Category Archives: News Updates

संस्कृतपठनम् अद्यापि प्रसक्तम्- मन्त्री कटकंपल्लि सुरेन्द्रन्।

तिरुवनन्तपुरम्- संस्कृतभाषा साहित्यपठनम् अद्यापि अतीव प्रसक्तमिति देवस्वं विभागमन्त्री अवदत्। तिरुवनन्तपुरं संसकृतकलालयस्य प्रत्यागमनं २०१९ इति पूर्वछात्रशिक्षकमेलनम् उद्घाटयन् भाषमाणः आसीदयम्।
अधःस्थितानाम् अनुसूचितजातीनां च कृते संस्कृतपठनं निषिध्यमाने काले तेषां कृते संस्कृतस्य वातायनम् उद्घाटयन्ती आसीदेषा कलाशाला इत्यपि स न्यगादीत्।
प्राचार्यचरा डो.लैला प्रसाद् वर्या अध्य़क्षा आसीत्। मधुरस्मितम् इति संस्कृते प्रथमस्य बालकानां चलनचित्रस्य निदेशकं सुरेष् गायत्री वर्यं अधिवेशने अभ्यनन्दयत्।

उन्नावे बलात्सङ्गव्यवहारे अभिशस्तैः पावकेन ज्वालिता युवती मृता।

नवदिल्ली- उत्तरप्रदेशस्थे उन्नाव् स्थले बलात्सङ्गव्यवहारे अभिशस्तैः सङ्घैः अग्निना ज्वालिता युवती मृता। २३ वयस्का युवती दिल्लीस्थे सफदर्जङ् चिकित्सालये शुक्रवासरे रात्रौ ११.३० वादने एव मृता इति वैद्येष्वेकः डो. षलाब् कुमार् अवदत्। ९० शतमितं दग्धां युवतीं कृत्रिमश्वासदायिकां प्रवेशयति स्म। तथा पृथर् तीव्रपरिचरणविभागः सज्जीकृता च।

बलात्सङ्गव्यवहारमनुबन्ध्य व्यवहारविमर्शार्थं राय्बरेलीस्थं न्यायालयं गच्छन्ती आसीत् युवती। तदानीं गृहस्य समीपे पञ्चाङ्गसंघः ताम् आक्रम्य अग्निज्वालनमकरोत्। एषु द्वौ बलात्सङ्गव्यवहारे अभिशस्तौ भवतः।

अस्याः घटनायाः अन्वेषणार्थं विशिष्टान्वेषणसंघः घोषितः। सहारक्षिनिदेशकस्य विनोद् पाण्डे वर्यस्य नेतृत्वे पञ्चाङ्गसंघः रूपीकृतः।

राहुल् गान्धिनः प्रभाषणं कैरल्याम् अनूदितवती सफा नामिका एकादशवर्गीया छात्रा।

करुवारक्कुण्ट्- त्रिदिवसीयं पर्यटनं विधातुं वयनाट् लोकसभासदस्यः राहुल् गान्धीवर्यः ह्यः रात्रौ मण्डलं प्राप्तः। अद्य प्रातः करुवारक्कुण्ट् सर्वकारीण उच्चतरविद्यालये शात्रपरीक्षणशालायाः उद्घाटनमेव प्रथमः कार्यक्रमः आसीत्। तत्र एकादशवर्गीया छात्रा फात्तिमा सफा सर्वेषां प्रशंसाभाजनमभवत्। प्रभाषणाय सन्नद्धे राहुल् गान्धिनि कैरलीपरिभाषार्थं सफा आमन्त्रिता अभवत्।

रक्षाकर्तृभिः सहपाठिभिः सह सदसि उपविष्टमाना आसीत् सफा। राहुल् गान्धिनः आमन्त्रणं स्वीकृत्य सा वेदिकां प्रविष्टा। ततः राहुल् गान्धिनः प्रभाषणं पूर्णतया कैरल्याम् अनूद्य सफा साधारणजनान् प्रापयत्। प्रभाषणानन्तरं सर्वे नेतारः सफाम् अभ्यनन्दयत्। जनानां करघोषैः सह राहुल् गान्धिनः प्रभाषणं तत् परिभाषां च जनाः स्वीचक्रुः।

अनुद्योगिता १०० शतमितं वर्धिता इति उद्योगमन्त्री।

नवदिल्ली- मोदीप्रशासनकाले अनुद्योगिता १०० प्रतिशतं वर्धितेति लोकसभायाम् उद्योगमन्त्रिणः प्रत्युत्तरम्। २०१३-१४ वर्षे ३.४ शतमितमासीत् वृत्तिहीनता। परं २०१७-१८ वर्षे षट्प्रतिशतम् अङ्किता वर्तते इति उद्योगमन्त्री सन्तोष् कुमार् गंगवार् वर्यः कोटिक्कुन्निल् सुरेष् इति सदस्याय सप्रमाणं प्रतिवचनमदात्।

२०१५-१६ वर्षे ३.७ शतमितमासीत् अनुद्योगिता। वृत्तिनिर्णयाधिकृताः तथा राष्ट्रिय स्थितिविज्ञान कार्यालयश्च युगपदायोजिते सर्वेक्षणे एव एषा अवस्था दृष्टेति मन्त्रिणः प्रत्युत्तरे सूचयति। महात्मगान्धी राष्ट्रिय ग्रामीण वृत्तिसंरक्षणयोजना, दीनदयाल् ग्रामीण कौशल योजना, दीनदयाल् अन्त्योदय योजना इत्येतैः द्वारा अधिकान् वृत्यवसरान् संस्रष्टुं सर्वकारः यतते इत्यपि मन्त्री अवदत्।

राज्यस्थासु सार्वजनीन संस्थासु बृहत् उद्योगसंस्थासु च वृत्तिलभ्यता न्यूनीभवति इति सर्वकारस्य सूचना अस्ति।

संस्कृतं भारतस्य पैतृका सम्पत्त् – ई. चन्द्रशेखरः।

काञ्ञङ्ङाट् – संस्कृतं भारतदेशस्य महती पैतृका सम्पत्त्। तां परिरक्षितुं पोषयितुञ्च संस्कृताध्यापकैः सज्जनैश्च महान् यत्नः कर्तव्य इति केरलानां राजस्य भवननिर्माणमन्त्री श्री ई चन्द्रशेखरः अभिप्रैति स्म। षष्ठितम-स्कुल् कलोत्सवत्सानुबन्धत्वेन व्यापारभवने समायोजितायां सङ्गोष्ठ्यां उद्घाटनभाषणं कृतवानासीदयम्।

     श्री करुणाकरन् कुन्नत्त् (जिल्ला पञ्चायत्त् अध्यक्षः काञ्ञङ्ङाट्) अध्यक्षपदमलंकृतायां सभायां चत्वारः संस्कृतपण्डिताः समाद्रियन्त। वेदपण्डितः श्री माधवन् नम्पूतिरिः, श्री पिलाक्कोट् माधवपणिक्कर्, श्री दामोदरपणिक्कर्, श्री गोपालकृष्णभट्टश्चासन् ते। श्रेष्ठभारतं कार्यक्रमद्वारा सुपरिचितौ छात्रौ श्री राहुल्, श्री आदिदेवः च (कूटालि उच्चविद्यालयः कण्णूर्) आदरस्य पात्रीभूतौ अभवताम्।

      सार्वजनीनशिक्षानिदेशकः श्री जीवन् बाबु ऐ.ए.एस्, राज्यस्तरीय संस्कृतविशिष्टाधिकारिणी डो. टि.डी सुनीतिदेवी, कलोत्सवकार्यक्रमस्याध्यक्षः श्री सि.पि. सनल् चन्द्रः, श्री पि.वी. जयराजः, कासरगोड् विद्याभ्यासोपनिदेशिका श्रीमति के.वि. पुष्पा, श्री एन्. आर्. श्रीधर् च भाषणमकुर्वन्। संस्कृतभाषया बृहद् ऒप्पनायाः गानकर्ता डो. सुनिल् कमार् कोरोत्त् च सर्वेषां प्रेमभाजनमभवत्।

      ‘का संगतिः संस्कृतवाङ्मयस्य’ इति विषये श्री शङ्कराचार्यसंस्कृतविश्वविद्यालयस्य प्राध्यापकः डो.वि.आर्. मुरलीधरः मुख्यं भाषणमकरोत्। संस्कृतकलोत्सवाध्यक्षः डो.ई. श्रीधरः चर्चाचालकश्चासीत्। संस्कृतस्य पौराणिकी सम्पत्त् आधुनिककालेषु महती प्रचोदिकापि तस्याः कालानगुणम् उपयोगः संस्कृतज्ञैः सर्वैरेव करणीय इति सङ्गोष्ठीसदः उच्चैस्तरमुद्घोषयन्।

      सङ्गोष्ठीप्रचालनं प्रख्यापयन्ती दीपशिखा प्रातः अष्टवादने एव वेल्लिक्कोत्तु विद्यालयाङ्कणात् समारभ्य व्यापारभवनं समायाता। संस्कृताध्यापकसंघस्याध्यक्षः श्री सनल् चन्द्रः  दीपशिखाप्रयाणस्य मार्गदर्शकश्चासीत्।

संगोष्ठिदृश्यानि – click here….

कविः अक्कित्तं ज्ञानपीठपुरस्कारमवाप।

नवदिल्ली- विख्यातः कैरलीकविः अक्कित्तम् अच्युतन् नम्पूतिरिवर्यः ज्ञानपीठपुरस्कारेण बहुमानितः। साहित्यमण्डलाय दत्तं समग्रं योगदानमभिलक्ष्यैव अयं पुरस्कारः। दिल्याम् आयोजिता समितिः ऐककण्ड्येनैव जेतारं निरणयत्। ११ लक्षं रूप्यकाणि सरस्वतीशिल्पं च पुरस्कारे अन्तर्भवति। पालक्काट् कुमरनल्लूर् देशस्थः अच्युतन् नम्पूतिरिः ४३ परं कृतीः रचितवान्। ९३ तमे वयस्येव अस्य पुरस्कारलाभः।

     इरुपतां नूट्टान्टिन्टे इतिहासम् इत्येेव तस्य प्रमुखा कृतिः। २०१७ तमे वर्षे पद्मश्रीपुरस्कारेणापि अयम् आदृत आसीत्। कैरलीभाषायै प्राप्तः षाष्टः पुरस्कारः भवत्ययम्।

     केन्द्र-राज्य साहित्य अक्कादमिपुरस्कारौ एषुत्तच्छन् पुरस्कारश्च अक्कित्तं वर्येण प्राप्ताः।

षष्टितमः विद्यालयीयकलोत्सवस्य उन्मीलनं नवम्बर् २८ दिनाङ्के।

काञ्ञङ्ङाट्- केरल-सार्वजनीनशिक्षाविभागेन आयोज्यमानस्य विद्यालयकलोत्सवस्य कासरगोड् जनपदे काञ्ञङ्ङाट् देशे नवम्बर् २८ दिनाङ्के शुभारम्भः भविष्यति। प्रातः अष्टवादने मुख्यवेदिकायां सार्वजनीनशिक्षानिदेशकः जीवन् बाबू ऐ ए एस् वर्यः ध्वजारोहणं विधास्यति। ततः नववादने उद्घाटनाधिवेशनं भविता।

६० अध्यापकाः सम्भूय स्वागतगीतम् आलपिष्यन्ति। छात्राणां नृत्तशिल्पमपि भविता। केरलविधानसभाध्यक्षः पी. श्रीरामकृष्णन् वर्यः कलोत्सवस्य उद्घाटनं विधास्यति। राजस्वमन्त्री इ चन्द्रशेखरन् वर्यः अध्यक्षपदवीमलंकरिष्यति। मुख्यप्रभाषकः शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः तथा मुख्यातिथिः नौनिस्थानविभागमन्त्री कटन्नप्पल्लि रामचन्द्रन् वर्यः भवितारौ। लोकसभासदस्यः राजमोहन् उण्णित्तान् तथा विधानसभासामाजिकाः के.कुञ्ञिरामन्, एन्.ए. नेल्लिक्कुन्न्, ए राजगोपालः,ए.सी. खमरुद्दीन् च मुख्यातिथयः भवितारः।

मत्सरार्थं २८ वेदिकाः सज्जीकृताः। प्रातः नववादने प्रतिदिनं मत्सरमारभते। २३९ विभागे दशसहस्रपरिमिताः छात्राः पस्पर्धयिषवः सन्ति। तेषु विभागेषु उच्चविद्यालयस्य ९६, उच्चतरविद्यालयस्य १०५, संस्कृतोत्सवस्य १९, तथा अरबिकलोत्सवस्य १९ च अन्तर्भवन्ति।

८१८ विधिनिर्णेतृृणां सेवा सन्ति। पस्पर्धयिषूणां विधिकर्तृणां तथा समायोजकानां च कृते भोजनव्यवस्था सुसज्जा भवतिय़ पूर्णतया हरितानुशासनमनुसृत्यैव कलोत्सवः समायोज्यन्ते।

कलेत्सवस्य संघाटकसमितेः अध्यक्षः मन्त्री इ चन्द्रशेखरन् वर्यः भवति। मुख्यसमायोजकः के जीवन्बावू वर्यः(सार्वजनीनशिक्षानिदेशकः ) , रक्षाधिकारी डी सजित् बाबू (जिल्लाधिकारी ), उत्सवसञ्चालकः सि.ए. सन्तोष् वर्यः(शिक्षासहनिदेशकः,) च भवन्ति।

मत्सरार्थिनां प्रमाणपत्राणि पुरस्कारांश्च तत्तद्दिनेष्वेव वितरिष्यन्ते।

के.पि. अच्युतपिषारटिः दिवंगतः।

पालक्काट् – पिषारोटि समाजस्य कुलपतिः पण्डितवर्यश्च कोटिक्कुन्नत्तु पिषारत्त् अच्युतपिषारटिः (१०८) अद्य प्रातः ४.३० वादने  दिवंगतो∫भवत्। मृतदेहं प्रभाते ९.३० कालपर्यन्तं पाम्पुपुरे श्रीमतः नारायणन्कुट्टि वर्यस्य सदने प्रदर्शनार्थं प्रस्थाप्य ततः स्वजन्मगृहं कोटिक्कु्न्नुभवनं नीतम्। ११ वादने पल्लिप्पुरं कोटिक्कुन्नुभवने संस्थाप्य सायं द्विवादने संस्कारकर्मं समभवत्। कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्यायाः तथा पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यस्य च पुत्रत्वेन लब्धजन्मा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मणः संस्कृतमपठत्। ततः १०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तो∫भवत्।  पण्डितरत्नं, देवीप्रसादं इत्यादिभिः बहुभिः पुरस्कारैः पण्डितो∫यं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।

मधुरस्मितम् – संस्कृतचलच्चित्रं दृश्यशालां प्राप्स्यति।

तिरुवनन्तपुरम् – सुरेष् गायत्री इति नवागतनिदेशकस्य निदेशने संस्कृतभाषायां प्रथमं बालकानां चलच्चित्रम्- मधुरस्मितम्- नवम्बर् २१ दिनांके दृश्यशालां प्राप्स्यति। सान्स्क्रीट् प्रोडक्शन्स् इति संस्कृताध्यापकानां छात्राणां भाषाकुतुकिनां च संहतेः ध्वजे संरचितस्यास्य चलच्चित्रस्य निर्माणकार्यकर्तारः भवन्ति एन्.के. रामचन्द्रन्, के.जी. रमाबाय्, ई मनोहरन्, बी.आर्. लाली च। निदेशाध्यक्षः निसार् वर्यः, मुख्यसहकारिनिदेशकः रस्सल् नियास् च।
शित्राया‌ः महत्वं लक्ष्यबोधं च उद्गीयमानस्य अस्य चलच्चित्रस्य कथा पटकथा च अरुण् नेल्लनाट् वर्येण विहिता। सम्भाषणं बिजिला किषोर् कुमार् विदधाति। गानरचयितारः सुरेष् विट्टियरं, डो. कुमार् जे तथा बिजिला किषोर् कुमार् च भवन्ति। संगीत निदेशकः राजेष् नारायणन्। रुग्मा, अय्मुना, अर्पणा श्रीकुमार्, आर्या एं नायर्, अद्वैत् इत्येते छात्राः गायकाः।
नूतनाभिनेतृृन् बालनटान् केन्द्रपात्राणि कृत्वा संरचिते अस्मिन् चलच्चित्रे अञ्जना, नित्या, आर्या, गौरी, तीर्त्था, महालक्ष्मी,आर्द्रा गैरीकृष्ण, वसिष्ठ्, उदय् नारायणन् प्रभृतयः छात्राः अभिनेतारः। छायाग्रहणम्-पी.सी. लाल्, सम्पादकः-जयचन्द्र कृष्ण, परिसंरचना- चित्राञ्जली, संस्कृतभाषायां संरचितं विश्वे प्रथमं बालकानां सामाजिकचलच्चित्रं भवति मधुरस्मितम्। अस्य चित्रस्य आयः प्रलयानन्तरकेरलपुनर्निर्माणाय मुख्यमन्त्रिणः दुरिताश्वासनिधौ अर्पयिष्यति।
दृश्यशालाः- तिरुवनन्तपुरम्- निला, तृशूर्- कैरली, पालक्काट्/चिट्टूर्- श्री।

मधुरस्मितम् (Trailor)

राज्यल्तरीयः विद्यालयकलोत्सवः,बृहत् ओप्पना प्रस्तूयते।

काञ्ञङ्ङाट्- केरलीय-सारवजनिकशिक्षाविभागस्य आभिमुख्ये एष्याभूखण्डस्य बृहत्तमः कलोत्सवः कासरगोड् जनपदे काञ्ञङ्ङाट् देशे आयोक्ष्यते। सप्तभाषासङ्गमभूमावस्यां अष्टाविंशतिवर्षानन्तरमेव अयं कलोत्सवः पुनरायाति।
कलोत्सवस्य उद्घाटनं नवंबर् २८ दिनाङ्के गुरुवासरे भविता। तद्दिने सांस्कृतिककार्यक्रममपि आयोक्ष्यते। तस्य भागत्वेन ओप्पना इति प्रान्तीयकलारूपस्य परिष्कृतरूपं संस्कृतभाषायां बृहत् ओप्पना नाम्नि प्रस्तूयते।
माप्पिलप्पाट्ट् इति गीतशाखायाः ईशल् आख्यं साहित्यभागं संस्कृतभाषायां रचितवान् श्रीमान् सुनिल् कुमार् कोरोत् वर्यः। कासरगोडे तच्चङ्ङाट् उच्चतरविद्यालये संस्कृताध्यापकोयं महाशयः तत्रत्याः २५० परिमिताः बालिकाः समायोज्यैव एतदर्थं सन्नह्यति। सजीवन् वेङ्ङाट् वर्यः कलारूपस्यास्य आशयमाविष्कृतवान्। निदेशनं नृत्यस्वरूपं च जुनैद् मोट्टम्मल् वर्यः समायोजयति।
विश्वे प्रप्रथमं एतत् कलारूपं कलोत्सवदिदृक्षूणाम् उत्सवाय नूनं भवेत्।