितीव्रचक्रवातरूपेण परिणमति चेदपि स्थलदेशं बाधते वा न वा इति अधुना न प्रवक्ति।
सोमवासरे सायं काले चेन्नै तीरात् ८१० की.मी. दूरे एव फोनी संस्थिता। मनाक् शर्तिक्षये अपि कुजवासरे पुनः तीव्रतां प्राप्स्यति इति वातावरणविभागः प्रवक्ति। वुधवासरे गतिपरिवर्तनेन ओडीषा तीरं प्राप्स्यति, गुरुवासरे तत्र अतितीव्ररूपेण स्थास्यति।

केरलेषु अस्य तीव्रता न स्यादिति सूचना। तथापि केषुचित् मण्डलेषु शक्तः वातः वृष्टिश्च भविष्यतीति जाग्रता निर्देशः अस्ति।

समग्रशिक्षा केरलम् अस्मिन् वर्षे १४०० कोटि रूप्यकाणां वार्षिकपरियोजना समार्पयत्।

तिरुवनन्तपुरम्- समग्रशिक्षा केरलम् इत्यभियानं आगामिनि अध्ययनवर्षे १४०० कोटि रूप्यकाणां वार्षिकपरियोजना समर्पयितुमे उद्यते। सर्वशिक्षा अभियान् तथा राष्ट्रिय माध्यमिक शिक्षा अभियान् च संयोज्य समग्रशिक्षा केरलम् इति नूतनम् अभियानं रूपवत्कृतमासीत्।

     पाठपुस्तकानि गणवस्त्राणि मध्याह्नभोजनं अध्यापकप्रशिक्षणं  शास्त्रविषयाणां समाजशास्त्रविषयाणां भाषाविषयाणां च अध्ययने विशेषश्रद्धादानाम् इत्येतेषां कृते एव धनविनियोगः स्यात्। गतवर्षे ७३९ कोटि रूप्यकाणि आर्.एं.एस्.ए तथा एस्.एस्. ए च व्ययीकुर्वाते स्म।

एस्.एस्. एल्.सी. परीक्षाफलं मेय् प्रथमे वारे।

तिरुवनन्तपुरम्- मार्च् मासे प्रचलितायाः एस्.एस्.एल्.सी. परीक्षायाः मूल्यनिर्णयं समाप्तप्रायं भवति। फलप्रख्यापनं मेय् मासस्य अष्टमे नवमे व तिथौ भविता। सममेव उच्चतरपरीक्षायाः फलप्रख्यापनमपि स्यात्। इदं प्रायः मेय् नवमे तिथौ भविता। अस्याः परीक्षायाः मूल्यनिर्णयं एप्रिल् ३० दिनाङ्कावधि समाप्तिमेष्यति।

     परीक्षाप्रचालनं मूल्यनिर्णयं च दोषरहितया रीत्या सम्पन्नम्। फलप्रख्यापनमपि अनवद्यरूपेण भविष्यतीति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथलर्यः न्यगादीत्। अस्मिन् वर्षे प्रायः सार्धचतुर्लक्षं छात्राः परीक्षामलिखन्। निजीयरूपेण द्विसहस्रं छात्राः अपि परीक्षां लिखितवन्तः। प्लस् टु परीक्षार्थं सार्धत्रिलक्षं छात्राः पञ्जीकृतवन्तः आसन्।

केरलेषु सम्मतिदानं ७७.६८ प्रतिशतम्, गतेषु त्रिषु शतकेषु उन्नतं मतदानमानम्।

तिरुवनन्तपुरम्- सप्तदशतमे लोकसभानिर्वाचने प्रचारणरंगे इव मतदानेपि अत्युत्साहमपश्यत्। राज्ये अत्युन्नतं मतदानमानं सूचितम्। ७७.६८ प्रतिशतं सम्मतिदायकाः स्वकीयं मतदानाधिकारं उपायुञ्जत। २०१४ तमे वर्षे ७४-०२ आसीत् मतदानमानम्।
प्रातः सप्तवादने एव मतदानमारब्धम्। अनवरतं अनुवर्तमाना मतदानप्रक्रिया केषुचित् स्थलेषु अर्धरात्रं यावत् व्याप्ता अभवत्। अत एव यथार्थं मतदानमानम् आगामिनि दिने एव व्यक्तं भवति।
अतिशक्ता त्रिकोणप्रतियोगिता यत्र यत्र संजाता तत्र तत्र मतदानमानं अधिकं सूचितम्। तिरुवनन्तपुरं पत्तनंतिट्टा तृशूर् कण्णूर् वयनाट् मण्डलेषु मतदानमानं क्रमाधिकं वर्धितमपश्यत्। कण्णूर् मण्डलं मतदानमाने अग्रिमस्थाने अस्ति। काण्ग्रेस् दलाध्यक्षस्य राहुल् गान्धिनः मत्सरेण विख्याते वयनाट् मण्डले ८०.९ शतमितं मतदानं सूचितम्। एतत् सार्वकालिकोन्नतं वर्तते।