Category Archives: News Updates

द्वितीयः नरेन्द्रमोदीसर्वकारः अद्य अधिकारं गृहीष्यति।

नवदिल्ली – नरेन्द्रमोदीवर्यस्य नेतृत्वे द्वितीयं मन्त्रिमणडलम् अद्य सायं सप्तवादने शपथं गृहीत्वा अथिकारम् आवहति। सायं सप्तवादने दिल्ल्यां राष्ट्रपतिभवने एव समारोहः।

     दिल्ल्यां भ.ज.पा दलस्य राष्ट्रियाध्यक्षः अमित् षा वर्येण सह नियुक्तप्रधानमन्त्री नरेन्द्रमोदी चर्चामायोजयत्। बृहती चर्चा समापन्ना। चर्चायाः अनन्तरं मन्त्रिणां पट्टिका समायोज्ता। राजनाथ सिंह्, स्मृति इरानी, निर्मला सीतारामन्, प्रकाश् जावदेकर्, रविशङ्कर् प्रसाद्, नरेन्द्रसिंह् तोमार्, अजुन् मेखवाल् इत्येते अस्मिन् मन्त्रिमण्डले अपि  अनुवर्तेत। एते मोदिना सहैव शपथं गृहीष्यन्ति।

     राष्ट्रपतिभवने इतःपर्यन्तमायोजितेषु शपथसमारोहेषु बृहत्तमं भविष्यत्ययं समारोहः। समारोहे 6500 अधिकाः जनाः भागं भजिष्यन्ते। धनमन्त्री अरुण् जेय्टिलीवर्यः स्वास्थ्यहेतोः मन्त्रिमण्डले न भविष्यति। एतत् संसूच्य स प्रधानमन्त्रिणे लेखं प्रैषयत्। मोदीवर्यः ह्यस्तने रात्रौ जेय्टिलीवर्येण साक्षात्कारमकरोत्। सुषमा स्वराज्वर्या अपि एतेनैव कारणेन मन्त्रिमण्डले न भविता। सख्यदलानां प्रतिनिधयः अपि अद्यैव शपथं स्वीकरिष्यन्ति।

महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे डो. साबु तोमस् वर्यः नियुक्तः।

कोट्टयम्- महात्मागान्धी सर्वकलाशालायाः कुलपतिपदे  राज्यपालः तत्रत्योपकुलपतिं डो. साबू तोमस् वर्यं न्ययुङ्क्त। चतुर्वर्षपरिमितोयं नियोगः। साबू तोमस् वर्यः तत्रैव उपकुलपतेः कर्म निर्वहन् सः डो.बाबू सेबास्ट्यन् वर्यस्य विरामानन्तरं कुलपतेः अतिरिक्तपदवीं निरूढः आसीत्।

     गोरख्पूर् ऐ.ऐ.टी.तः विद्यावारिधिबिरुदं सम्पाद्य अयं १९८७ तमे वर्षे सर्वकलाशालायाम् अध्यापको अभवत्। पोलिमर् केमिस्ट्री विषये शास्त्रज्ञः अयं राष्ट्रे अस्मिन् विषये पञ्चमः पण्डितः अस्ति। अपि च कोच्ची शास्त्र-साङ्केतिक सर्वकलाशालातः अयं तान्त्रिकबिरुदमपि सम्पादितवान्। बहवः ग्रन्थाः अपि अयं व्यरचयत्।

लोकराष्ट्राणां मध्ये भारतस्य विनष्टं स्थानम् आगामिनी पञ्चवर्षाभ्यन्तरे प्रत्यानेष्यति – प्रधानमन्त्री नरेन्द्रमोदी।

अहम्मदाबाद् – लोकराष्ट्राणां मध्ये विनष्टं भारतस्य उन्नतं स्थानम् आगामिनि पञ्चवर्षाभ्यन्तरे प्रत्यानेष्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः अवदत्। लोकसभानिर्वाचनानन्तरम् आयोजिते सार्वजनीनाधिवेशने भाषमाणः आसीत् सः। आधुनिकावस्था १९४२-४४ कालघट्टमनुस्मारयति। कार्याणि बहूनि कर्तव्यानि सन्ति।

सूरत् नगरे सञ्जातायाः अग्निबाधायाः पश्चात्तले अतिललितरूपेणैव अधिवेशनम् आयोदितम्। अग्निबाधायां मृतेभ्यो २२ छात्रेभ्यो स श्रद्धाञ्जलिं समार्पयत्।

सूरत्त् नगरे अग्निबाधा – अष्टादशजनाः मृताः।

सूरत्त् – गुजरातराज्यस्य सूरत्त् नगरे एकस्मिन् पाठ्यपरिशीलनकेन्द्रे तीव्रतरा अग्निबाधा प्रचलति। इतःपर्यन्तम् अष्टादशजनाः मृताः। अद्य सायं प्रवर्तितायाम् अग्निबाधायां सर्वे स्तब्धाः। पाठ्यपरिशीलनाय आगताः बालिकाबालकाः एव अग्निबाधया बाधिताः । आवाससौधस्य तृतीयाट्टात् छात्राणां बहिःपतननदृश्यानि माध्यमेषु प्रचलन्ति। मृतानां संख्या इतोपरि भविष्यतीति शङ्का अपि वर्तते।

निर्वाचनं समाप्तम्, तैलेन्धनानां मूल्यं वर्धते।

तिरुवनन्तपुरम्-  लोकसभानिर्वाचनस्य अन्तिमघट्टमतदानं समाप्तं, अन्येद्युः शिलातैलानां मूल्ये महद् वर्धनं सञ्जातम्। ह्यस्तने पेट्रोल्, डीजल् इन्धनानां मूल्यं यथाक्रमं  प्रतिलिट्टर् नवपैसा षोडशपैसा च वर्धिता।

     कोच्चीनगरे पेट्रोल् मूल्यं 73.3 रूप्यकाणि डीजल् मूल्यं 69.67 रूप्यकाणि च वर्तते अद्य। पूर्वं पञ्च राज्यानां विधानसभायाः कृते निर्वाचनावसरे तथा कर्णाटकविधानसभानिर्वाचनावसरे च इन्धनानां मूल्ये प्रतिदिनवर्धनं नासीत्। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यवर्धनमेव अत्र कारणत्वेन वदति। क्रूडोयिल् मूल्यम् अधुना प्रतिबारल् 72.23 डोलर् मितं भवति।

लोकसभानिर्वाचनम् अद्य समाप्तिमेति। अद्य प्रातरारभ्य मतदानार्थं महान् सम्मर्दः।

नवदिल्ली- सप्तदशतमायै लोकसभायै निर्वाचनम् अद्य समाप्तिमेति। तदर्थं मतदानं समारब्धम्। सप्त राज्यानि एकं केन्द्रप्रशासनप्रदेशश्चान्तर्भूय ५९ मण्डलेषु २०१९ लोकसभानिर्वाचनस्य अन्तिमघट्टे अद्य मतदानं भविष्यति। उत्तरप्रदेशे १३, पञ्चाबे १३, पश्चिमवंगे ९, बीहारे ८, झार्घण्डे ३, हिमाचलप्रदेशे ४ तथा चण्डीगडे च अद्य मददानं भवति।

     प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रतियोगितास्थले वाराणस्यां प्रथमहोरायां मतदानार्थं महान् सम्मर्दः अनुभूतः।

     दशकोटिमिताः जनाः ९१२ स्थानाशिनां भविष्यनिर्णेतारः भवन्ति अन्तिमे अस्मिन् घट्टे। अद्य सायं एक्सिट् पोल् फलं प्रकाशयिष्यति। मेय् २३ तमे दिनाङ्के एव फलप्रख्यापनं भवति।

नवीनपरम्परावित्तकोशस्य आक्सिस् बेन्क् इत्यस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि।

नवदिल्ली – स्वयंप्रेरितदायकयन्त्रस्य (ए.टि.एम्) उपयोगः अद्य सर्वसाधारणः भवति। धनस्य आवश्यकता यदा भवति तदा ए.टि.एम् समुपगम्य पत्रं सज्जीकृत्य स्वकीयायां भर्तिकायां यावद्धनमस्ति तावत् निबन्धनानुसारं स्वीकर्तुं शक्यते इति तत्र विशेषः। चोरभयं विना धनविनियोगः अनेन साध्यः भवति।

     अस्मिन् यन्त्रे एतावत्पर्यन्तं  भाषात्रयमेव उपयोक्तुं शक्यमासीत्। आङ्गलभाषा, राष्ट्रभाषा तथा प्रादेशिकभाषा च। अधुना आक्सिस् बेन्क् इति नवीनपरम्परावित्तकोशस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि आयोजिता वर्तते। उपयोक्तारः भाषाचयनावसरेषु संस्कतभाषामपि चेतुं प्रभवन्ति। वित्तकोशस्य एषः निर्णयः संस्कृतप्रेमिभिः नितरां स्वीकृतः।

पुल्वामा स्थले सङ्घर्षः, एकः सैनिकः द्वौ अतङ्कवादिनौ च मारिताः।

पुल्वामा- जम्मु-काश्मीर् सुरक्षासेनया सह पुनरपि भीकरवादिनां सङ्घर्षः अजायत। सङ्घर्षे एकः सैनिकः मृतः, द्वौ भीकरौ च मारितौ। बहवः सैनिकाः कश्चन ग्रामीणश्च रुग्णाः अभवन्। द्वौ भीकरौ सजीवं गृहीतौ च।

     पुल्वामा जिल्लायां दलिपोर मेखलायां प्रातः सङ्घर्षः अजायत। अधुनापि द्वौ पक्षौ गोलिकाप्रहारे निरतौ स्तः। प्रदेशेस्मिन् आन्तरजालसेवा तात्कालिकेन स्थगिता वर्तते।

अद्य पूरमहोत्सवः। तृशूर् नगरं पूरलहर्यां निमग्नम्।

तृशूर्-  इतः परं ३० होराः अविरामं पूरप्रयाणाय भवन्ति। सोमवासरे प्रातरारभ्य कुजवासरे मध्याह्नं यावत् सर्वे पन्थाः विश्वस्य अपूर्वसौन्दर्यसंगमस्थलाः जायन्ते। रविवासरे पूरविलम्बरस्य अलङ्कारप्रदर्शनस्य च समये स्वयमानन्दनिर्वृतिम् अनुभवितुं जनसहस्राणि आगतानि। तेक्किन्काट् स्थले आरोग्यपरिशोधनानन्तरं करिवरान् पङ्क्तौ विन्यस्य प्रादर्शयत्। एतत् हस्तिप्रेमिणां आस्वाद्यकरमभवत्। रात्रौ दीपालङ्कारद्युतिना क्षेत्रगोपुराणि प्रदक्षिणपथं स्वप्ननगरीमकुर्वन्।

     मेषमासे पूर्वाषाढनक्षत्रे प्रसिद्धं तृशूर् पूरमाचरति। अष्टघटकदेशानां पुराघोषः पूरनगरम् आवेशोज्वलं कारयति। पारमेक्काव् देवस्थानं तथा तिरुवम्पाटिदेवस्थानं च पूरनगरे करिवरान् मुखामुखं विन्यस्य छत्रपरिवर्तनादीन् आचारान् निर्वक्ष्यतः। अन्ते पटह-स्फोटकादीनां ध्वनिना साकं पूराघोषस्य समापनं च भवति। विश्वप्रसिद्धमिमं पूराघोषं साक्षात्कर्तुं देशविदेशेभ्यः सहस्रपरिमिताः जनाः तृशूर्नगरं सम्प्राप्ताः सन्ति।

उपजीवनोपकरस्य ऋणशेषं मेय् १५ दिनाङ्कात् प्रभृति दास्यति।- वित्तमन्त्री।

तिरुवनन्तपुरम्- सर्वकारीणकर्मकरेभ्यः अध्यापकेभ्यश्च देयः उपजावनोपकर-ऋणशेषः धनरूपेणैव दीयते इति सर्वकारस्य वाग्दानं पालयति। आगामिनि १५ दिनाङ्कात् प्रभृति दिनत्रयेण वेतनवितरणक्रमेण ऋणशेषं धनरूपेणैव दास्यति। एतदर्थं ११०० कोटिरूप्यकाणि आवश्यकानि।

वृत्तिविरतानां क्षामाश्वास-ऋणशेषः धनरूपेणैव तेषां भर्तिकायां निक्षिप्तः। एतदर्थं ६०३ कोटिरूप्यकाणि व्ययीकृतानि।

२०१८ जनुवरि १ तः ऋणशेषं प्राप्तः २ शतमितं तथा जूलै तः ऋणशेषं प्राप्ताः ३ शतमितं च उपजीवनोपकरं एप्रिल् मासे वेतनेन सहैव अदात्। तयोः ऋणशेष एवाधुना धनरूपेणैव दीयते।

लोकसभानिर्वाचनस्य भूमिकायां विभवसमाहरणे केन्द्रसर्वकारेण कानिचन नियन्त्रणानि आनीतानि। अतः अस्य वितरणार्थं १५ दिनानि अतीतानि। अनेन ऋणशेष धनरूपेणैव दीयते इति सर्वकारस्य धनादेशनिर्देशः पालितः।