पाठ्यपुस्तकात् परिणामसिद्धान्तोपि निष्कासितः।

नवदिल्ली- राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः(एन्-सि-इ-आर्-टि) पाठ्यक्रमपरिष्करणस्य भागत्वेन दशमकक्ष्यायाः शास्त्रपाठ्यपुस्तकात् डार्विनस्य परिणामसिद्धान्तः निष्कासितः इत्यतः शास्त्ररङ्गे महान् प्रतिषेधः सञ्जातः।

डार्विन् सिद्धान्तस्य निष्कासने ब्रेक् त्रू सयन्स् इत्यस्य नेतृत्वे शास्त्रज्ञाः अध्यापकाश्च प्रतिषेधम् आशङ्कां च सूचितवन्तः। राष्ट्रे शास्त्रज्ञाः अध्यापकाः शास्त्राध्यापकाः प्रभृतयः १८०० जनाः सर्वकाराय अनावृतं लेखं प्रेषितवन्तः। डार्विन् परिणामसिद्धान्तस्य पाठनम् अनुवर्तनीयम् इत्यपि ते असूचयन्।

Leave a Reply

Your email address will not be published. Required fields are marked *