Category Archives: News Updates

धर्मस्य सीमा नास्ति, अष्टसु राज्येषु हैन्दवानां न्यूनपक्षपदवीं प्रार्थयत् आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अष्टसु राज्येषु हैन्दवानां न्यूनपक्षपदवीं प्रार्थयत् आवेदनं सर्वेच्चन्यायालयेन निरस्तम्। भा.ज.पा दलस्य नेत्रा अश्विनी कुमार् उपाध्याय वर्येण २०१७ तमे वर्षे समर्पितम् आवेदनमेव एवं निरस्तम्।

     मिजोराम्, नागालान्ट्, मेघालय, जम्मू काश्मीर्, अरुणाचल् प्रदेश्, मणिपूर्, पञ्चाब् राज्येषु तथा लक्षद्वीपे च हैन्दवान् न्यूनपक्षाविभागान् कर्तुमेव आवेदने अभ्यर्थितमासीत्।

     राज्यस्याधारेण नास्ति, राष्ट्रस्याधारेणैव नूनपक्षनिर्णयः इति न्यायालयः अवदत्। धर्मः भारते सर्वत्र वर्तते न तु राज्यानां राष्ट्रियाधारेण इति मुख्यन्यायाधिपः असूचयत्। न्यूनपक्षनिर्णयाय विशेषमानदण्डस्यायोजनम् अशक्यम् इत्यपि स असूचयत्। पूर्वं सर्वकारीण न्यायविदग्दस्य अभिप्रायः न्यायालयेन चोदितः आसीत्।

नागरिक संशोधन विधेयकं विरुध्य अद्य संयुक्तसत्याग्रहः।

तिरुवनन्तपुरम्- नागरिकनियमं विरुध्य केरले प्रशासक-विपक्षदले संयुक्ततया सत्याग्रहसमरम् आयोजयतः। सोमवासरे प्रातः दशवादनात् मध्याह्ने एकवादनं यावत् पालयं रक्तसाक्षिमण्डपे एव सत्याग्रहः। संविधानविरुद्धं नागरिकनियमं प्रत्यपायनीयं संविधानमूल्यानि संरक्षणीयानि इत्यादीनी मुद्रावाक्यानि उन्नीयैव सत्याग्रहः।
मुख्यमन्त्री पिणरायि विजयः विपक्षदलनेता रमेश् चेन्नित्तला, मन्त्रिणः, वामपक्षीय लोकतान्त्रिक सन्नाहस्य तथा ऐक्यलोकतान्त्रिकसन्नाहस्य च नेतारश्च सत्याग्रहे भागं गृहीष्यन्ति। अस्य सर्वकारस्य काले केन्द्रनियमं विरुध्य प्रशासकविपक्षदलयोः संयुक्तसमरं प्रथममेव।
कला साह्त्य सांस्कृतिकमण्डलस्थाः प्रमुखाः लोकतन्त्रसंरक्षणार्थं प्रवर्तमानानि दलानि, नवोत्थानसमितिप्रवर्तकाश्च अस्मिन् समरे भागं गृह्णन्ति।

षिन्सो आबे वर्यस्य भारतसन्दर्शनं निरस्येत।

टोक्कियो- रविवासरे भारतसन्दर्शनाय उद्यतः जपान प्रधानमन्त्री षिन्सो आबे वर्यः स्वकीयां यात्राम् उपेक्षयेत्। रविवासरादारभ्य  गुहावत्यां दिवसत्रयात्मकं शिखरसम्मेलनम् आयोजयितुं पूर्वं निश्चितमासीत्।

     इदानीं नागरिक संशोधन विधेयकम् अनुबन्ध्य आराष्ट्रं प्रक्षोभं प्रचलदस्ति। अतः शिखरमेलनस्य वेदिकापरिवर्तनं भवेदिति सूचना आसीत्। एतदनन्तरमेव जपान प्रधानमन्त्रिणः भारतसन्दर्शनम् उपेक्षितम् वर्तते।

     नागरिक संशोधन विधेयकस्य प्राबल्यं विरुध्य राष्ट्रे प्रचलितानि प्रक्षोभणानि आपाततः अक्रमासक्तानि जातानि। तस्मात् असमराज्यस्य राजधान्यां गुहावत्यामपि निरोधनाज्ञा घोषिता वर्तते। अपि च एतेषु प्रान्तेषु आन्तरजालसेवनमपि निरस्तं वर्तते। अत एव शिखरसम्मेलनस्य वेदिकापरिवर्तनं जातम्।

राष्ट्रिय पौरत्वविधेयकस्य राज्यसभायाः अनुमतिः।

नवदिल्ली- राष्ट्रिय पौरत्वविधेयकं राज्यसभया अनुमितम्। १२५ सदस्यानां सम्मतिः जाता। परं १०५ सदस्याः विरुद्धतां प्रकटयामासुः। विधेयकं चयनसमितं प्रषणीया इति आवेदनं पूर्वमेव राज्यसभायां मतदानेन निरुद्धमासीत्। तत्र १२४ सदस्याः चयनसमितिप्रेषणविषये विरोधं प्राकटयन्, परं ९९ सदस्याः अन्वकूलयन्। के.के. रागेष् वर्यः एव आवेदनं प्रस्तुतवान्।

पौरत्वविधेयकं न केभ्यो द्रुह्यति, न कस्यापि धर्मविभागस्य विरुद्धतां च जनयति इति केन्द्रीय गृहमन्त्री अमित् षा वर्यः अवदत्। न्यूनपक्षजनविभागानाम् अनीत्याशङ्का अस्थाने एवेत्यपि स अब्रवीत्।

अयोध्याव्यवहारे पुनःशोधावेदनेन समं ४० सामाजिकप्रवर्तकाः।

दिल्ली – अयोध्याव्यवहारे पुनःशोधार्थम् आवेदनं समर्पयन्तः ४० सामाजिकप्रवर्तकाः सर्वोच्चन्यायालयं समुपगताः। इर्फान् हबीब्, प्रभात् पट्नायक् प्रभृतयः ४० शिक्षाविचक्षणाः तथा सामाजिकप्रवर्तकाश्च न्यायालयं समुपगताः।

राष्ट्रस्य सांस्कृतिकवैविध्यस्य धर्मनिरपेक्षतायाश्च विरुद्धः भवति सर्वोच्चन्यायालयस्य निर्णय इति ते अवदन्।
अयोध्या रामजन्मभूमिः स्यात्, तथापि तत्र मन्दिरं प्रभञ्ज्यैव मस्जिदः निर्माणं जातमित्यस्य न कोपि अवलम्भः अस्ति इत्यपि आवेदने सूचयति।

उपनिर्वाचने पराजयः, सिद्धरामय्या त्यागपत्रमदात्।

बङ्गलूरु- कर्णाटकविधानसभायाः १५ मण्डलेषु प्रचलिते उपनिर्वाचने कोण्ग्रेस् दलेन महान् पराजयः अपाप्तः। अतः कोण्ग्रेस् दलस्य विधानसभानेतृस्थानं विपक्षदलनेतृस्थानं च त्यक्तवान् सिद्धरामय्या वर्यः। पराजयस्य धार्मिकम् उत्तरदायित्वं स्वयं स्वीकृत्यैव तस्य स्थानत्यागः। प्रदेश काण्ग्रेस् अघ्यक्षः गुण्डुरावु वर्योरि त्यागपत्रं दातुं सन्नद्धः इति श्रूयते।

संस्कृतपठनम् अद्यापि प्रसक्तम्- मन्त्री कटकंपल्लि सुरेन्द्रन्।

तिरुवनन्तपुरम्- संस्कृतभाषा साहित्यपठनम् अद्यापि अतीव प्रसक्तमिति देवस्वं विभागमन्त्री अवदत्। तिरुवनन्तपुरं संसकृतकलालयस्य प्रत्यागमनं २०१९ इति पूर्वछात्रशिक्षकमेलनम् उद्घाटयन् भाषमाणः आसीदयम्।
अधःस्थितानाम् अनुसूचितजातीनां च कृते संस्कृतपठनं निषिध्यमाने काले तेषां कृते संस्कृतस्य वातायनम् उद्घाटयन्ती आसीदेषा कलाशाला इत्यपि स न्यगादीत्।
प्राचार्यचरा डो.लैला प्रसाद् वर्या अध्य़क्षा आसीत्। मधुरस्मितम् इति संस्कृते प्रथमस्य बालकानां चलनचित्रस्य निदेशकं सुरेष् गायत्री वर्यं अधिवेशने अभ्यनन्दयत्।

उन्नावे बलात्सङ्गव्यवहारे अभिशस्तैः पावकेन ज्वालिता युवती मृता।

नवदिल्ली- उत्तरप्रदेशस्थे उन्नाव् स्थले बलात्सङ्गव्यवहारे अभिशस्तैः सङ्घैः अग्निना ज्वालिता युवती मृता। २३ वयस्का युवती दिल्लीस्थे सफदर्जङ् चिकित्सालये शुक्रवासरे रात्रौ ११.३० वादने एव मृता इति वैद्येष्वेकः डो. षलाब् कुमार् अवदत्। ९० शतमितं दग्धां युवतीं कृत्रिमश्वासदायिकां प्रवेशयति स्म। तथा पृथर् तीव्रपरिचरणविभागः सज्जीकृता च।

बलात्सङ्गव्यवहारमनुबन्ध्य व्यवहारविमर्शार्थं राय्बरेलीस्थं न्यायालयं गच्छन्ती आसीत् युवती। तदानीं गृहस्य समीपे पञ्चाङ्गसंघः ताम् आक्रम्य अग्निज्वालनमकरोत्। एषु द्वौ बलात्सङ्गव्यवहारे अभिशस्तौ भवतः।

अस्याः घटनायाः अन्वेषणार्थं विशिष्टान्वेषणसंघः घोषितः। सहारक्षिनिदेशकस्य विनोद् पाण्डे वर्यस्य नेतृत्वे पञ्चाङ्गसंघः रूपीकृतः।

राहुल् गान्धिनः प्रभाषणं कैरल्याम् अनूदितवती सफा नामिका एकादशवर्गीया छात्रा।

करुवारक्कुण्ट्- त्रिदिवसीयं पर्यटनं विधातुं वयनाट् लोकसभासदस्यः राहुल् गान्धीवर्यः ह्यः रात्रौ मण्डलं प्राप्तः। अद्य प्रातः करुवारक्कुण्ट् सर्वकारीण उच्चतरविद्यालये शात्रपरीक्षणशालायाः उद्घाटनमेव प्रथमः कार्यक्रमः आसीत्। तत्र एकादशवर्गीया छात्रा फात्तिमा सफा सर्वेषां प्रशंसाभाजनमभवत्। प्रभाषणाय सन्नद्धे राहुल् गान्धिनि कैरलीपरिभाषार्थं सफा आमन्त्रिता अभवत्।

रक्षाकर्तृभिः सहपाठिभिः सह सदसि उपविष्टमाना आसीत् सफा। राहुल् गान्धिनः आमन्त्रणं स्वीकृत्य सा वेदिकां प्रविष्टा। ततः राहुल् गान्धिनः प्रभाषणं पूर्णतया कैरल्याम् अनूद्य सफा साधारणजनान् प्रापयत्। प्रभाषणानन्तरं सर्वे नेतारः सफाम् अभ्यनन्दयत्। जनानां करघोषैः सह राहुल् गान्धिनः प्रभाषणं तत् परिभाषां च जनाः स्वीचक्रुः।

अनुद्योगिता १०० शतमितं वर्धिता इति उद्योगमन्त्री।

नवदिल्ली- मोदीप्रशासनकाले अनुद्योगिता १०० प्रतिशतं वर्धितेति लोकसभायाम् उद्योगमन्त्रिणः प्रत्युत्तरम्। २०१३-१४ वर्षे ३.४ शतमितमासीत् वृत्तिहीनता। परं २०१७-१८ वर्षे षट्प्रतिशतम् अङ्किता वर्तते इति उद्योगमन्त्री सन्तोष् कुमार् गंगवार् वर्यः कोटिक्कुन्निल् सुरेष् इति सदस्याय सप्रमाणं प्रतिवचनमदात्।

२०१५-१६ वर्षे ३.७ शतमितमासीत् अनुद्योगिता। वृत्तिनिर्णयाधिकृताः तथा राष्ट्रिय स्थितिविज्ञान कार्यालयश्च युगपदायोजिते सर्वेक्षणे एव एषा अवस्था दृष्टेति मन्त्रिणः प्रत्युत्तरे सूचयति। महात्मगान्धी राष्ट्रिय ग्रामीण वृत्तिसंरक्षणयोजना, दीनदयाल् ग्रामीण कौशल योजना, दीनदयाल् अन्त्योदय योजना इत्येतैः द्वारा अधिकान् वृत्यवसरान् संस्रष्टुं सर्वकारः यतते इत्यपि मन्त्री अवदत्।

राज्यस्थासु सार्वजनीन संस्थासु बृहत् उद्योगसंस्थासु च वृत्तिलभ्यता न्यूनीभवति इति सर्वकारस्य सूचना अस्ति।