Category Archives: News Updates
एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः।
तिरुवनन्तपुरम्- २०२० जनुवरी प्रथमदिनाङ्कात् प्रभृति केरलेषु एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः। व्यक्तयः, संस्थापनानि, निगमानि उद्योगानि च पलास्तिकवस्तूनां निर्माणे विक्रयणे परिवहणे च सन्नद्धानि न स्युः। अस्ति चेत् तत् दण्डार्हं भवति।
प्रथमघट्टे १०००० रूप्यकाणां दण्डः, पुनरावर्तने २५००० रूप्यकाणां दण्डः, पुनरपि लङ्घने ५०००० रूप्यकाणां दण्डः इत्येव क्रमः। अस्य मासस्य १५ तिथिपर्यन्तं दण्डनकार्यक्रमः न भवेत्। विशेषः मार्गनिर्देशः परिष्ठितिविभागेन दीयते।
कुटुम्बश्री संस्थया पलास्तिकानां स्थाने उपयुज्यमानस्य स्यूतस्य निर्माणे व्यापृता वर्तते।
नागरिक संशोधन नियमं प्रतिकूल्य केरल विधानसभायां प्रमेयः, मुख्यमन्त्रिणं विरुध्य अधिकारलंघनव्यपदेशः।
नवदिल्ली- केरलविधानसभायाम् अद्य प्रस्तुतः नागरिकसंशोधननियमप्रतिकूली प्रमेयः जनसभायाः अधिकारलङ्घनमेवेति भा.ज.पा. सदस्यः नरसिंहरावु वर्यः। स केरलमुख्यमन्त्रिणं विरुध्य अधिकारलङ्घनव्यपदेशः प्रस्तुतवान्। केरलविधानसभायाः अयं श्रमः प्राशासनिकमण्डले अस्थिरतां जनयति इति नरसिंहरावुवर्यः असूचयत्।
अधिकारलङ्घनव्यपदेशः शुक्रवासरे सम्पत्स्यमानायां समित्यामेव परिगणनीयः इति स आवेदयति स्म। केरल विधानसभायां प्रमयस्य प्रतिकूले एकमङ्गमेवासीत्। अन्ये सर्वे प्रमेयं समर्थयन्ति स्म।
उटुप्पि पेजावार् मठाधिपः विश्वेशतीर्थस्वामी समाधिमापन्नः।
उटप्पी- पेजावारमठाधिपतिः विश्वेशतीर्थस्वामी समाधिमाप्तः एते 88 वयस्काः आसन्। न्यूमोणिया इति श्वासकोषामयेन आन्तरिकावयवानां प्रवर्तनस्तम्भ एव मृत्युकारणम्। श्वासभङ्गेन स्वामिनं मणिप्पाल् कस्तूर्बा चिकित्सालं दिसम्बर् 20 दिनाङ्के प्रावेशयत्। तदनि एकसप्ताहं यावत् तीव्रपरिचरणविभागे आसीत्।
उटुप्पा अष्टमठेषु अन्यतमः भवति पेजावारमठः चिकित्सालयात् स्वामिनः इच्छानुसारं तं मठं पुनः प्रावेशयितुं मठाधिकृताः पण्डितवर्याश्च निरणयन्। तदनुसारं रविवासरे पातः चिकित्सालयात् तं मठ् प्रावेशयत्। ततः स्वामी तत्रैव समाधिं प्राप्तवान्।
ब्रिट्टीष् विद्याभ्याससम्प्रदायेन भारतीयशास्त्रपुरोगतिः विगणिता – वि मुरलीधरः।
आलूर् -चतुर्दशशतककालीनं ज्योतिशास्त्रज्ञं संगमग्राममाधवम् अनुस्मरन् बहुमान्यः केन्द्रीयमन्त्री वि मुरलीधरः न्यगादीत् यत् भारतीयगणितपद्धतेः खगोलशास्त्रस्य च परम्परायां संगमग्राममधवस्य मुख्यं स्थानमस्तीति। तृशूर् जिल्लायां इरिङ्गालक्कुटा-आलूर् प्रादेशिको∫यं शास्त्रज्ञः इरिङ्ङाटप्पिल्लि नामके गृहे १३४० तमे वर्षे जन्म प्राप्तवान्। तस्य प्रशस्तज्योतिशास्त्रग्रन्थः भवति गोलवादः। तस्य अनुस्मरणार्थम् आयोजितं सम्मेलनं समुद्घाटयन् आलूर् श्रीनारायणमण्डपे भाषमाणः केन्द्रमन्त्री अद्यतनवर्षस्य माधवगणितपुरस्कारान् समर्पितवान्। सम्मेलने∫स्मिन् पूर्वतन पि.एस्.सि अध्यक्षः श्री के.एस् राधाकृष्णमहोदयः अध्यक्षपदमलंकृतवान्। कॊच्चिन् मरैन् सर्वकलाशालायाः उपकुलपतिः आलप्पाट् रामचन्द्रः, एन्.सि इन्दुचूडः, सतीशन् अविट्टत्तूर्, ए विनोदः, सुभाष् च भाषणमकुर्वन्।
श्रेष्ठप्रशासनव्यवस्था- केरलम् अष्टमे स्थाने, प्रथमस्थाने तमिल्नाटु राज्यम्।
नवदिल्ली- राष्ट्रे श्रेष्ठं प्रशासनम् अनुवर्तमानेषु राज्येषु तमिल् नाटु राज्यं प्रथमस्थाने वर्तते। केन्द्रीय-वैयक्तिकमन्त्रालयस्य अनुसूचिकायामेव तमिल् नाटु राज्यस्य प्रकर्षः सूचितः। अनुसूचिकायां केरलम् अष्टमस्थाने वर्तते। द्वितीयस्थाने महाराष्ट्रराज्यमेव। कर्णाटकस्य तृतीयस्थानं वर्तते।
राज्य-केन्द्रभरणप्रदेशानां प्रशासनस्य श्रेष्ठतामवगन्तुं कृते मूल्याङ्कने त्रितलरीतिरेव अवलम्भिता। बृहन्ति राज्यानि उत्तरपूर्वगिरिसानुराज्यानि, केन्द्रप्रशासनप्रदेशाश्च एषु परिकल्पिताः।
छत्तीस्गढ् राज्यं चतुर्थे स्थाने, पञ्चमे आन्ध्राप्रदेशं, षष्टे गुजरात्, सप्तमे हरियाणा च। मध्यप्रदेशं नवमे स्थाने पश्चिमवंगः दशमे, तेलङ्काना एकादशे राजस्थान् द्वादशे, पञ्चाब् त्रयोदशे ओडीषा चतुर्दशे बिहार् पञ्चदशे गोवा षोडशे उत्तरप्रदेशः सप्तदशे झार्खण्ट् आष्टादशे च स्थाने वर्तते।
उत्तरपूर्व गिरिसानु राज्येषु हिमाचलप्रदेशः प्रथमस्थाने वर्तते।
केन्द्रप्रशासितप्रदेशेषु पोण्टिच्चेरी प्रथमस्थाने एव। प्रशासनव्यवस्था राज्यसर्वकाराणां योगदानं इत्यादीन्यनुसृत्यैव सूचिका सज्जीकृता।
अस्य दशकस्य बृहत्तमं सूर्यग्रहणं दिसम्बर् २६ तमे दिनाङ्के।
तिरुवनन्तपुरम्- सूर्यग्रहणं प्रत्युद्गन्तुं केरलाः सज्जाः भवन्ति। दिसम्बर् २६ तमे दिनाङ्के प्रातः ८.०५ तः ग्रहणं दृश्यं स्यात्। आधुनिकशास्त्रावबोधस्य न्यूनावस्थायाम् बहवः अन्धविश्वासाः ग्रहणमधिकृत्य प्रचलिताः आसन्। ग्रहणसमये जनाः भीताः सन्तः गृहान्तर्भागे तिष्ठन्तः आसन् अनतिविदूरे काले। अद्यापि तादृशाः विश्वासाः जनानां मध्ये सन्ति। साङ्केतिकविद्यायाः अतिद्रुतप्रगतावपि असमाभिः अन्धविश्वासाः न त्यक्ताः इत्येतत् विरोधाभास एव।
शास्त्रीयं विज्ञानम् अधिगन्तुं तत् इतरेभ्यो वितरीतुम् असुलभः अवसर एवाधुना समायातः। विद्यालयेषु इतरेषु विज्ञानकेन्द्रेषु च सूर्यग्रहणं निरीक्षितुम् अवसरः समायोजयन्ति। एतद् विज्ञानं समार्जयितुं सर्वे बद्धश्रद्धाः भवेयुरिति मुख्यमन्त्री अवदत्।
सेनानाम् एकोपनाय एकव्यक्तिः, चीफ् आफ् डिफन्स् स्टाफ् इति पदव्यां नियुक्त्यर्थं केन्द्रप्रशासनस्य अङ्गीकारः।
नवदिल्ली- भारते सर्वसेनाङ्गानां मुख्यः(सी.डी.एस्) पदवीमायोजयितुं केन्द्रसर्वकारः अङ्गीकारमदात्। नूतनत्वेन रूपवत्क्रियमाणस्य सेनाविभागस्य मेधावी जनरल् पदवीयुक्तः सी डी एस् भविता।
सेनाविभागस्य सचिवानां ये अधिकाराः सन्ति ते सी डी एस् इति सेनामुख्यस्यापि भविष्यतीति मन्त्री प्रकाश् जावदेक्कर् वर्यः अवदत्। अपि च सर्वकारस्य सैनिकोपदेष्टा तथा सैन्याधिपसमितेः अध्यक्षश्च सी डी एस् एव भविष्यति।
स्थलसेना नौसेना वायुसेना इत्येतेषां अधिपेषु वरिष्ठः भवेत् सेनामुख्यः। अनेन सेनात्रयस्य प्रवर्तनानाम् एकोपनं सुगमं भविष्यति।
दिल्लां पुनरपि अग्निबाधा नव जनाः मृताः।
नवदिल्ली- उत्तरदिल्यां सञ्जातायाम् अग्निबाधायां नव जनाः मृताः। १२.३० वादने वस्त्रसंभरणशालायामासीत् अग्निबाधा। अट्टत्रयप्रासादस्य निम्नतरनिलये एव सम्भरणशाला स्थिता वर्तते। ततः बहिः गन्तुं एक एव सोपानमार्गः अस्ति। अपि च अग्निं शमयितुम् उपायाः न सज्जीकृताः आसन्। एतत्सर्वं दुरन्तस्य आघातं वर्धयामास।
दहनतप्तान् समीपस्थे सञ्जयगान्धी चिकित्सालये प्रावेशयत्।
केरल-साहित्य-अकादमीपुरस्काराः घोषिताः, नोवल् विभागे उष्णराशिः इत्यस्य पुरस्कारः।
तृशूर्- केरल-साहित्य-अकादमीपुरस्काराः तृशिवपुरे घोषिताः। के.वी. मोहन् कुमार् वर्यस्य उष्णराशि इति नोवल् श्रेष्ठकृतिरूपेण चिता। स्करिया सक्करिया नलिनी बेकल्, ओ.एं अनुजन्, एस् राजशेखरन्, मणम्पूर् राजन् बाबू इत्येते समग्रयोगदानपुरस्काराय अर्हाः अभवन्।
कैरलीसाहित्याय गण्यं योगदानमर्पितान् षष्टिवयसः अधिकान् साहित्यकारानेव समग्रयोगदानम् इति विभागे परिगणयन्ति।३०००० रूप्यकाणि साक्ष्यपत्रं सुवर्णोत्तरीयं फलकं च पुरस्कारे अन्तर्भवन्ति।
वी. मधुसूदनन् नायर् शशी तरूर् च केन्द्रसाहित्य अक्कादमीपुरस्कारेण आदृतौ।
नवदिल्ली- प्रशस्तः कैरलीकविः वी. मधुसूदनन् नायर् वर्याय केन्द्र साहित्य अक्कादमीपुरस्कार। अच्छन् पिरन्न वीट् इति काव्यस्यैव पुरस्कारः। आङ्गलविभागे आन् इरा आफ् डार्कनेस् इति ग्रन्थस्य रचयिता शशी तरूर् वर्यः पुरस्काराय अर्हो अभवत्।
एकलक्षं रूप्यकाणि प्रशस्तिपत्रं तथा फलकं च पुरस्कारे अन्तर्भवति। अक्षरोत्सवमभिलक्ष्य दिल्याम् आयोज्यमाने विशेषाधिवेशने फेब्रुवरी २५ दिनाङ्के पुरस्कारान् समर्पयिष्यति।
कैरलीविभागे पुरस्कारनिर्णेतारः भवन्ति डो. चन्द्रमती, एन्.एस् माधवन्, प्रोफ. तोमस् मात्यू च। डो. जी.एन्. देवी, डो. के. सच्चिदानन्दन्, प्रोफ. सूगन्धा चौधरी इत्येते आङ्गलविभागे पुरस्कारनिर्णेतारः आसन्। २३ भाषासु ग्रन्थानाम् अद्य पुरस्काराः घोषिताः












